०११ अपाङ् (अप+आङ्)

कृ

  • {अपाकृ}
  • कृ (डुकृञ्-करणे)।
  • ‘अप द्वेषांस्या कृधि’ (अथर्व॰१.२.२)। अपाकृधि=अपाकुरु, अपगमय।
  • ‘वायवः स्थोपायवः स्थेति षडवरार्घ्यान् वत्सानपाकरोति’ (आप॰श्रौ॰१.१.२.१)। अपाकरणं मातृभ्यः पृथक्करणम् इति धूर्तस्वामी।
  • ‘स वै पर्णशाखया वत्सानपाकरोति’ (तै॰सं॰२.५.५.५)। अपाकरोति=उत्सारयति।
  • ‘मानोन्नतिं दिशति पापमपाकरोति’ (भर्तृ॰१)। अपाकरोति=अपनयति=दुरं गमयति।
  • ‘तन्नैश तिमिरमपाकरोति चन्द्रः’ (शा॰६.२०)। तिमिरमपाकरोति=तमो हन्ति।
  • ‘शिवा भुजच्छेदमपाचकार’ (रघु॰७.५०)। अपाचकार=अपसारयामास।
  • ‘मायामोहेन ते दैत्या वेदमार्गादपाकृताः’ (वि॰पु॰३.१८.८)। वेदमार्गादपाकृताः=श्रौतात्पथो दूरीकृताः।
  • ‘हंसैर्यियासुभिरपाकृतमुन्मनस्कैः’ (मृच्छ॰५.१)। अपाकृतम्=त्यक्तम्।
  • ‘स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम्’ (कि॰२.२७)। अपाकृता=त्यक्ता।
  • ‘अपि तत् पूरयाञ्चक्रे धनुर्धरवरो युधि। यत्तद्विनिहते भीष्मे कौरवाणामपाकृतम्’ (भा॰द्रोण॰१.५१)। अपाकृतम्=हीनम्=न्यूनम्।
  • ‘यत्स्वयमभियोगदुःखैरसाधारणैरपाकृतं तदेव राज्यं सुखयति’ (मुद्रा॰१)। अपाकृतम्=शून्यम्=विनाकृतम्।
  • ‘अपाकृतकटीपटः’ (राजत॰५.४१९)। अवरोपितकटीवस्त्र इत्याह।
  • ‘ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्’ (मनु॰६.३५)। अपाकृत्य=विगणय्य, निर्यात्य, संशोध्य।
  • ‘नाचार्यस्यानपाकृत्य प्रवासं प्राज्ञः कुर्वीत…’ (भा॰उ॰४४.१५)। विद्याया निष्क्रयार्थमृणमर्थदानेनापरिहृत्येत्याह।
  • ‘स (पुत्रः) कथं शक्यतेऽस्माभिरपाकर्तुं बलादितः’ (भा॰आदि॰१४२.९)। उक्तोऽर्थः।
  • ‘संसृज्य वत्सान् पुनरपाकरणम्’ (का॰श्रौ॰४.२.३५)। अपाकरणं पृथक्करणम्।
  • ‘पुरा वत्सानामपाकर्तारास्ते’ (पा॰३.४.१६ सूत्रवृत्तौ)।
  • ‘वर्णः स्वर्णमपाकरिष्णुः’ (भर्तृ॰१.५)। अपाकरणं हरणमाक्षेपो भवति। वर्णः स्वर्णवर्णं न्यक्करोतीति यावत्।
  • ‘तेन देशकालजातिसङ्घानां समयस्यानपाकर्म व्याख्यातम्’ (कौ० अ० ३।१०।४५)। समयस्य संविदोऽनपाकर्म अपालनम्।

