प्रति

वाक्येषु “प्रति” इत्यस्य त्रिभिः प्रकारैः प्रयोगः भवति —

(१) उपसर्गरूपेण, धातूनां योगे

यथा, बुभुक्षितं न किञ्चित् प्रतिभाति । अत्र “२.३.२ कर्मणि द्वितीया” इत्यत्र पाठितेन “अभितःपरितःसमयानिकषाहाप्रतियोगेषु च दृश्यते” इति वार्त्तिकेन “प्रति” इति उपसर्गस्य योगे द्वितीया विभक्तिः प्रयुज्यते ।

  • अस्मिन् सन्दर्भे — एष प्रतिशब्दः क्रियाविशेषकत्वाद् उपसर्गः, न तु कर्मप्रवचनीयः इति “१.४.४८ उपान्वध्याङ्वसः” इत्यत्र तत्त्वबोधिनी ।

(२) कर्मप्रवचनीयरूपेण

  • “१.४.९० लक्षणेत्थम्भूताख्यान-भाग-वीप्सासु प्रति-पर्य्-अनवः” इति सूत्रेण विशिष्टेषु सन्दर्भेषु एव प्रतिशब्दस्य कर्मप्रवचनीयसंज्ञा भवति । तस्य योगे “२.३.८ कर्मप्रवचनीययुक्ते द्वितीया” इति सूत्रेण द्वितीया विभक्तिः भवति । यथा —
    • वृक्षं प्रति विद्युत् द्योतते (विद्युद्-द्योतनस्य लक्षणम् वृक्षः इति),
    • लक्ष्मीः हरिं प्रति (लक्ष्मीः हरेः अंशः इत्याशयः),
    • भक्तः विष्णुं प्रति (भक्तस्य विष्णुं प्रति साधुभावः अस्ति)
  • “१.४.९२ प्रतिः प्रतिनिधिप्रतिदानयोः” इति सूत्रेण अपि विशिष्टेषु सन्दर्भेषु प्रतिशब्दस्य कर्मप्रवचनीयसंज्ञा भवति । तस्य योगे “२.३.११ प्रतिनिधिप्रतिदाने च यस्मात्” इति सूत्रेण पञ्चमी विभक्तिः भवति । यथा, “अभिमन्युः अर्जुनात् प्रति”, “माषानस्मै तिलेभ्यः प्रतियच्छति” ।

(३) उपसर्ग/कर्मप्रवचनीयाभ्यां भिन्नत्वेन

“रामः गृहं प्रति गच्छति, रामस्य गृहं प्रति गमनम्” — एतादृशेषु स्थलेषु विद्यमानस्य प्रति इति अव्ययस्य उपसर्गसंज्ञा अपि नास्ति, कर्मप्रवचनीयसंज्ञा अपि नास्ति । अत्र वस्तुतः “प्रति” इत्यस्य अव्ययस्य “उद्दिश्य” इति अर्थ प्रयोगः कृतः दृश्यते । यथा, “गृहं प्रति गच्छति = गृहम् उद्दिश्य गमनक्रिया भवति” इत्यर्थः ।

तर्हि अत्र “प्रति” शब्दस्य योगे द्वितीया कथं भवति इति चेत्‌ २.३.२ कर्मणि द्वितीया इत्यत्र भाष्ये विद्यमानं वार्त्तिकम् अत्र उपयुज्यते —

उभ-सर्व-तसोः कार्या
धिगुपर्यादिषु त्रिषु ।
द्वितीयाम्रेडितान्तेषु
ततोऽन्यत्रापि दृश्यते ॥

उभयतः, सर्वतः, धिक्, उपरि, अधि, अधः, आम्रडितसंज्ञकाः शब्दाः तथा च अन्येऽपि केचन शब्दाः — एतेषां योगे द्वितीया प्रयुज्यते — इति अस्य वार्त्तिकस्य आशयः । अस्मिन् वार्त्तिके उपस्थितेन “अन्यत्रापि दृश्यते” इति वाक्येन अत्र द्वितीया साधुत्वं प्राप्नोति ।

एतादृशाः “प्रति” शब्दस्य “उद्देश्य” इत्यर्थे बहवः प्रयोगाः साहित्ये विद्यन्ते —

  • तदा यायात् रिपुं प्रति (मनुस्मृतौ) ।
  • त्वयैकमीशं प्रति साधु भाषितम् (कुमासम्भवे) ।
  • क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः (अष्टाध्यायीसूत्रम्) ।
  • तां प्रत्यभिव्यक्तमनोरथानाम् (रघुवंशे) ।

एतेषु सर्वेषु अपि अनेनैव प्रकारेण साधुत्वं ज्ञाप्यते ।