२ ३ १ परमप्राथमिकः स्तरः

२.३.१.१. अजन्तशब्दानाम् एव प्रयोगः

अजन्तशब्दाः यथा, तथा संस्कृते हलन्तशब्दाः अपि बहवः सन्ति । तेषां सर्वेषाम् अपि रूपाणि विभिन्नानि भवन्ति । अजन्तशब्देषु अपि अन्तभेदेन रूपाणि भिद्यन्ते । सरलसंस्कृते यावच्छक्यम् अजन्तशब्दानाम् एव प्रयोगः करणीयः । तत्रापि अकारान्तपुंलिङ्गशब्दानाम्, अकारान्तनपुंसकलिङ्ग-शब्दानाम्, आकारान्त-ईकारान्त स्त्रीलिङ्गशब्दानां च प्रयोगः करणीयः । यथा -

  • (अ) अकारान्तपुंलिङ्गशब्दाः - बालकः, वृक्षः, मार्गः, आपणः, अध्यापकः, विद्यालयः, कार्यालयः, सोदरः, जनकः इत्यादयः।
  • (आ) अकारान्तनपुंसकलिङ्गशब्दाः - फलम्, नगरम्, पुष्पम्, वातायनम्, द्वारम्, भवनम् इत्यादयः ।
  • (इ) आकारान्ताः ईकारान्ताः च स्त्रीलिङ्गशब्दाः - लता, माला, शाला, बालिका, महिला, भाषा इत्यादयः, लेखनी, अङ्कनी, भगिनी, जननी, विद्यर्थिनी, नदी इत्यादयः च।

एतदत्र स्मारयितुम् इष्यते यत् सर्वैः अपि प्रमाणत्वेन अभ्युपगम्यमाने व्यवहारप्रतिनिधिभूते अमरकोषे अपि एतादृशाः चतुर्विधशब्दाः एव आधिक्येन (प्रायः ८० %) सन्ति इति । अस्मात् स्पष्टं यत् व्यवहारे एते चतुर्विधाः शब्दाः एव आधिक्येन सन्ति इति, एतेषां चतुर्विधानां केषाञ्चित् सर्वनाम्नां केषाञ्चित् अव्ययानां च आधारेण सर्वविधाः अपि अभिप्रायाः विना क्लेशं विना दोषं च प्रकाशयितुं शक्याः इति । अतः एतैः चतुर्विधैः एव शब्दैः व्यवहारं निर्वोढुं प्रयत्नः करणीयः, येन श्रोतुः प्रयोक्तुः च श्रमः नितरां न्यूनः भवेत् ।

कुत्रचित् शब्दः अकारान्तः नास्ति चेदपि तस्य अन्यस्य शब्दस्य योजनेन अकारान्तत्वं साधयितुं शक्यते । यथा - राजन् इति नकारान्तः शब्दः । किन्तु समासे कृते सति सः अकारान्तः भवति । (राजाहस्सखिभ्यष्टच्) अतः अस्माभिः हलन्तः राजशब्दः यत्र प्रयोक्तव्यः; तत्र सर्वत्र अकारान्तः महाराजशब्दः प्रयोक्तुं शक्यः । एवमेव हलन्तः ‘सुहृत्’शब्दः यत्र प्रयोक्तव्यः तत्र अजन्तः ‘मित्र’शब्दः प्रयोक्तुं शक्यः । अन्यानि उदाहरणानि यथा - मुनिः - मुनिवरः, वक्षः - वक्षःस्थलम् इत्यादयः ।

२.३.१.२. पर्यायशब्दानां प्रयोगे चिन्तनम्

एकमेव अर्थं बोधयन्तः समानार्थकाः शब्दाः (पर्यायशब्दाः) संस्कृते भवन्ति बहवः । कमपि अर्थं बोधयितुं कश्चन शब्दः यदा स्वीकर्तव्यः भवति तदा अस्माभिः तदर्थकेषु पर्यायशब्देषु अकारान्तः शब्दः एव स्वीकर्तव्यः । यथा - हस्तिन्, करिन् इत्यादयः बहवः शब्दाः सन्ति चेदपि अस्माभिः तम् अर्थं बोधयितुं गजः इत्येषः अकारान्तः शब्दः एव स्वीकर्तव्यः। एवमेव जलमुक्, जलदः, वारिदः, अम्बुभृत् इत्यादिषु बहुषु शब्देषु सत्सु अपि अस्माभिः मेघः इति अकारान्तः शब्दः एव स्वीकर्तव्यः ।

अनेन प्रकारेण चतुर्विधानाम् एव शब्दानां प्रयोगेण महत् सारल्यं सिद्धं भवति ।

समानार्थकाः अकारान्ताः एव बहवः शब्दाः स्युः कदाचित् । यथा - गजः, इभः, द्विपः, वारणः इत्यादयः । तदा तु तेषु शब्देषु मातृभाषायां यः संस्कृतशब्दः प्रसिद्धः अस्ति सः एव स्वीकरणीयः । उपरि उक्ते उदाहरणे गजः इति शब्दः एव अत्यन्तं प्रसिद्धः अस्ति । प्रायः मातृभाषायाम् अपि प्रयुक्तः भवति । अतः सः एव स्वीकरणीयः, न तु अप्रसिद्धाः इभादयः।

