लिट्

अनुप्रयोगपक्षे

  • आम्-योजनम्, अनुप्रयोगः
  • इजादेः गुरुमतः अनृच्छः धातोः लिटि आम् प्रत्ययः परश्च
    • ईह चेष्टायाम्। ऊह वितर्के। ईहाञ्चक्रे। ऊहाञ्चक्रे।

प्रत्ययनिर्माणम्

  • “णल्-अतुस्-अस्
    थल-थुस्-अ
    णल्-व-म”
    • आत औ णलः॥ +++(बभौ ददौ)+++
  • “एश् आते इरेच्
    से आथे ध्वे
    ए वहे महे”
    • +++(ए-इरे इति विहाय लँट्वत्।)+++

अतिदेशाः

  • आर्धधातुकत्व-अतिदेशः (लिट् च॥)
  • असंयोगात् लिट् कित् अपित्। णल् उत्तमो वा।

इडागमः

अथलि

  • अनिटः - क्रादिः।
  • वेटः पूर्वोक्ताः।
  • सेटः पूर्वोक्ताः। पूर्वोक्त-अनिट्सु अक्रादयः।

थलि

  • अनिटः - क्रादिः। पूर्वोक्त-अनिट्सु ऋ-अन्ताः।
  • वेटः पूर्वोक्ताः। पूर्वोक्त-अनिट्सु क्रादिभिन्नाः ऋ-अन्त-भिन्नाः, हलन्तेषु अत्वतः । सृज्-दृश्।
  • सेटः पूर्वोक्ताः। पूर्वोक्त-अनिट्सु हलन्तेषु अनत्वतः।

सन्धिकार्यम्

इणः अङ्गात् षीध्वम्-लुङ्-लिटाम् अपदान्तस्य धः मूर्धन्यः।

कित्-कर्म

सम्प्रसारणम्।

अभ्यासयोजनम्

  • अभ्यासस्य सम्प्रसारणम् पिति
  • इ/उ अभ्यासे + असवर्णः → इयङ् | उवङ्

अभ्यासलोपः, एत्वञ्च

अभ्यासो न विकृतश्चेत्। कित् | सेट् थल्।

  • धातौ असंयोग-हल् + अ + असंयोग-हल् (न ऋ-गुणकृतः) - (शस्|दद) - व-आदिः | …"
  • “तॄ फल् भज् त्रप् रध् (हिंसायाम्)”
  • “जॄ| भ्रमु|त्रस् ७ फणादयः”

उदाहरणम्

पपाच पेचतुः पेचुः
पेचिथ पेचथुः पेच
पपाच पेचिव पेचिम

पेचे पेचाते पेचिरे
पेचिषे पेचाथे पेचिध्वे
पेचे पेचिवहे पेचिमहे