धातुनिर्देशः

औपदेशिकधातवः

  • धातुपाठे विद्यमानाः प्रायेण २००० धातवः - भू, एध्, स्पर्ध्, … पाणिनिविरचितः धातुपाठः ।

पाठान्तराणि

  • “इष्टशब्दानां सिद्ध्यर्थम् एतेषु दत्ताः सर्वेऽपि पाठभेदाः आवश्यकाः सन्ति । यथा, आडम्बरः, विडम्बनम् इत्येतयोः सिद्धौ आवश्यकः डम्ब् क्षेपे इति धातुः पाणिनीयधातुपाठे नास्ति परन्तु चान्द्रधातुपाठे विद्यते ।”

  • क्षीरस्वामीविरचितः धातुपाठः = क्षीरतरङ्गिणी

  • मैत्रेयरक्षितेन निर्मितः धातुपाठः = धातुप्रदीपः

  • सायणाचार्येण कृतः धातुपाठः = माधवीयधातुवृत्तिः

  • सिद्धान्तकौमुद्यां निर्दिष्टः (भट्टोजीदीक्षितकृतः) धातुपाठः

  • काशकृत्स्नव्याकरणस्य काशकृत्स्नधातुपाठः

  • चान्द्रव्याकरणस्य चान्द्रधातुपाठः

  • जैनेन्द्रव्याकरणस्य जैनेन्द्रधातुपाठः

  • शाकटायनव्याकरणस्य शाकटायनधातुपाठः

वर्णव्यत्ययः

वर्णव्यत्ययविचारो ऽन्यत्र

गणसम्बन्धे भेदाः

  • भ्वादिगणः, दिवादिगणः, चुरादिगणः आकृतिगणः इति केचन ।

दिवादिस्तु भ्वादिवद् आकृतिगणः । तेन क्षीयते-मृग्यतीत्यादि-सिद्धिर् इत्य् आहुः
इति सिद्धान्तकौमुद्यां दिवादिगणस्य अन्ते निर्देशः लभ्यते ।

एवमान्दोलयति । प्रेङ्खोलयति । विडम्बयति । अधीरयतीत्यादि ।
अन्ये तु दशगणीपाठो बहुलम् इत्य् आहुः ।
तेनापठिता अपि सौत्र-लौकिक-वैदिका बोध्याः ।

अपरे तु नव-गणीपाठो बहुलमित्य् आहुः ।
तेनापठितेभ्योऽपि क्वचित् स्वार्थे णिच् । रामो राज्यम् अचीकरत् इति यथेत्याहुः ।

चुरादिभ्यो एव बहुलं णिज् इत्य् अर्थ इत्य् अन्ये ।

सर्वे पक्षाः प्राचां ग्रन्थे स्थिताः

— इति सिद्धान्तकौमुद्यां चुरादिगणस्य अन्ते निर्देशः लभ्यते ।

व्याख्यातेयं नवगणी
कुशकाशावलम्बनात् ।
चुरादिर् अधुनारब्धो
यत्र भग्नाः महारथाः ॥+++(5)+++

पाठेऽर्थे चागम-भ्रंशान्
महताम् अपि मोहतः ।
न विद्मः किं जहीमोऽत्र
किमुपादद्महे वयम् ॥

— इति क्षीरतरङ्गिण्यां चुरादिगणस्य आदौ ।

सौत्राःधातवः

  • पाणिनिविरचितेषु सूत्रेषु एषां निर्देशः कृतः
  • यथा ३.१.८२ स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च

आतिदेशिकधातवः / प्रत्ययान्ताः धातवः