मातृभाषायां ये संस्कृतशब्दाः स्युः तेषाम् एव स्वीकरणात् श्रोता विना क्लेशम् अर्थम् अवगच्छति । एते सर्वे शब्दाः मया ज्ञायन्ते इति बुद्धिः तस्मिन् उपजायते । तदा सहजतया संस्कृतस्य सरलतां मनसा अभ्युपगच्छति सः । संस्कृतस्य अनभिज्ञान् उद्दिश्य कथनसमये तु अयम् अंशः नितराम् उपकारकः । विद्यालये अध्यापनसमये, सामान्यान् उद्दिश्य लेखनसमये कथनसमये च अयमेव अंशः तारकः ।

एकमेव अर्थं बोधयितुं विभिन्नानां बहूनां शब्दानां प्रयोगः संस्कृतभाषायां प्रायेण क्रियते । तादृशेषु अवसरेषु श्रोतॄणां मनसि सम्भाव्यं भ्रमं निवारयितुं सरलसंस्कृते एकस्मिन् अर्थे एकः एव शब्दः प्रयोक्तव्यः । अन्तपर्यन्तमपि तस्य एव शब्दस्य प्रयोगः करणीयः । एकस्मिन् वाक्ये मेघः इति, अन्यस्मिन् वाक्ये जलदः इति, अपरस्मिन् वाक्ये वारिदः इति, पुनः अन्यस्मिन् जलमुक् इति च यदि प्रयुज्यते तर्हि अनधीतसंस्कृतः जनः निश्चयेन भ्रान्ति प्राप्नोति । अतः एकस्मिन् अर्थे एकः एव शब्दः इत्येतत् नियमत्वेन एव स्वीकर्तुं शक्यते।

ईदृशः अपरः अपि नियमः भवितुम् अर्हति - एकः शब्दः एकस्मिन् अर्थे एव इति । नानार्थकाः शब्दाः अनेके संस्कृते प्रसिद्धाः । यथा - हरिः इत्यस्य शब्दस्य विष्णुः, सूर्यः, सिंहः, कपिः इत्यादयः अनेके अर्थाः भवन्ति ।

अस्माभिः तु विष्णुः इति एकस्मिन् अर्थे एव तस्य शब्दस्य प्रयोगः करणीयः । तदा तु अस्माभिः यत्र यत्र हरिः इति शब्दः प्रयुक्तः भवति तत्र सर्वत्र श्रोता विष्णुः इति समानम् एकमेव अर्थं गृह्णाति । तदा तस्य भूयान् एव क्लेशः निवारितः भवति।

२.३.१.३. युष्मदर्थे भवच्छब्दस्य प्रयोगः

प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः चेति त्रयः पुरुषाः संस्कृतभाषायां प्रयुज्यन्ते इति वयं जानीमः एव । तत्र अस्मच्छब्दस्य प्रयोगः यदा क्रियते तदा उत्तमपुरुषस्य प्रयोगः एव करणीयः इत्यपि वयं जानीमः । उत्तमपुरुषस्य प्रयोगं विना व्यवहारः एव न सम्भवति । (सम्भाव्येत चेदपि महता कष्टेन करणीयः भवति । यथा - ‘अहं गच्छामि’ इत्यर्थे ‘अयं जनः गच्छति’ इत्येतादृशः असहजः प्रयोगः करणीयः भवति । तथा कृतं चेत् तत्र कृत्रिमता अपि अनुभूयते ।) युष्मच्छब्दस्य प्रयोगः यदा क्रियते तदा तु मध्यमपुरुषस्य प्रयोगः एव करणीयः इति व्याकरणनियमः अस्ति । (युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः - १-४-१०५) सरलसंस्कृते अस्माभिः युष्मच्छब्दस्य प्रयोगः परमप्राथमिकस्तरे परिहर्तुं शक्यः । तन्नाम यत्र यत्र युष्मच्छब्दस्य प्रयोगः करणीयः भवति तत्र सर्वत्र भवच्छब्दस्य प्रयोगः भवितुम् अर्हति । एवं क्रियते चेत् प्रत्येकं धातोः प्रतिलकारं मध्यमपुरुषस्य त्रीणि रूपाणि विहाय एव अस्माभिः व्यवहारः कर्तुं शक्यते । यतः भवच्छब्दस्य योगे तु मध्यमपुरुषस्य प्रयोगः करणीयः नास्ति । तदा तु ‘शेषे प्रथमः’ इति सूत्रम् अवलम्ब्य प्रथमपुरुषस्य प्रयोगः । तथा क्रियते चेत् प्रथमपुरुषः, उत्तमपुरुषः चेति पुरुषद्वयस्य प्रयोगेण एव सर्वमपि व्यवहारं कर्तुं शक्नुमः । एवं प्रयोगावसरे अस्माभिः युष्मदर्थः न परित्यक्तः, परन्तु तम् अर्थं वयं भवच्छब्दप्रयोगेण वदन्तः स्मः इति न विस्मर्तव्यम् । एवं चेत् यत्र यत्र युष्मच्छब्दः प्रयोक्तव्यः भवति तत्र सर्वत्र भवच्छब्दस्य प्रयोगः औचित्यम् आवहति किम् इति कश्चन प्रश्नः भवितुम् अर्हति । राजा सेवकम् उद्दिश्य भवच्छब्दं प्रयोक्तुम् अर्हति किम्, गुरुः शिष्यम् उद्दिश्य, ज्येष्ठः बालम् उद्दिश्य वा युष्मच्छब्दस्य स्थाने भवच्छब्दस्य प्रयोगं यदि करोति तर्हि तत् उचितं किम् इति केचन प्रश्नाः सम्भवेयुः एव । परन्तु तद्विषये महती चिन्ता न करणीया । यतः प्राचीनैः कविभिः अन्यैः चापि तत्र तत्र तादृशाः प्रयोगाः कृताः सन्ति एव । कालिदासप्रभृतिभिः महाकविभिः अपि युष्मच्छब्दस्य भवच्छब्दस्य च समाने अर्थे प्रयोगः कृतः दृश्यते । समाने श्लोके समानं कर्तारम् उद्दिश्य सकृत् युष्मच्छब्देन, ततः भवच्छब्देन च निर्देशः कृतः दृश्यते।