कृष्

  • {अपाकृष्}
  • कृष् (कृष-विलेखने)।
  • ‘विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमम्’ (रा॰३.६.२३)। विप्रकारः खलीकरणं कदर्थीकरणं वा। अपाक्रष्टुमपनेतुम्।
  • ‘तमशक्यमपाक्रष्टुं निर्देशात् स्वर्गिणः पितुः’ (रा॰)।
  • ‘न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्। नरः शक्नोत्यपाक्रष्टुम्’ (रा॰२.१७.९)। अपाक्रष्टुम्=संहर्तुम्।
  • ‘महान्तमप्यर्थमधर्मयुक्तं सन्त्यजत्यनपाकृष्ट एव’ (भा॰उ॰४०.२)। अनपाकृष्टः=परैरपकर्षमप्रापितः।

कॄ

  • {अपाकॄ}
  • कॄ (कॄ-विक्षेपे)।
  • ‘कुन्त्या त्वमपाकीर्णो यथा न कुशलं तथा’ (भा॰उ॰१५१.४)। अपाकीर्णः=परास्तः, परित्यक्तः।
  • ‘गता ह्यस्मानपाकीर्य सर्वे द्वैतवनात्’ (भा॰वि॰४.५)। अपाकीर्य=अनादृत्य=अतिहाय। अपाहायेति पाठान्तरम्।
  • ‘अपाकीर्य स्वयं धर्मं शिष्येण निहतो गुरुः’ (भा॰द्रोण॰१९६.४३)। अपाकीर्य=अवहेल्य=अवहेलया समुत्सृज्य।
  • ‘षट्पदैर्नाप्यपाकीर्णस्तस्मिन् वै काननेऽभवत्’ (पादपः) (भा॰आदि॰७०.७)।
  • ‘तदप्यपाकीर्णम्’ (कु॰५.२८)। तुच्छीकृत्य परित्यक्तमित्यर्थः।

क्रम्

  • {अपाक्रम्}
  • क्रम् (क्रमु-पादविक्षेपे)।
  • ‘शरपातमपाक्रम्य तस्थतुः प्रेक्षिके (सेने) तदा’ (भा॰कर्ण॰२४.२८)। शरपातादपेत्येत्याह।

छिद्

  • {अपाच्छिद्}
  • छिद् (छिदिर् द्वैधीकरणे)।
  • ‘दैत्यहस्तादपाच्छिद्य सुहृदा सम्प्रति त्वया’ (विक्रम० १।३५)। अपाच्छिद्य आच्छिद्य विमोच्य।

दह्

  • {अपादह्}
  • दह् (दह भस्मीकरणे)।
  • ‘अपि वाऽरण्ये कक्षमपादहेत्’ (शां० गृ० ३।१४।५)। अपादहेत् अपादाय दहेत्।

दा

  • {अपादा}
  • दा (डुदाञ्-दाने)।
  • ‘अथापादत्ते’ (श॰ब्रा॰७.८.२.६)। (ततो भस्मनः) किञ्चिद् उपादत्ते। अपशब्दः पृथक्करणमाह।
  • ‘अथ दर्भाणामपादत्ते’ (कौ॰सू॰)। दर्भेभ्यः कियतश्चिदपोद्धरति।
  • ‘तत्पाप्मानमपादत्ते’ (श॰ब्रा॰५.३.१.१.३)। पापं वियुङ्क्ते वियौतीत्याह।
  • ‘विष्णोः स्तूपोऽसीति कर्षन्निवाहवनीयं प्रति प्रस्तरमपादत्ते’ (आप॰श्रौ॰२.३.८.५)। अपादत्ते उद्वहति=प्रणयति।
  • ‘अपात्ताः प्रथमे पिण्डा भवन्त्यप्रतिहताः पाणयः’ (आप॰श्रौ॰५.१.५.१०)। अपात्ताः=गृहीताः।
  • ‘स यत्र प्रस्वपिति अस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं निहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति’ (बृ॰उ॰४.३.९)। अपादाय=अपच्छिद्या गृहीत्वा (शङ्करः)।
  • ‘मृत्पिण्डमपादाय महावीरं करोति’ (श॰ब्रा॰१४.१.२.१७)। उक्तोऽर्थः।
  • ‘ये राष्ट्रस्य प्रदातारः। ये ऽपादातारः’ (तै० ब्रा० १।७।६)। अपादातारो हर्तारः।

