०४६ सम्प्र (सम्+प्र)

आप्

  • {सम्प्राप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘सम्प्राप्ताय त्वतिथये प्रदद्यादासनोदके’ (मनु० ३।९९)। सम्प्राप्ताय=अभ्यागताय।

  • {सम्प्रे}
  • इ (इण् गतौ)।
  • ‘यददः सम्प्रयतीरहावनदता हते’ (अथर्व० ३।१३।१)। सम्प्रयतीः=संभूय इतस्ततः प्रयान्त्यः।

इष्

  • {सम्प्रेष्}
  • इष् (इष गतौ)।
  • ‘अथापि जानन्तं सम्प्रेष्यत्यग्नये समिध्यमानायानुब्रूहि’ (नि० १।१५।८)। सम्प्रेष्यति=प्रेष्यति=आदिशति=आज्ञापयति।
  • ‘यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान्। सम्प्रैषीद्धेमसंछन्नान्…’ (भा० द्रोण० २८।१)। सम्प्रैषीत्=प्राजीत्=समयंसीत्।
  • ‘अथातः सम्प्रेष्यति’ (श० ब्रा० ९।२।३।१)। सम्प्रेष्यति=आदिशति=आज्ञापयति।
  • ‘न खल्वेषा मतिर्मह्यं यत्त्वां सम्प्रेषयाम्यहम्’ (रा० ५।४३।१२)। सम्प्रेषयामि। नियोजयामि।
  • ‘तामद्य सम्प्रेष्य परिग्रहीतुः’ (शा० ४।२२)। विसृज्येत्यर्थः।
  • ‘अथ सम्प्रेषितास्थानः सचिवानब्रवीन्नृपः’ (बृ० श्लो० सं० ५।१)। सम्प्रेषितास्थानः=विसृष्टसदाः।

ईक्ष्

  • {सम्प्रेक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘संगतार्थं समर्थं संसृष्टार्थं समर्थं सम्प्रेक्षितार्थं समर्थं सम्बद्धार्थं समर्थम्’ (पा० २।१।१ सूत्रे भाष्ये)। सम्प्रेक्षितार्थं सम्बद्धार्थमिति पर्यायनिर्देशः।

ईर्

  • {सम्प्रेर्}
  • ईर् (ईर गतौ, ईर क्षेपे)।
  • ‘यानेवैषां तस्मिन्संग्रामेऽघ्नंस्तान् पितृयज्ञेन समैरयन्त’ (श० ब्रा० २।६।१।१)। समैरयन्त समजीवयन्।
  • ‘समिन्द्रेरय गामनड्वाहं य आवहदनः’ (ऋ० १०।५९।१०)। समीरय=आसुव=प्रयच्छ।
  • ‘कूपोपकण्ठे विश्रान्तो ब्राह्मणस्तया सम्प्रेर्य कूपान्तः पातितः’ (पञ्चत०)। सम्प्रेर्य=प्रणुद्य।

उक्ष्

  • {सम्प्रोक्ष्}
  • उक्ष् (उक्ष सेचने)।
  • ‘त्रिरेवाग्नीन् सम्प्रोक्षति’ (गो० ब्रा० पूर्व० १।१४)। अभिषिञ्चतीत्यर्थः।

कृष्

  • {सम्प्रकृष्}
  • कृष् (कृष विलेखने)।
  • ‘सम्प्रकर्षन् विकर्षंश्च सेनाग्रं समलोडयत्’ (भा० द्रोण० १२७।३१) सम्यक् प्रकर्षेण विलिखन् इति सम्प्रकर्षन्नित्यनेनाह।

क्रम्

  • {सम्प्रक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘शरीरप्रतिसंहारमात्मनः सम्प्रचक्रमे’ (भा० आदि० २४।१)। प्रारेभ इत्याह।
  • ‘व्यूहितुं सम्प्रचक्रमे’ (भा० वि० ५२।२१)। उक्तोऽर्थः।

क्षुभ्

  • {सम्प्रक्षुभ्}
  • क्षुभ् (क्षुभ संचलने)।
  • ‘तस्मिन्निपतिते भूमौ तत्सैन्यं सम्प्रचुक्षुभे’ (रा० ६।७८।२४)। =विव्यथे, विजह्वाल।