यथा - ‘स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान् दर्शितशिष्यभक्तिः ।’ - (रघुवंशे द्वितीयसर्गे)

अत्र सिंहः महाराजं दिलीपम् उद्दिश्य आदौ ‘त्वम्’ इति युष्मच्छब्दप्रयोगं कृत्वा ततः ‘भवान्’ इति भवच्छब्दप्रयोगं करोति। सेवकजनेषु भवच्छब्दस्य प्रयोगविषये महाकवेः कालिदासस्य प्रयोगमेव उदाहर्तुं शक्नुमः । अभिज्ञान शाकुन्तले महाराजः दुष्यन्तः सेवकजनम् उद्दिश्य भवच्छब्दप्रयोगं करोति । तथा -
राजा - (परिजनं विलोक्य) अपनयन्तु भवत्यो मृगयावेषम् इति । - द्वितीये अके।

पञ्चतन्त्रादिषु ग्रन्थेषु अपि तादृशानि बहूनि उदाहरणानि दृश्यन्ते । अतः युष्मच्छब्दस्य स्थाने भवच्छब्दस्य प्रयोगे शिष्टप्रयोगप्रामाण्यम् अस्ति एव, शास्त्रसम्मतिः चापि अस्ति इति नितुं शक्यते ।

२.३.१.४. एकवचन-बहुवचनयोः प्रयोगः

एकवचनं द्विवचन बहुवचनं चेति त्रीणि वचनानि संस्कृतभाषायां सन्ति । वस्तुतः जगतः कासुचित् एव भाषासु द्विवचनम् अस्ति । अतः संस्कृते द्विवचनस्य प्रयोगे प्राथमिकाः अभ्यासिनः मुह्यन्ति । प्रमादम् अपि कुर्वन्ति । सरलसंस्कृतप्रयोगावसरे वयं द्विवचनस्य प्रयोगं परिहरामः चेत् वरम् । यतः कर्तरिप्रयोगे कर्तृपदं द्विवचनान्तं प्रयुक्तं चेत् तदनुसारेण क्रियापदमपि द्विवचनान्तमेव प्रयोक्तव्यम् । (यथा - बालकौ ग्रन्थं पठतः ।) कर्मणिप्रयोगे कर्मपदं द्विवचनान्तं चेत् तदनुसारेण क्रियापदमपि द्विवचनान्तमेव प्रयोक्तव्यम् । (यथा - बालकेन ग्रन्थौ पठ्यते ।) किन्तु भाषाप्रयोगकर्तुः मुखात् तानि द्विवचनरूपाणि सुखेन न निस्सरन्ति । तदा तु सः अधीतसंस्कृतः चेत्, तेन मनसि एव ‘पठति पठतः पठन्ति…’ इत्येवं लकाररूपाणां सकृत् आवर्तनं कृत्वा, द्विवचनरूपं स्मृत्वा अनन्तरं वक्तव्यं भवति । तत्रापि, सर्वे तानि रूपणि न स्मरन्ति । विद्वांसः अपि लट्लकाररूपाणि कदाचित् स्मरेयुः चेदपि अन्यलकाररूपेषु प्रायः प्रमाद्यन्ति, अभ्यासस्य अभावात् । अतः वक्तुः दृष्ट्या अपि द्विवचनस्य प्रयोगः क्लेशाय । श्रोतुः दृष्ट्या तु इतोऽपि क्लेशाय । यतः मातृभाषायां तस्य प्रयोगः नास्ति इत्यतः श्रोता तदवगमने क्लेशम् अनुभविष्यति एव । अतः सामान्यव्यवहारे द्विवचनस्य परिहारः एव श्रेयसे।