धा

  • {अपाधा}
  • धा (डुधाञ्-धारणपोषणयोः)।
  • ‘नेत् प्राणेभ्य आत्मानमपादधानि’ (शां॰ब्रा॰१७.७)। अपवृक्तं वियुक्तं करोमीत्यर्थः।

नुद्

  • {अपानुद्}
  • नुद् (णुद-प्रेरणे)।
  • ‘अभिद्रवार्जुन क्षिप्रं, कुरून्द्रोणादपानुद’ (भा॰द्रोण॰१८९.६४)। अपानुद=दूरे प्रेरय। वियोजयेत्याह। छन्दोवशादेवायमपाङोः सम्प्रयोग इत्यन्तर्वाणयः। अन्यथाऽपमेव केवलं प्रयुञ्जीत।
  • ‘पुरन्दरस्य कर्ण त्वं बुद्धिमेतामपानुद’ (भा॰वन॰३०१.१५)। अपाकुर्वित्याह।
  • ‘गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत्’ (मनु॰११.१०२)। गुरुस्त्रीगमननिमित्तं पापमेतैर्व्रतैर्निहरेदित्याह।

यम्

  • {अपायम्}
  • यम् (यम उपरमे)।
  • ‘लक्षणेन दक्षिणाऽपायम्य’ (सत्या० श्रौ० २५।१।६)। अपायम्य प्रसार्य।

लम्ब्

  • {अपालम्ब्}
  • लम्ब् (लबि-अवस्रंसने)।
  • ‘अथ पश्चात् परिक्रम्य अपालम्बमभिपद्याह’ (श॰ब्रा॰३.३.४.१३)। शकटस्य पश्चाल्लम्बमानं काष्ठमपालम्बः। अपशब्दः पश्चाद्भावमाह।

वृ

  • {अपावृ}
  • वृ (वृञ्-वरणे)।
  • ‘राधो विश्वा शवसे अपावृतम्’ (ऋ॰१.५७.१)। अपावृतम्=विवृतम्। वेदे वृधातुप्रयोगेऽपशब्द एवान्त्यायाममापद्यते छन्दोवशादिति वेदवाक्कोविदाः।
  • ‘आस्यादपावृतात्’ (भा॰आदि॰२९.२)।
  • ‘अहो अपावृतं द्वारमापदां मम वेधसा (कथा॰२१.११८)। उक्तोऽर्थः।
  • ‘स्वतन्त्रोऽपावृतः स्वैरी (अमरः)।
  • स ऊर्ध्वस्य रेजयत्यपावृतिमिन्द्रो गव्यस्य वृत्रहा’ (ऋ॰८.६६.३)। अपावृतिः=गुप्तिस्थानम्।
  • ‘काश्मीरदेशाय जगाम हृष्टः श्रीशङ्करो द्वारमपावरीतुम्’ (श॰दिग्॰१६.५.५८)।
  • ‘अपावृत्याक्षिपद्वक्त्रे शक्रं कोपसमन्वितः (भा॰उ॰९.५२)। (मुखं) सम्प्रसार्येत्याह।
  • ‘हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्। तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये’ (ईश॰उ॰१५)। उक्तोऽर्थः।
  • ‘मञ्जूषां तामपावृत्य’ (रा॰१.६७.१३)। अपावृत्य=उद्घाट्य।
  • ‘अप कृष्णां निर्णिजं देव्यावः’ (ऋ० १।११३।१४)। अपावः=अपावृणोत्। देव्युषाः। निर्णिगिति रूपनाम।

वृत्

  • {अपावृत्}
  • वृत् (वृतु-वर्तने)।
  • ‘अप चक्रा अवृत्सत’ (शां॰श्रौ॰५.१३.३)। अपावृत्सत=अपावर्तिषत=पराचीनानि पृथगभूवन्।
  • ‘अपावृत्त्य गार्हपत्यात् क्रव्यादाः प्रेत’ (अथर्व॰१२.२.३४)। अपावृत्त्य=प्रतिनिवृत्त्य।
  • ‘प्रतिग्रहादपावृत्तः सन्तुष्टो येन केनचित्’ (भा॰वन॰८२.१०)। अपावृत्तः=निवृत्तः, उपरतः।
  • ‘तां तु मे सुकृतां बुद्धिं …। कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम्’ (रा॰२.१२.६४)॥ अपावृत्ताम्=पराभूतां सतीं निवृत्ताम्।

