२०६ परिनि (परि+नि)

अस्

  • {परिन्यस्}
  • अस् (असु क्षेपे)।
  • ‘शयनीय-परिन्यस्त-गात्रः सन्तापवानभूत्’ (कथा० ६।१२१)। शय्यायां दीर्घीकृताङ्गः प्रसारितगात्रः।

धा

  • {परिणिधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘स एतामुत्तमां समुद्रवतीमपश्यत्। तयैनाः अच्छा समुद्रमिन्दव इत्येव समुद्रेण समन्तं परिण्यदधात्’ (जै० व्रा० १।१०४)। परिण्यदधात् परितो न्यधात् न्यास्थत्।
  • ‘परिनिधाय’ (का० श्रौ० १८।६।१३)। परिणिधायेति तूचितम्। विस्पष्टोऽर्थः।

वृत्

  • {परिनिवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘क्लेशाः परिनिवर्तन्ते केषाञ्चिदसमीक्षिताः’ ( ) परिनिवर्तन्ते ऽखिलेन निवर्तन्ते विनश्यन्ति।

स्था

  • {परिनिस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘एतावति हि शास्त्रकृत्यं परिनितिष्ठति’ (पदमञ्ज० पृ० ४)। परिनितिष्ठति परिसमाप्यते पर्यवस्यति।
  • ‘त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः’ (भा० वन०)। परिनिष्ठितः परिसमाप्तः।
  • ‘अपरिनिष्ठितस्योपदेशस्यान्याय्यं प्रदर्शनम्’ (माल० १)।
  • ‘इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी’ (भा० आदि० ६२।१७)। परिनिष्ठा मोक्षः, तदुचिता।