एवं चेत् द्विवचनरूपस्य अर्थस्य कथनं कथम् इति प्रश्नः समुद्भवति । तदा तु उपायान्तरम् आश्रयणीयम् । ‘द्वयम् ’ इत्यस्य योजनेन तस्य एव अर्थस्य आविष्करणं कर्तुं शक्यते।

यथा - ‘बालकौ’ इति वक्तव्ये ‘बालकद्वयम्’ इति, ‘बालिके’ इति वक्तव्ये ‘बालिकाद्वयम्’ इति, ‘फले’ इति वक्तव्ये ‘फलद्वयम्’ इति च वक्तुं शक्यते । तदा तु बालकद्वयम् अस्ति, बालिकाद्वयम् अस्ति, फलद्वयम् आनय इति एकवचनान्तं क्रियापदं प्रयोक्तव्यम्।

एवं चेत् द्विवचनप्रयोगेण विना एव वयं सर्वम् अपि व्यवहारं निर्वोढुं शक्नुयाम; तदा तु प्रतिलकारं त्रीणि द्विवचनरूपाणि व्यवहारे अपेक्षितानि न भवन्ति।

एतावता अस्माभिः द्विवचनस्य परित्यागः कृतः इति न चिन्तनीयम् । सरलसंस्कृतप्रयोगावसरे, तत्रापि पूर्वोक्तेषु त्रिषु स्तरेषु प्रथमस्तरद्वये द्विवचनस्य परिहारः कृतः चेत् अपि व्यवहारे कापि क्षतिः न भवति इत्येव तात्पर्यम् । इत्थं च द्विवचनस्य मध्यमपुरुषस्य च परिहारेण लकाररूपेषु महत् लाघवं सम्पादितं भवति ।

यथा -
पठति पठतः पठन्ति
पठसि पथथः पठथ
पठामि पठावः पठामः

इत्येतेषु पठधातोः नवसु लट्लकाररूपेषु ‘पठति, पठन्ति, पठामि, पठामः’ - इत्येतानि चत्वारि एव रूपाणि व्यवहारे पर्याप्तानि भवन्ति । तैः चतुर्भिः एव रूपैः वयं सर्वविधम् अपि आशयं प्रकाशयितुं शक्नुमः।

एवं चेत् ‘आवां गच्छावः’ इत्यभिप्रायः कथं वक्तव्यः इति चेत् ‘वयं गच्छामः’ इत्येव उत्तरम् । एतादृशाः प्रयोगाः (यत्र द्वयोः गमनं वक्तव्यम् अस्ति तत्रापि बहुवचनस्य प्रयोगः) संस्कृतसाहित्ये, विशिष्य नाटकादिषु विपुलतया दृश्यते । अतः तथा प्रयोगः न दोषाय।

अन्यच्च सरलसंस्कृतं यदा अभ्यस्तं भवति, जनमानसे रूढं च भवति तदनन्तरं तु अपेक्षायां सत्यां द्विवचनस्य, मध्यमपुरुषस्य वा पाठनं कर्तुं शक्यते एव । तदा तयोः पाठने अधिकः क्लेशः अपि न भवेत् । केवलं प्राथमिकस्तरे यत्र च सरलसंस्कृतस्य एव प्रयोगः करणीयः अस्ति तत्र एतयोः परिहारः करणीयः इत्येव अस्माकम् आशयः ।

२.३.१.५. विभक्तिविषये सारल्यम्

विभक्तिप्रत्ययान्तेन यः अर्थः बोध्येत सः एव अर्थः क्वचित् अव्ययेन अपि बोध्यते । तादृशे अवसरे अव्ययस्य उपादानमेव श्रेयसे । तद्यथा - ‘तः’ इत्येतत् पञ्चम्यर्थे प्रयोक्तुं शक्यम् । यथा - ग्रामतः, विद्यालयतः, शालातः, आपणतः, नदीतः, नगरतः, काशीतः, वृक्षतः इत्येवमादयः। तदा तु अन्त-लिङ्गादिकारणतः यः रूपभेदः स्यात् सः निवारयितुं शक्यः, येन प्रयोक्त्रा यथा सारल्यम् अनुभूयेत तथैव अवगन्त्रा अपि क्लेशं विना अर्थः अवगम्येत । प्रातिपदिकात् तसिल्, तस् वा तत्र । (सर्वनामशब्देभ्यः तसिल विहितः । तद्भिन्नेभ्यः तस् । तस् तु ‘आद्यादिभ्यः तस्’ इति वार्तिकेन) ‘शालायाः’ इत्यस्य श्रवणात् पञ्चमी उत षष्ठी इति भ्रमः । ‘तः’ इत्यस्य योगे तु स्पष्टता।

एवमेव निमित्तार्थे ‘कृते’ इत्यस्य प्रयोगः भवितुम् अर्हति । (ततः पूर्वं षष्ठ्यन्तं पदं प्रयोक्तव्यम् )