क्षै

  • {सम्प्रक्षै}
  • क्षै (क्षै क्षये)।
  • ‘अवक्षाणानि सम्प्रक्षाप्य’ (भा० श्रौ०)। धूमायमानानङ्गारान् निर्वाप्य।
  • ‘संमूढमिव त्रैलोक्यं संप्रक्षुभितमानसम्’ (रा १।६५।१४)। सम्प्रक्षुभितं=विह्वलम्।

गाह्

  • {सम्प्रगाह्}
  • गाह् (गाहू विलोडने)।
  • ‘यथार्णवं महाघोरमप्लवः सम्प्रगाहते’ (भा० आश्व० ५०।२६)। प्रविशतीत्यर्थः।

गॄ

  • {सम्प्रगॄ}
  • गॄ (गॄ शब्दे)।
  • ‘यदेवैनाः सम्प्रगीर्य होत्रा इत्याचक्षते तेन समाः’ (ऐ० ब्रा० ६।१३)। सम्प्रगीर्य=संज्ञां कृत्वा, व्यपदिश्य।

गै

  • {सम्प्रगै}
  • गै (गै शब्दे)।
  • ‘या गाथाः सम्प्रगायन्ति’ (भा० कर्ण० ४०।२१)। सम्प्रगायन्ति=गायन्तः कथयन्ति।
  • ‘इकारान्तं चैवोपायं सम्प्रगायन्ति कुत्साः’ (लाट्या० श्रौ० ७।१८।१९)। उक्तोऽर्थः।

ग्रह्

  • {सम्प्रग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘अथ जुहूं चोपभृतं च सम्प्रगृह्णाति’ (श० ब्रा० १।८।३।२३)। **सम्प्रगृह्णाति=गृह्णाति। नार्थः सम्प्राभ्याम्। **
  • ‘स ह वा अग्नये सम्प्रगृह्णाति’ (श० ब्रा० १।९।२।२)। समं धत्ते।
  • ‘अभीषून्सम्प्रजग्राह स्वयं कुरुपतिस्तदा’ (भा० सभा० २।१७)। जग्राहेत्येवार्थः।
  • ‘उपानहं सम्प्रगृह्य’ (श्वा) (व० बृ० सं० ८८।३)।
  • ‘राज्ञो वचनम्… सम्प्रगृह्य (भा० १२६।४)। सादरं स्वीकृत्य।

चक्ष्

  • {सम्प्रचक्ष्}
  • चक्ष् (चक्षिङ् व्यक्तायां वाचि)।
  • ‘दग्धस्योपशमार्थाय चिकित्सा सम्प्रचक्ष्यते’ (सुश्रुत० १।३७।१३)। व्याख्यायत इत्याह।

ज्ञा

  • {सम्प्रज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • नेह विद्वान् इत्यनेन सम्प्रज्ञातवान् विवक्षितः किन्तर्हि श्रुतानुमितविवेकः (यो० भा०)।

