१६२ अभ्यप (अभि+अप)

क्रम्

  • {अभ्यपक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘स्वं हैवास्य तत्प्रतिमामिवाभ्यपक्रामति’ (श० ब्रा० ५।४।३।११)। अभ्युपसर्पति, उपैतीत्यर्थः। स्वम् आत्मा। समिद्धो अग्न आहुत स नो माभ्यपक्रमीः। अत्रैव दीदिहि…माऽपसार्षीरित्यर्थः।