१४२ अतिवि (अति+वि)

आप्

  • {अतिव्याप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘अलक्ष्ये लक्षणगमनमतिव्याप्तिः।’

धा

  • {अतिविधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘य एकशतविधानमतिविधत्ते’ (श० ब्रा० १०।२।३।१८)। अतिविधत्तेऽतिरिच्यानुतिष्ठतीत्याह।
  • ‘पुत्रदारमतिविधाय प्रव्रजतः पूर्वः साहसदण्डः’ (कौ० अ० २।१।२९)। अतिविधाय असंविधाय, भोजनाच्छादनाद्यप्रकल्प्येत्यर्थः। अप्रतिविधायेत्येवं मूलं शोध्यम्।

स्था

  • {अतिविष्ठा}
  • स्धा (ष्ठा गतिनिवृत्तौ)।
  • ‘प्रधावितान्वा वित्रस्तान्विस्रब्धानतिविष्ठितान्’ (रा० ४।१८।३८)। भृगानिति पूर्वेणान्वयः, विध्यन्तीत्युत्तरेण। अतिविष्ठितान् विरोधेन स्थितान्।