आरभ्

आरभते = आ + रभ् (राभस्ये, भ्वादिः, आत्मनेपदी) अस्य लट्लकारस्य प्रथमपुरुषैकवचनम् ।

राभस्यम् इत्युक्ते शीघ्रीभावः / मोदः । आङ्-उपसर्गः प्रयुज्यते चेत् “प्रारम्भः” इति अर्थपरिवर्तनं भवति ।

रभ् धातुः सकर्मकः अस्ति । अतः यः प्रारम्भं करोति सः कर्ता ; यस्य प्रारम्भः क्रियते तत् कर्म ।

  • कर्तरि प्रयोगे — देवदत्तः कार्यक्रमम् आरभते ।
  • कर्तरि प्रयोगे कर्मपदं विना — देवदत्तः आरभते ।
  • कर्मणि प्रयोगे — देवदत्तेन कार्यक्रमः आरभ्यते ।
  • भावे प्रयोगे — देवदत्तेन आरभ्यते ।
  • कार्यक्रमः आरभते / देवदत्तः आरभ्यते — एतादृशाः प्रयोगाः असाधवः ।