दा

  • {सम्प्रदा}
  • दा (डुदाञ् दाने, दाण् दाने)।
  • ‘लुब्धं हन्यात्संप्रदानेन नित्यम्’ (भा० शां० १२०।४७)। सम्प्रदानेन=उपग्राह्यैः, उपदाभिः।
  • ‘अहन्यहनि चाप्येवं याचतां सम्प्रदीयते’ (भा० वन० ९५।२१)। सम्प्रदीयते=वितीर्यते, प्रदिश्यते।
  • ‘तस्मै वसवः प्रातः सवनं सम्प्रयच्छन्ति’ (छा० उ० २।२४।६)। सम्प्रयच्छन्ति प्रददति।
  • ‘कुमारं मातापितरौ त्रिः सम्प्रयच्छेते’ (को० सू० ५४)। सम्प्रयच्छेते=अन्योन्यस्मै प्रदत्तः। दाणः प्रयोगे प्रशब्दः सम्प्रो वा प्रायेण समं व्यवह्रियेते।
  • ‘हिरण्यं सम्प्रदायं षोडशिना स्तुवते’ (ताण्ड्य० १२।१३)। सम्प्रदायम्=प्रदाय। सम्प्रदायमिति णमुलन्तम्।
  • ‘सम्प्रदायैव तेषां’ (कर्म०) (भा० उ० २७।२५)। प्रणम्य भगवत्पादान् श्रीधरादींश्च सद्गुरून्। सम्प्रदायानुसारेण गीताभाष्यं समारभे॥ सम्प्रदायः=गुरुशिष्यानुक्रमेण प्राप्तः शास्त्रोपदेशः। असम्प्रदत्ता (कन्या)=पित्रा विवाहेऽदत्ता, अनूढेति यावत्।
  • ‘दीयतां सम्प्रदानम्’ (रा० ४।११।३४)। प्रीतिदानम् इत्याह।
  • ‘आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते’ (भा० शां० २४६।८)। सम्प्रदानेन=विषयेभ्यः समर्पणेन।
  • ‘स तदानीं महाबुद्धिर्महमूदं मदोद्धतम्। तद्दुर्गद्वितयीदानसम्प्रदानममन्यत’ (शि० भा० १५।४६)॥ सम्प्रदानं सम्प्रदीयतेऽस्मा इति प्रतिग्रहोतोच्यते।
  • ‘मरुद्भ्यः सम्प्रदित्सांचकार’ (नि० १।५।१३)। दातुमियेष।
  • ‘अथातः सम्प्रत्तिः’ (बृह० उ० १।५।१७)। सम्प्रत्तिः सम्प्रदानम्।
  • ‘ऋत्विज ऋतुयाजान्यजन्त्यसम्प्रदायम्’ (ऐ० ब्रा० ५।९)। असम्प्रदायम् अन्यस्मा अदत्त्वा। णमुलन्तमेतत्।
  • ‘दीयतां सम्प्रदानं च परिष्वज्य च वानरान्’ (रा० ४।११।३४)। सम्प्रदानं देयद्रव्यम्।

दिश्

  • {सम्प्रदिश्}
  • दिश् (दिश अतिसर्जने)।
  • ‘नवाक्षरा बृहती सम्प्रदिष्टा’ (भा० वन० १३४।१६)। कीर्तिता।

दृश्

  • {सम्प्रदृश्}
  • दृश् (दृशिर् प्रेक्षणे)।
  • ‘अचिरात्तस्य धूमाग्रं चितायां सम्प्रदृश्यते’ (रा० २।६९।१८)।
  • ‘अविज्ञानान्मया कृष्ण रोषोऽयं सम्प्रदर्शितः’ (हरि० २।१२।३६)।
  • ‘त्वमात्मानं मृतवत् सम्प्रदर्श्य’ (हितोप०)

द्रु

  • {सम्प्रद्रु}
  • द्रु (द्रु गतौ)।
  • ‘सम्प्राद्रवद्यत्र पार्था बभूवुः’ (भा० वन० ४।२१)। प्राधावदित्यर्थः।

धाव्

  • {सम्प्रधाव्}
  • धाव् (धावु गतिशुद्ध्योः)।
  • सैन्यानां त्वरतां सम्प्रधावताम्’ (भा० ५।५१४८)। विप्रकृष्टं धावतामित्यर्थः।

धृ

  • {सम्प्रधृ}
  • धृ (धृञ् धारणे)।
  • ‘एभिरेव दत्ताधिकारैः सार्धं सम्प्रधारयतु भवान्’ (तन्त्रा० ३।उपक्रमे)। मन्त्रयताम्, विमृशतु, चिन्तयतु इत्याह।
  • ‘सम्प्रधारणा तु समर्थनम्’ (अमरः)। समर्थनं चिन्तनम्। युक्तायुक्तपरीक्षा। इदमिह सम्प्रधार्यमित्यनेकत्र व्याकरणमहाभाष्ये।
  • ‘दोषाणां गुणानां च सम्प्रधार्य बलाबलम्’ (रा० ३।३५।२)। अनार्यमार्यकर्माणमार्यं चानार्यकर्मिणम्।
  • ‘सम्प्रधार्याब्रवीद् धाता न समौ नासमाविति’ (मनु० १०।७३)॥
  • ‘द्रौपदीमार्ष्टिषेणाय सम्प्रधार्य महारथाः’ (शैलमारुरुहुः) (भा० वन० १६१।३)। सम्प्रधार्य समर्प्य।