२.३.१.६. भूतकालार्थे कृदन्तप्रयोगः

भूतकालार्थं बोधयितुं सामान्यतः लङ्लकारस्य प्रयोगः क्रियते। यथा - पठधातुः -

अपठत् अपठताम् अपठन्
अपठः अपठतम् अपठत
अपठम् अपठाव अपठाम

एषु नवसु रूपेषु पूर्वं यथा सूचितं तथा द्विवचनस्य मध्यमपुरुषस्य च परिहारः कृतः चेत् अपि ‘अपठत्, अपठन्, अपठम्, अपठाम’ इत्येतेषां चतुर्णां रूपाणां प्रयोगः क्रियते । परन्तु प्राथमिकाः अभ्यासिनः सर्वेषां धातूनाम् (कृ-करोति, श्रु-शृणोति, ग्रह-गृह्णाति, ज्ञा-जानाति इत्यादीनाम्) एतेषां रूपाणां ज्ञाने प्रयोगे च क्लेशम् अनुभवन्ति । अन्यच्च धातुः यदि उपसर्गसहितः भवति तर्हि तु इतोऽपि अधिकः क्लेशः भवति । यतः तत्र लङ्लकारे धातोः पूर्वम् अडागमः भवति । सः आगमः उपसर्गात् अनन्तरं धातोः पूर्वं च भवति । तत्र पुनः सन्धेः अवसरः अस्ति चेत् सन्धिः अपि अवश्यमेव करणीयः भवति ।

यथा -

  • लट्लकारः- लङ्लकारः
  • गच्छति- अगच्छत्
  • आगच्छति- आ + अगच्छत् = आगच्छत् ।
  • प्रतिगच्छति- प्रति + अगच्छत् = प्रत्यगच्छत् ।
  • अनुगच्छति- अनु + अगच्छत् = अन्वगच्छत् ।
  • अवगच्छति- अव + अगच्छत् = अवागच्छत् ।
  • निर्गच्छति- निर् + अगच्छत् = निरगच्छत् ।
  • निश्चिनोति- निस् + अचिनोत् = निरचिनोत् ।

एतां प्रक्रियाम् अजानन्तः प्राथमिकाः अभ्यासिनः तत्र बहुधा दोषं कुर्वन्ति । अप्रतिगच्छत्, अनिर्गच्छत् … इत्येवम् अपशब्दप्रयोगं कुर्वन्ति । अन्यच्च प्रत्यगच्छत्, अन्वगच्छत्, अन्वसरत्, प्रादर्शयत्, अङ्ग्यकरोत्, निरचिनोत् इत्यादीनां रूपाणाम् अर्थावगमने अपि ते क्लेशम् अनुभवन्ति । (निश्चिनोति - निरचिनोत् इत्यत्र तु अधीतशास्त्राणाम् अपि सन्देहः स्यात् - निसचिनोत् उत निरचिनोत् इति । वस्तुतः तु निरचिनोत् इत्येव साधु रूपम् )

एतस्य क्लेशस्य परिहाराय अस्माभिः सरलसंस्कृते लङ्लकारस्य प्रयोगः एव परिहर्तुं शक्यते । तर्हि भूतकालार्थः कथं वक्तव्यः ? इति चेत् ‘क्तवतु’ इत्यस्य भूतकृदन्तस्य प्रयोगेण वक्तव्यः । ‘क्तवतु’प्रत्यययोगेन पुंलिङ्गे गतवान्, पठितवान्, स्थितवान् इत्यादीनि रूपाणि, स्त्रीलिङ्गे गतवती, पठितवती, स्थितवती इत्यादीनि रूपाणि, नपुंसकलिङ्गे गतवत्, स्थितवत्, पतितवत् इत्यादीनि रूपाणि च सिद्धानि भवन्ति । उपसर्ग सहितधातूनाम् अपि क्तवतुप्रत्ययान्तानि रूपणि सरलानि एव । तानि उपसर्गरहितधातूनां क्तवतुप्रत्ययान्तरूपाणि एव अनुसरन्ति । यथा - गतवान् इव आगतवान्, प्रतिगतवान्, अनुगतवान्, निर्गतवान्, अवगतवान् इत्यादीनि ।

अतः कृदन्तस्य प्रयोगेण महत् सारल्यं सिद्धं भवति इत्यत्र संशयः नास्ति । किन्तु लकाररूपस्य प्रयोगे लिङ्गत्रये अपि समानम् एव रूपं प्रयोक्तुं शक्यते, अतः तत्र एव सारल्यम् अधिकं खलु इति काचित् आशङ्का भवितुम् अर्हति । यद्यपि तत् सत्यम्, तथापि लङ्लकारप्रयोगे प्रथमपुरुष-उत्तमपुरुषयोः रूपेषु पुनः भेदः भवति । यथा - सः अगच्छत्, अहम् अगच्छम् । सः अपि प्रयोक्त्रा ज्ञातव्यः भवति । किन्तु क्तवतुप्रत्ययान्तस्य प्रयोगे सा समस्या नास्ति । यथा - सः गतवान्, अहं गतवान् । अतः अत्र एव सारल्यम् अधिकम् इति निर्णेतुं शक्यते । सोपसर्गधातुप्रयोगे महान् क्लेशः इति तु पूर्वमेव उक्तम् ।

