०७० अनुसमा (अनु+सम्+आङ्)

धा

  • {अनुसमाधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘तस्य चार्थस्य विज्ञाने गर्भकराणां च भावानामनुसमाधिः’ (चरक० शरीर० ४।५७)। अनुसमाधिरनुष्ठानम्।
  • ‘बुद्धिः प्रणिहिता येन मनश्चानुसमाहितम्’ (रा० २।२२।१४)। अनुसमाहितमैकाग्र्यमुपनीतम्।