०३३ समभ्या (सम्+अभि-आङ्)

  • {समभ्ये}
  • इ (इण् गतौ)।
  • ‘ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद् द्रुतम्। दर्शनेप्सुः समभ्यागात्’ (भा० आदि० १३४।१७)॥ समभ्यागात्=समागमत्।
  • ‘व्यसनं वः समभ्यागात्’ (भा० सभा० ७९।१४)। उपानंसीदित्याह

दा

  • {समभ्यदा}
  • दा (डुदाञ् दाने)।
  • ‘एतास्तेजोमात्राः समभ्याददानः’ (श० ब्रा० १४। ७।२।१)। समं गृह्णान इत्यर्थः।