नश्

  • {सम्प्रणश्}
  • नश् (णश अदर्शने)।
  • ‘घोरत्वं सम्प्रणश्यति’ (भा० वन० २०७।८०)। सम्प्रणश्यति=विनश्यति=नश्यति।

नी

  • {सम्प्रणी}
  • नी (णीञ् प्रापणे)।
  • ‘यशो रक्षस्व विदुर सम्प्रणीतम्’ (भा० सभा० ६४।६)। सम्प्रणीतम्=चितम्=सञ्चितम्।
  • ‘(दण्डं) यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्तिषु’ (मनु० ७।१६)। सम्प्रणयेत्=सम्यक् प्रणयेत्=प्रवर्तयेत्=धारयेत्।
  • ‘त्रीणि श्लोकसहस्राणि …मुनिना सम्प्रणीतानि’ (भा० आदि० २। २९०)। सम्प्रणीतानि=रचितानि।

नु-नू

  • {सम्प्रणु|सम्प्रणू}
  • नु-नू (णु णू स्तवने)।
  • ‘स दाता यत्र यत्रैति सर्वतः सम्प्रणूयते’ (भा० अनु० १२२।१३)। सम्प्रणूयते ऽभिष्टूयते।

पद्

  • {सम्प्रपद्}
  • पद् (पद गतौ)।
  • ‘स्वप्याद्भूमौ शुची रात्रौ दिवा सम्प्रपदैर्नयेत्।’ सम्प्रपदैः=अटनैः संचरणैः परिक्रमणैः।

मुष्

  • {सम्प्रमुष्}
  • मुष् (मुष स्तेये)।
  • ‘अनुभूतविषयासम्प्रमोषः स्मृतिः’ (यो० सू० १।११)। सम्प्रमोषः=मोषः=अपहारः।

या

  • {सम्प्रया}
  • या (या प्रापणे)।
  • ‘तदनीकं विराटस्य शुशुभे सम्प्रयातम्’ (भा० वि० ३१।३५)। सम्प्रस्थितमित्यर्थः।
  • ‘येनासौ सम्प्रयास्यति’ (सू० सि० ६।१६)। चलिष्यति, संक्रमिष्यति।
  • ‘नखरैः सम्प्रयातः’ (भा० शां० २४३।९)। नखैः सहायैः प्रवृत्त इत्यर्थः।

याच्

  • {सम्प्रयाच्}
  • याच् (टुयाच् याच्ञायाम्)।
  • ‘तं गत्वा सहिताः सर्वे वरं वै सम्प्रयाचत’ (भा० वन० १००।८)। याच्ञायां साहित्यं तु ‘सहिताः’ इत्यनेनैवोक्तम्, तेन नार्थः समा।

यु

  • {सम्प्रयु}
  • यु (यु मिश्रणामिश्रणयोः)।
  • ‘इति नवनीतेन पाणी प्रलिप्य सर्वान्केशान्सम्प्रयौति’ (वा० गृ० १६।७)। सम्प्रयौति=सम्पिण्डयति=संहतान् करोति।

