०४७ सम्प्रति (सम्+प्रति)

  • {सम्प्रती}
  • इ (इण् गतौ)।
  • ‘कि तत्कथं वेत्युपलब्धसंज्ञा विकल्पयन्तोपि न सम्प्रतीयुः’ (भट्टि० ११।१०)। सम्प्रतीयुः=निश्चिनुयुः=व्यवस्येयुः।
  • ‘सम्प्रत्ययप्रामाण्याच्च’ (पा० १।२।५९ सूत्रे कैयटः)। सम्प्रत्ययो व्यवहारः।

पद्

  • {सम्प्रतिपद्}
  • पद् (पद गतौ)।
  • ‘नष्टं धनं स्वामी क्षिप्रं सम्प्रतिपद्यते’ (रा० ३।७३।१६)। सम्प्रतिपद्यते=प्रतिलभते।
  • ‘सर्वे त्वयि सम्प्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति’ (भा० उ० ७३।३२)। सम्प्रतिपत्स्यन्ते=ऐकमत्येन ज्ञास्यन्ति।
  • ‘यो वै व्रतं यथोद्दिष्टं तथा सम्प्रतिपद्यते। अखण्डं सम्यगारभ्य तस्य लोकाः सनातनाः’ (भा० १३।३६२९)॥ समापयतीत्यर्थः।
  • ‘भगवन् साधु मेऽद्यान्यत्स्थानं सम्प्रतिपादय’ (भा० वन० १८७।१४)। प्रापयेत्यर्थः।
  • ‘न मां परं सम्प्रतिपत्तुमर्हसि’ (कु० ५।३९)। सम्प्रतिपत्तुम्=ज्ञातुम्, मन्तुम्।
  • ‘तस्मै सम्प्रतिपन्नाय यथावत्परिपृच्छते। शिष्याय…’ (भा० आश्व० ३५।१३) सम्प्रतिपन्नाय=विधिवदुपेताय।
  • ‘द्व्यामुष्यायणस्तु जनकप्रतिग्रहीतृभ्यामावयोरयमिति सम्प्रतिपन्नः’ (मनु० ८।५० इत्यत्र कुल्लूकः)। सम्प्रतिपन्नः=अभ्युपगतः।
  • ‘समवायेन वणिजां लाभार्थं कर्म कुर्वताम्’ (याज्ञ० २।२५९)। सर्वे वयमिदं कर्म मिलिताः कुर्म इत्येवंरूपा सम्प्रतिपत्तिः समवायः (मिताक्षरा)। सम्प्रतिपत्तिः संवित्।
  • ‘यदस्यामपत्यं जायेत तन्मम श्राद्धाद्यौर्ध्वदेहिकं कुर्यादिति कन्यादानकाले जामात्रा सह सम्प्रतिपत्तिरूपेण विधानेन दुहितरं पुत्रिकां कुर्यात् इति’ (मनु० ९।१२७) इत्यत्र कुल्लूकः।
  • ‘शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति’ (भा० उ० ३९।३०)। शेषस्य तत्कालोचितस्यार्थस्य विचारः सम्प्रतिपत्तिः।
  • ‘सम्प्रतिपत्तिनित्यतया नित्यः शब्दार्थसम्बन्ध इत्यागमिनः प्रतिजानते।’ (योग० १।२७)। सम्प्रतिपत्तिर्बोधः।

मुच्

  • {सम्प्रतिमुच्}
  • मुच् (मुच्लृ मोक्षणे)।
  • ‘वरुणपाशैः सम्प्रतिमुक्तः’ (भा० पु० ५।२४।२३)। सम्प्रतिमुक्तः=बद्धः। समा नार्थः। अन्यत्र केवलः प्रतिः श्रूयते न समा सहचरितः।
  • ‘यथा श्रीरामायणे प्रयोगः-नाराचमालां रामस्य ललाटे …प्रत्यमुञ्चत’ (६।९९।३४)। अबध्नादित्यर्थः।

श्रु

  • {सम्प्रतिश्रु}
  • श्रु (श्रु श्रवणे)।
  • ‘ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी’ (रा० २।१०७।५)। सम्प्रतिश्राव्य=प्रतिज्ञां कारयित्वा।