गन्धि

बहुव्रीहि-समासे विद्यमानस्य “गन्ध” इति शब्दस्य त्रिषु विषयेषु इकारादेशः भवति (सूत्राणि — ५.४.१३५, ५.४.१३६, ५.४.१३७) —

सु-आदि-योगे

“५.४.१३५ गन्धस्येदुत्पूतिसुसुरभिभ्यः” इति सूत्रेण “उत्”, “पूति”, “सु”, “सुरभि” इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशः भवति । यथा, शोभनः गन्धः यस्य सः = सुगन्धिः (वायुः) । एवमेव, उद्गन्धिः / पूतिगन्धिः / सुगन्धिः / सुरभिगन्धिः । एते शब्दाः त्रिषु लिङ्गेषु प्रयुज्यन्ते — सुगन्धिः वायुः । सुगन्धिः लता । सुगन्धि पुष्पम् ।

अस्मिन् सूत्रे विद्यमानं वार्त्तिकम् — “गन्धस्य इत्वे तदेकान्तग्रहणम्” । यत्र पदार्थे गन्धः एकान्तरूपेण (अविभागेन) स्थितः अस्ति (गन्धस्य पृथक्-करणं न शक्यम्) तत्रैव इकारादेशः भवति । अविभागेन स्थितस्य गन्धस्य निर्देशार्थम् एव इकारादेशः भवति इति आशयः । अतएव “शोभनः गन्धः यस्य सः सुगन्धः आपणिकः”, “शोभनः गन्धः यस्मिन् सः सुगन्धः आपणः” एतेषु स्थलेषु इकारादेशः न भवति ।

अस्मिन् वार्त्तिके विद्यमानस्य “एकान्त” इति शब्दस्य अर्थविषये मतान्तराणि सन्ति —

केचित्तु - ‘गन्धस्य इत्वे’ इति वार्तिके तदेकान्तशब्देन स्वाभाविकत्वं विवक्षितं तेन आगन्तुकस्य न - इत्याहुः — इति तत्त्वबोधिनी ।

एतेषां मतेन तु “सुगन्धः वायुः” इत्येव साधु, यथा वायोः स्वाभाविकः गुणः गन्धः इति नास्ति ।

अथ वायौ कथं सुगन्धिः, दुर्गन्धिरिति, न ह्ययं गन्धो वायोर्गुणः?
मा भूत् अस्य गुणः, तेन तावदविभागापन्नो लक्ष्यते, एतावदेव च तदेकान्तत्वं विवक्षितम्, न तद्गुणत्वम् — पदमञ्जरी ।

अल्पार्थे

यत्र गन्धशब्दः बहुव्रीहिसमासे उत्तरपदरूपेण “अल्पम्” इत्यस्मिन् अर्थे प्रयुज्यते तत्र गन्ध-शब्दस्य “५.४.१३६ अल्पाख्यायाम्” इति सूत्रेण इकारादेशः भवति । यथा, घृतं गन्धम् (अल्पम्) अस्मिन् भोजने तत् घृतगन्धि भोजनम् । एवम् एव “क्षीरगन्धि पायसम् । सूपगन्धिः शाकः ।” अल्पार्थकस्य गन्धशब्दस्य इकारादेशः इत्याशयः ।

“गन्धः सम्बन्धलेशयोः , गन्धकामोदगर्वेषु” — इति हेमचन्द्रकृते अनेकार्थसङ्ग्रहे २.२३६ । “न्यूनम् / अल्पम् / लेशः” अस्मिन् अर्थे अपि गन्धशब्दः प्रयुज्यते इत्याशयः ।

उपमार्थे

यत्र गन्धशब्दः बहुव्रीहिसमासे उपमानवाचिपूर्वपदात् अनन्तरम् विद्यते, तत्र गन्ध-शब्दस्य ५.४.१३७ उपमानाच्च इति सूत्रेण इकारादेशः भवति । यथा — चम्पकस्य गन्धः इव गन्धः अस्य सः “चम्पकगन्धिः” धूपः । अत्र सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः इति वार्त्तिकेन उपमान-पूर्वपद-बहुव्रीहिसमासः भवति । एवमेव “पद्मगन्धिः, उत्पलगन्धिः, करीषगन्धिः” — आदयः । उपमानवाचिपूर्वपदात् अनन्तरम् विद्यमानस्य गन्धशब्दस्य इकारादेशः — इत्याशयः ।