युज्

  • {सम्प्रयुज्}
  • युज् (युजिर् योगे)।
  • ‘स्त्रियं सम्प्रयोक्ष्यामहे’ (नि० १।४।४०, उपो० (बुर्गः)।
  • ‘चेति समुच्चयार्थ उभाभ्यां सम्प्रयुज्यते’ (नि० १।४)। सम्प्रयुज्यते संयुक्तः प्रयुज्यते।
  • ‘वाङ्मात्रमेव पश्यामि माधुर्यं सम्प्रयुज्यते’ (हरि० २।६६।५०)।
  • ‘सा सम्प्रायुज्यत मन्त्रिणा’ (राज० ३।४९७)। सहाशेत, समभवदित्यर्थः।
  • ‘सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः’ (भा० द्रोण० २४।२)। सम्प्रयुक्तः=युक्तः। सम्बद्धः।
  • ‘ऐरावणमधिष्ठातुं प्रवरं सम्प्रयुक्तवान्’ (क्वचित्संनियुक्तवानिति पाठः) (हरि० २।९६।५४)। प्रेरितवानित्यर्थः।
  • ‘श्येना यथैवामिषसम्प्रयुक्ताः’ (भा० वन० २६९।२६)। उक्तोऽर्थः।
  • ‘भारते’ (आश्व० १९।२०) य आत्मनात्मानं सम्प्रयुक्तं प्रपश्यति इत्यत्र सम्प्रयुक्त इति क्वचिदर्थे सातिशयं दत्तावधान इत्यर्थमाचष्टे।
  • ‘स्वाध्यायाद् इष्टदेवतासम्प्रयोगः’ (यो० सू०)। सम्प्रयोगः=सम्पर्कः। साक्षात्कार इत्यर्थः।
  • ‘उष्णत्वमग्न्यातपसम्प्रयोगात्’ (रघु० ५।५४)। सम्प्रयोगः संयोगः।
  • ‘हरिसम्प्रयुक्तं महेन्द्रवाहम्’ (भा० वन० १६५।१)। हरिणा युक्तमित्याह। नार्थः सम्प्राभ्याम्।
  • ‘रथं सम्प्रयुक्तम्’ (रा० २।४६।३३)। सम्यगानीय दर्शितमित्यर्थः।
  • ‘मृगयासम्प्रयुक्तः’ (का० नी० सा० १८।६२)। मृगयासक्त इत्यर्थः।
  • ‘तिङभिहितो भावः कर्त्रा सम्प्रयुज्यते, कृदभिहितः पुनर्न सम्प्रयुज्यते’ (पा० ३।१।६७ सूत्रे भाष्ये)। नियमेन युज्यत इत्यर्थ इत्युद्द्योतः।
  • ‘ईश्वरः स कथं भावैरनिष्टैः सम्प्रयुज्यते’ (याज्ञ० ३।१२९)। सम्प्रयुज्यते=युज्यते।
  • ‘द्राक्षाभयां माक्षिकसम्प्रयुक्ताम्’ (सुश्रुत० १।२४६।९)। सम्प्रयुक्ताम्=संमिश्रिताम्। लब्धा मही ब्राह्मणसम्प्रयोगात्। शोभनः प्रयोगः सम्प्रयोगः।
  • ‘बलिना परेण सह सम्प्रयुज्यते’ (शिशु० १५।१९)। सम्प्रयुज्यते सम्बध्यते। बलिनाऽरिणा। तमेवानुप्रविशतीत्यर्थः।
  • ‘यथैकस्मिन्घटाकाशे रजोधूमादिभिर्युते। न सर्वे सम्प्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः’ (माण्डूक्यकारिकायां ३।५ गौडपादः)॥ सम्प्रयुज्यन्ते संसृज्यन्ते।

युध्

  • {सम्प्रयुध्}
  • युध् (युध सम्प्रहारे)।
  • ‘बाहुभ्यां सम्प्रयुध्यस्व यदि त्वं योद्धुमागतः’ (रा० ६।६५।३१)। युद्धमारभस्वेत्यर्थः।
  • ‘यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ’ (भा० द्रोण ० १३१।३)। सम्प्राहरेतामित्याह।
  • ‘सम्प्रयुद्धो धनुष्कोट्या। कौन्तेयः परवीरहा’ (भा० वन ३९।५०)। सम्प्रयुद्धः=योद्धुमारब्धः।

ली

  • {सम्प्रली}
  • ली (लीङ् श्लेषणे)।
  • ‘अव्यक्ते पुरुषे ब्रह्मन्निष्क्रिये सम्प्रलीयते’ (भा० शां० ३३९।३१)। सम्प्रलीयते अभिसंविशति, अप्येति।
  • ‘एवं धर्मान्राजधर्मेषु सर्वान् सर्वावस्थं सम्प्रलीनान्निबोध’ (भा० शां० ६३।२५)। सम्प्रलीनान्=अन्तर्गतान्=निमग्नान्

वद्

  • {सम्प्रवद्}
  • वद् (वद व्यक्तायां वाचि)।
  • ‘वरतनु सम्प्रवदन्ति कुक्कुटाः’ (पा० १।३।४८ सूत्र भाष्ये)। सम्प्रवदन्ते ब्राह्मणाः। (तत्रैव काशिकायाम्)। सहोच्चारयन्ति शब्दान् इत्यर्थः।
  • ‘संप्रवदन्ति वीणाः’ (सत्या० श्रौ० २९।१।२९)। प्रवदन्ति युगपत् प्रक्वणेयुः।