२.३.१.७. चत्वारः एव लकाराः

लट्, लिट्, लुट्, लुट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लुङ् चेति दश लकाराः संस्कृते प्रसिद्धाः सन्ति । तेषु लेट्लकारः वेदमात्र प्रयोगम् अर्हति । लोकव्यवहारे तस्य प्रयोगः नास्ति । तथापि लिङ्लकारः विधिलिङ् आशीर्लिङ् चेति द्विप्रकारकः अस्ति इत्यतः आहत्य व्यवहारे अपि दश लकाराः भवन्ति एव । एवं चेत् एकस्य धातोः कर्तरि दशसु लकारेषु आहत्य नवतिः (९०) रूपाणि भवन्ति।

यथा - डु कृञ् करणे इति धातोः परस्मैपदे रूपाणि एवं भवन्ति -

लट्लकारे
करोति कुरुतः कुर्वन्ति
करोषि कुरुथः कुरुथ
करोमि कुर्वः कुर्मः

लिट्लकारे
चकार चक्रतुः चक्रुः
चकर्थ चक्रथुः चक्र
चकार चकृव चकृम

लुट्लकारे
कर्ता कर्तारौ कर्तारः
कर्तासि कर्तास्थः कर्तास्थ
कर्तास्मि कर्तास्वः कर्तास्मः

लृट्लकारः
करिष्यति करिष्यतः करिष्यन्ति
करिष्यसि करिष्यथः करिष्यथ
करिष्यामि करिष्यावः करिष्यामः

लोट्लकारः
करोतु-कुरुतात् कुरुताम् कुर्वन्तु
कुरु-कुरुतात् कुरुतम् कुरुत
करवाणि करवाव करवाम

लङ्लकारे
अकरोत् अकुरुताम् अकुर्वन्
अकरोः अकुरुतम् अकुरुत
अकरवम् अकुर्व अकुर्म

विधिलिङ्लकारे
कुर्यात् कुर्याताम् कुर्युः
कुर्याः कुर्यातम् कुर्यात
कुर्याम् कुर्याव कुर्याम

आशीर्लिङ्लकारे
क्रियात् क्रियास्ताम् क्रियासुः
क्रियाः क्रियास्तम् क्रियास्त
क्रियासम् क्रियास्व क्रियास्म

लुङ्लकारे
अकार्षीत् अकाष्टम् अकार्षुः
अकार्षीः अकाटम् अकार्ट
अकार्षम् अकाव अकार्म

लृङ्लकारे
अकरिष्यत् अकरिष्यताम् अकरिष्यन् अकरिष्यः अकरिष्यतम् अकरिष्यत
अकरिष्यम् अकरिष्याव अकरिष्याम।

अयम् उभयपदी इत्यतः आत्मनेपदरूपाणि अपि (कुरुते, चक्रे, कर्ता (कर्तासे), करिष्यते, कुरुताम्, अकुरुत, कुर्वीत, कृषीष्ट, अकृत, अकरिष्यत इत्यादीनि) नवतिसङ्ख्याकानि भवन्ति । यद्यपि कर्मणि पुनः नवतिः रूपणि भवन्ति, तथापि अत्र कर्तरिरूपाणाम् एव परिगणना कृता अस्ति । एतेषु रूपेषु पूर्वोक्तप्रकारेण द्विवचनस्य मध्यमपुरुषस्य च परिहारः कृतः चेत् अपि ४० + ४० रूपाणि तु शिष्यन्ते एव । प्रत्येकम् अपि धातोः एतावतां रूपाणां ज्ञानं स्मरणं प्रयोगः वा सामान्येन जनेन न शक्यते एव । अतः सरलसंस्कृते एतेषु केचन लकाराः परिहर्तुं शक्यन्ते।

यथा - भविष्यदर्थे लुट्लकारः, लुट्लकारः च भवतः । वयं भविष्यदर्थे लुट्लकारम् एव स्वीकुर्मः, न तु लुट्लकारम् । सः भविष्यत्सामान्ये विहितः, लुडर्थस्य अपि सङ्ग्राहकः । भूतकालार्थे लङ्लकारः, लुङ्लकारः, लिट्लकारः चेति त्रयः लकाराः सम्भवन्ति । वयं भूतकालार्थं क्तवतुप्रत्ययान्तस्य प्रयोगेण वदामः इत्यतः तस्मिन् अर्थे एतेषां त्रयणाम् अपि लकाराणां परिहारः कर्तुं शक्यते । प्रार्थनादिकम् अर्थं बोधयितुं लोट्लकारस्य आवश्यकता भवति । विध्यर्थं बोधयितुं विधिलिङ्लकारः अपि स्वीकर्तुं शक्येत । एवं क्रियते चेत् तदा लट्, लुट्, लोट्, विधिलिङ् (प्रगतस्तरे) इत्येतैः चतुर्भिः एव लकारैः वयं सर्वम् अपि व्यवहारं निर्वर्तयितुं शक्नुयाम । लृङ्लकारस्य अर्थमपि लिङ्लकारस्य प्रयोगेण वक्तुं शक्नुमः । यथा -

