१५७ उद्वि (उद्+वि)

ईक्ष्

  • {उद्वीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘भवदुद्वीक्षणाच्चैव पाण्डुना पृथिवीक्षिता।…सुपरिपालिताः’ (वयम्) (भा० आश्रम० १०।२०)॥ उद्वीक्षणमवेक्षा।
  • ‘उद्वीक्ष्योद्वीक्ष्य नयनैरस्रपाताविलेक्षणाः’ (रा० ३।५२।४१)। नयनैर्भयादिव विलक्षणैरिति पाठान्तरम्। उद्वीक्ष्य ऊर्ध्वं वीक्ष्य।
  • ‘न चास्ति शक्तिस्त्रैलोक्ये कस्यचित् पुरुषोत्तम। पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत’ (भा० अनु० २।८१)॥ उद्वीक्षितुम् उदीक्षितुम्। नार्थो विना।
  • ‘हंसैरुझितपङ्कजैरतितरां सोद्वेगमुद्वीक्षितः’ (मृच्छ० ५।२३)। उद्वीक्षित उच्चक्षुर्भिरीक्षितः। विर्विशेषकृन्न।