श्रि

  • {अपाश्रि}
  • श्रि (श्रिञ्-सेवायाम्)।
  • ‘परस्परं केचिदापाश्रयन्ते’ (रा॰)। अपाश्रयन्ते=संश्रयन्ते। अत्रापशब्दोऽस्थाने भाति नः। अन्येऽप्येवं पश्यन्ति। परमेष व्यवहारः प्रतिष्ठितो भवति। न च सर्वो व्यवहार उपपत्तिमान् भवति, अनुपपन्नोऽपि कश्चिदस्तीति वस्तुस्थितिः।
  • ‘अनपाश्रितोऽन्यत्र’ (आप॰ध॰१.६.१७)। कुड्याद्याश्रितो नासीतेत्यर्थः।
  • ‘अपाश्रितार्भकाश्वत्थम्’ (भा॰पु॰३.४.८)। पृष्ठत आश्रितो बालोऽश्वत्थो येन तम्।
  • ‘महात्मा सर्वतो दान्तः सर्वत्रैवानपाश्रितः’ (भा॰शां॰२७८.१९)। अनपाश्रितः सङ्गमकुर्वाणः।
  • ‘नीचापाश्रयविनिहितैकोपबर्हायां पर्यङ्किकायां निपत्य जोषमास्थात्’ (हर्ष॰६)। अपाश्रयो नाम पर्यङ्कस्योर्ध्वदेशो यं शीर्षं श्रयते।
  • ‘कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्। मत्तालम्बोऽपाश्रयः स्यात् प्रग्रीवो मत्तवारणः॥’ (इत्यमरोद्घाटने क्षीरोद्धृतः कोषः)।
  • ‘अपाश्रयस्तु विद्वद्भिः कथ्यते मत्तवारण’ इति हलायुधः।
  • ‘योऽपाश्रयः पाण्डवानाम्’ (भा॰उ॰९०.३४)। अपाश्रयः शरणम्।
  • ‘कर्णे कृतापाश्रयः’ (वेणी॰५.१)। अपाश्रयः=आश्रयः।
  • ‘दुर्योधनापाश्रयजातदर्पः’ (भा॰वि॰५४.५, कर्ण॰८५.३४)।
  • ‘तद्भक्तास्तद्गृहा राजंस्तद्बलास्तदपाश्रयाः’ (भा॰अनु॰२३.५१)। अपाश्रयः परलोकगमनसाधनम् इति नीलकण्ठः।
  • ‘अपाश्रयो वितानमुल्लोच’ इति कोषः।
  • ‘आहारमनपाश्रित्य शरीरस्येव धारणम्’ (भा॰आदि॰२.३७)। अनपाश्रित्य=अनाश्रित्य।
  • ‘वत्सराजस्य भुजच्छायामपाश्रिता’ (कथा० ३४।३९)। अपाश्रिता आश्रिता संश्रिता।
  • ‘त्वं हि नस्तात सर्वेषां दुःखितानामपाश्रयः’ (भा० वन० ३१२।२१)। अपाश्रय आश्रयः शरणम्।

स्था

  • {अपास्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘स ह नेत्युक्त्वा धनुरादायारण्यमपातस्थौ’ (ऐ० ब्रा० ७।१४)। अरण्यं प्रति प्रतस्थ इत्याह।
  • ‘अपाष्ठाच्छृङ्गात्कुल्मलान्निरवोचमह विषम्’ (अथर्व० ४।??।५)। अपाष्ठः शल्याग्रं भवति।
  • ‘तृष्टमेतत् कटुकमेतदपाष्ठवद् विषवन्नैतदत्तवे’ (ऋ० १०।८५।३४)। उक्तोऽर्थः।