वृत्

  • {सम्प्रवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘न वृषाः सम्प्रवर्तेरन्’ (भा० शा० ६८।२३)। न रेतः सिञ्चेरन्नित्याह।
  • ‘सायन्तने सवनकर्मणि संप्रवृत्ते’ (शा० ३।२५)। संप्रवृत्ते=प्रवृत्ते=प्रक्रान्ते।
  • ‘तोरमाणेन दीनाराः स्वाहताः सम्प्रवर्तिताः’ (राज० ३।१०३)। प्रचारिताः।

वृध्

  • {सम्प्रवृध्}
  • वृध् (वृधु वृद्धौ)।
  • ‘श्रीर्मङ्गलात्प्रभवति प्रागल्भ्यात्संप्रवर्धते’ (भा० उ० ३५।५१)। वर्धत इत्याह।

सञ्ज्

  • {सम्प्रसञ्ज्}
  • सञ्ज् (षञ्ज सङ्गे)।
  • ‘द्रुतप्रत्यर्पितपदं सम्प्रसज्य पुरः स्थितम्’ (शि० भा० २१।२२)। दृढं न्यस्येत्यर्थः।

सद्

  • {सम्प्रसद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘श्रद्धा चेतसः सम्प्रसादः’ (यो० सू० १।२० भा०)।
  • ‘तपसां सम्प्रसादः।’ (उत्तर०)। फलमिति तात्पर्यार्थः।
  • ‘एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय’ (छां० उ० ८।१२।२)। सम्प्रसादो जीवात्मा।

सू

  • {सम्प्रसू}
  • सू (षूङ् प्राणिगर्भविमोचने)।
  • ‘अकालप्रसवा नार्यः…। विकृतप्रसवाश्चैव युग्मसम्प्रसवास्तथा’ (मात्स्य पु० २३५।१)॥ सम्प्रसवः सहजन्म।

सृ

  • {सम्प्रसृ}
  • सृ (सृ गतौ)।
  • ‘ता उभौ चतुरः पदः सम्प्रसारयाव’ (वा० सं० २३। २०)।
  • ‘रेफः सम्प्रसार्यमाण ऋकारो भवति’ (नि० २।२।५) इत्यत्र दुर्गः)।

स्था

  • {सम्प्रस्था}
  • स्था (ष्ठा गतिनिवृतौ)।
  • ‘स पदेऽक्षरे सम्प्रतिष्ठते’ (प्र० उ० ४।९)। सम्प्रतितिष्ठतीत्यर्थः।
  • ‘गार्हस्थ्यस्य च धर्मस्य योगधर्मस्य चोभयोः। अदूरसम्प्रस्थितयोः किंस्विच्छ्रेयः पितामह’ (भा० शां० २६८।२)॥ सम्प्रस्थितयोः प्रवृत्तयोः। अदूरसंप्रस्थितयोः=अदूरविप्रकृष्टयोः।
  • ‘नादेन तद्वनं तस्य सम्प्रस्थितमिवाभवत्’ (भा० वन० ११।११)। सम्प्रस्थितम्=चलितम्=क्षुभितम्।
  • ‘को हि विश्वासमर्थेषु शरीरे वा शरीरभृत्। कर्तुमुत्सहते लोके दृष्ट्वा सम्प्रस्थितं जगत्’ (भा० शां २२७।९२)। सम्प्रस्थितं चलम्।

हृ

  • {सम्प्रहृ}
  • हृ (हृञ् हरणे)।
  • ‘असिभ्यां सम्प्रजह्राते परस्परमरिन्दमौ’ (भा० द्रोण० १४२।३७)। मिथ आजघ्नतुः।
  • ‘सम्प्रहरन्ते राजानः’ (पा० १।३।१५३ इत्यत्र का०)। परस्परं युध्यन्त इत्याह।
  • ‘सम्प्रहारस्तु सुमहान् भविष्यति न संशयः’ (रा० ३।२४।६)। सम्प्रहारो युद्धम्।
  • ‘स सम्प्रहारस्तुमुलस्तेषां च मम भारत’ (भा० वन० १६९।२२)। युद्धमित्यर्थः।