यदि भवान् आगमिष्यत् तर्हि अहं धनम् अदास्यम् । (लुङ्लकारस्य प्रयोगः) यदि भवान् आगच्छेत् तर्हि अहं धनं दद्याम् । (विधिलिङ्लकारस्य प्रयोगः)

यद्यपि अनयोः तात्पर्यभेदः अस्ति, तथापि स अल्पः भेदः प्रगतस्तरपर्यन्तं न परिगणनीयः । लुङ्लकारस्य प्रयोगाः अपि अत्यन्तं विरलाः । किन्तु तत्र भूते वा भाविनि वा अस्य प्रयोगः इति निर्धारणाय पूर्वापरसन्दर्भः परिशीलनीयः । सन्दरर्भपरिशीलने सति विधिलिप्रयोगेनापि तात्पर्यम् अवगन्तुं शक्यम् । किञ्च क्तवतुप्रत्ययान्तरूपेण सह असधातोः विधिलिङ्लकाररूपस्य प्रयोगेण अपि एतम् आशयं वक्तुं शक्नुमः । यथा - यदि भवान् आगतवान् स्यात् तर्हि अहं दत्तवान् स्याम्।

एवं यदि क्रियेत तर्हि चतुर्णां लकाराणां चतुर्भिः रूपैः चेति मिलित्वा षोडशभिः रूपैः कृदन्तरूपैः च समस्तं व्यवहारं साधयितुं प्रभवामः।

२.३.१.८. चितानां धातूनाम् एव प्रयोगः

पाणिनिमतानुसारेण संस्कृते प्रायः २००० धातवः सन्ति । एषु बहवः धातवः समानार्थकाः । ते च धातवः भ्वादिः, अदादिः, जुहोत्यादिः दिवादिः, स्वादिः, तुदादिः, रुधादिः, तनादिः, त्यादिः, चुरादिः इत्येवं दशसु गणेषु विभक्ताः सन्ति । तत्तद्गणस्य विकरणप्रत्ययम् अवलम्ब्य प्रत्येकं गणस्य धातूनां रूपाणि भिन्नानि भवन्ति । एवं भिन्नानां रूपाणां ज्ञानं स्मरणं चापि महते क्लेशाय एव । अतः तद्विषये सरलसंस्कृतदृष्ट्या एवं निश्चेतुं शक्यते - - आत्मनेपदिधातूनाम् अपेक्षया परस्मैपदिधातूनां प्रयोगः सुकरः । अतः परस्मैपदिनः धातवः एव प्रयोक्तव्याः ।

  • परस्मैपदिषु धातुषु अपि व्यवहारे येषाम् अत्यन्तम् उपयोगः भवति तादृशाः चत्वारिंशत् पञ्चाशत् वा धातवः चेतव्याः । तेषाम् एव प्रयोगः करणीयः परमप्राथमिकस्तरे। अत्यन्तम् अनिवार्याः परिमितसंख्याकाः केचन एव आत्मनेपदिधातवः अपि स्वीकर्तुं शक्यन्ते प्रगतस्तरे।
  • भ्वादिगणीयानां (भवति), दिवादिगणीयानां (दीव्यति), तुदादिगणीयानां (तुदति), चुरादिगणीयानां (चोरयति) च धातूनां रूपेषु प्रायः समानता अस्ति । तेषु यस्य कस्यापि एकस्य धातोः रूपाणि ज्ञातानि चेत् अन्येषां सर्वेषाम् अपि रूपाणि ज्ञातानि भवन्ति । अतः एतेभ्यः चतुर्व्यः एव गणेभ्यः धातवः चेतव्याः ।

एवं चेतुं योग्याः धातवः एते भवितुम् अर्हन्ति -

१. भ्वादिगणीयाः (परस्मैपदिनः धातवः) भू सत्तायाम् भवति
खादृ भक्षणे खादति
अर्च पूजायाम् अर्चति
गम्लु गतौ गच्छति
गर्ज शब्दे गर्जति
अट गतौ अटति
दृशिर प्रेक्षणे पश्यति
इष इच्छायाम् इच्छति
त्यज हानौ त्यजति
पठ व्यक्यायां वाचि - पठति
क्रीड़ विहारे क्रीडति
चर गतिभक्षणयोः - चरति
जि जये जयति
रक्ष पालने रक्षति
हसे हसने हसति
ज्वल दीप्तौ ज्वलति
स्मृ चिन्तायाम् स्मरति
धृञ् धारणे धरति
णी प्रापणे नयति
पा पाने पिबति
ष्ठा गतिनिवृत्तौ तिष्ठति
श्रु श्रवणे शृणोति
दंश दशने दशति
वद व्यक्तायां वाचि - वदति

६. तुदादिगणीयाः
मिल श्लेषणे मिलति
लिख अक्षरविन्यासे - लिखति
प्रच्छ जीप्सायाम् पृच्छति
विश प्रवेशने (प्र)विशति, (उप)विशति

१०. चुरादिगणीयाः
चुर स्तेये चोरयति
पीड अवगाहने पीडयति
तड आघाते ताडयति
चिति स्मृत्याम् चिन्तयति
पूज पूजायाम् पूजयति
क्षल शौचकर्मणि क्षालयति
गण संख्याने - गणयति

