वाक्-क्रमः

  • परा

    • चेतनेन ज्ञातार्थविवक्षया तद्बोधक-शब्द-निष्पादनाय प्रेरितमन्तःकरणं मूलाधार-स्थितम् अनलं चालयति। तच्चालितश् चानलस् तत्स्थलस्थानिल-चालनाय प्रभवति। तच्चालितेन चानिलेन तत्रैव सूक्ष्मरूपेणोत्पादितः शब्दः परा वागित्यभिधीयते।
  • पश्यन्ती। समयक्रमरहिता। व्यक्तार्थचयो भवत्यस्याः। वक्त्रा कल्पिता। श्रोत्रा अवगता।

    • ततो नाभि-देशपर्य्यन्तं चलितेन तेन तद्देशसंयोगाद् उत्पादितः शब्दः पश्यन्तीति व्यवह्रियते। एतद्द्वयस्य सूक्ष्मतरसूक्ष्मतमतया ईश्वरयोगिमात्रगम्यता नास्मदीयश्रुतिगचिरता ।
  • मध्यमा। शब्दार्थभेदयुक्ता। शब्दक्रमत्वात् क्रमबद्धा। अनुक्ता। इयं प्राकृता वाक्, शब्दब्रह्मा च।

    • ततस्तेनैव हृदयदेशं परिसरता हृदय-संयोगेन निष्पादित-शब्दो मध्येत्युच्यते। सा च स्वकर्णपिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिदस्माकमपि समधिगम्या ।
  • वैखरी। उक्ता। परश्रवणगोचरा। वक्त्रनुसारं विकृता - द्राविडस्याकारो भिन्नः, वाङ्गस्य भिन्नः।

    • ततो मुख-पर्य्यन्तमागच्छता तेन कण्ठदेशं प्राप्य आहत्य मूर्द्धानं तत्प्रतिघातेन परावृत्य च मुखविवरे कण्ठदितत्तदष्टस्थानेषु स्वाभिघातेनोत्पादितः शब्दो वैणरीत्युच्यते।
  • वचने क्रमः - परा, पश्यन्ती, मध्यमा, वैखरी।

  • अवगमने / स्फोटे क्रमः - वैखरी, मध्यमा, पश्यन्ती, परा।

    • वर्णस्पोटः मध्यमायाम् - उच्चारणं‌ ककारस्य जने जने भिन्नमपि मनसि समानवर्णः आविर्भवति, स एव वर्णस्पोटः।