एतान् अतिरिच्य अन्यगणेभ्यः केचन एव धातवः स्वीकर्तव्याः भवन्ति । यथा -

अदादिगणतः -
अस भुवि - अस्ति
रुदिर् अश्रुविमोचने - रोदिति
(‘रोदिति’ इत्यत्र यदि क्लेशः तर्हि ‘रोदनं करोति’ इत्यपि प्रयोक्तुं शक्यम् ।)

जुहोत्यादिगणतः -
डु दाञ् दाने - ददाति

स्वादिगणतः -
आप्ल व्याप्तौ - आप्नोति

तनादिगणतः -
डु कृञ् करणे करोति

त्यादिगणतः -
डु क्रीज् द्रव्यविनिमये - क्रीणाति
ग्रह उपादाने - गृह्णाति
ज्ञा अवबोधने - जानाति

व्यवहारे अत्यन्तम् उपयोगिनाम् अन्येषां बहूनां धातूनाम् अर्थं तेषां धातूनां लकाररूपाणां प्रयोगम् अकृत्वा अपि तत्तद्धातोः ल्युट्-प्रत्ययान्तरूपेण सह ‘करोति’ इत्यस्य उपयोगेन निरूपयितुं शक्नुमः । यथा -

  • वदि अभिवादनस्तुत्योः - वन्दते - वन्दनं करोति ।
  • यती प्रयत्ने - यतते यत्नं करोति।
  • मन्थ विलोने - मन्थति /मथ्नाति - मन्थनं करोति।
  • श्लाघु कथने श्लाघते श्लाघनं करोति।
  • जल्प व्यक्तायां वाचि - जल्पति - जल्पनं करोति ।
  • क्रमु पादविक्षेपे - क्राम्यति क्रमणं करोति।
  • मील निमेषणे मीलति - मीलनं करोति।
  • भाष व्यक्तायां वाचि भाषते भाषणं करोति।
  • चर्व अदने - चर्वते - चर्वणं करोति।
  • टु याच याच्ञायाम् - याचति याचनं करोति।
  • ध्यै चिन्तायाम् ध्यायति ध्यानं करोति।
  • तृ प्लवनतरणयोः तरति तरणं करोति।
  • द्वेञ् स्पर्धायां शब्दे च - (आ)ह्वयति - आह्वानं करोति।
  • दुह प्रपूरणे दोग्धि दोहनं करोति।
  • शीङ् स्वप्ने शेते शयनं करोति।
  • षिवु तन्तुसन्ताने सीव्यति सीवनं करोति।
  • नृती गात्रविक्षेपे नृत्यति - नर्तनं करोति।
  • लिप उपदेहे लिम्पति - लेपनं करोति।
  • षिच क्षरणे सिञ्चति सेचनं करोति।
  • भिदिर् विदारणे भिनत्ति भेदनं करोति।
  • छिदिर द्वैधीकरणे - छिनत्ति - छेदनं करोति ।
  • बन्ध बन्धने बध्नाति बन्धनं करोति।
  • पुष पुष्टौ पुष्णाति - पोषणं करोति।
  • अर्थ उपयाच्ञायाम् - (प्र)अर्थयते - प्रार्थनं करोति ।

एवमेव व्यवहारे अत्यन्तम् उपयोगिनाम् पुनः केषाञ्चित् धातूनाम् अर्थम् अपि तेषां लकाररूपाणाम् उपयोगम् अकृत्वा तत्तद्धातोः क्तप्रत्ययान्तेन रूपेण सह ‘भवति’ इत्यस्य उपयोगेन निरूपयितुं शक्नुमः । यथा -

  • फल निष्पत्तौ - फलति फलितः भवति।
  • जि भी भये बिभेति भीतः भवति।
  • पुष्प विकसने पुष्प्यति पुष्पितः भवति।
  • खिद दैन्ये खिद्यते खिन्नः भवति।
  • शुष शोषणे शुष्यति शुष्कः भवति।
  • तुष प्रीतौ तुष्यति तुष्टः भवति।
  • क्रुध क्रोधे क्रुध्यति क्रुद्धः भवति ।
  • शुध शौचे - शुध्यति - शुद्धः भवति ।
  • षिधु संराद्धौ सिध्यति सिद्धः भवति।
  • णश अदर्शने - नश्यति नष्टः भवति।
  • शमु उपशमे - शाम्यति शान्तः भवति।
  • श्रम तपसि खेदे च - श्राम्यति श्रान्तः भवति।

एवं च परिमितसंख्याकानाम् एव धातूनां चतुर्णां लकाराणां रूपैः, पुनः केषाञ्चित् चितानां धातूनां ल्युट्प्रत्ययान्तरूपैः क्तप्रत्ययान्तरूपैः करोति-भवत्योः अनुप्रयोगेण च वयं सर्वम् अपि व्यवहारं सम्पादयितुं शक्नुमः ।

सरलसंस्कृतविषये अवधातव्याः अन्ये केचन अंशाः एवं सन्ति -