इट्-आगम-निश्चयः

प्रत्ययानुकूल्यम्

  • [अङ्गात्] आर्धधातुकस्येड् वलादेः+++(हल् - {य्})+++।
  • नेड्‌ वशि कृति। +++(नाम कृत्सु प्रत्ययस्य आदौ वर्गीयवञ्जनानां प्रथमः, द्वितीयः अथवा श्‌, ष्‌, स्‌, ह्‌ चेत्‌, इडानुकूलः।)+++
  • [अङ्गात् नेड्‌] {ति, तु, त्र, त, थ, सि, सु, सर, क, स} इत्येतेषु। +++(शास्‌ + त्र → शास्त्रम्‌)+++

धात्वानुकूल्यम्

  • एकाच उपदेशेऽनुदात्तात्‌ [नेट्]।

अजन्तधातुषु

अनिटः प्रायेण, एत एव सेटः -

  • श्रि, श्वि, शी, डी, यु, रु, नु, स्नु, क्षु, क्ष्णु, वृञ्‌, वृङ्‌ सेटः।
  • ऊकारान्ताः
  • ॠकारान्ताः।

हलन्तधातुषु

प्रायेण सेटः, एत एवानिटः -

  • शक्लृ शक्तौ
  • डुपचँष् पाके भ्वा उ० (पचति/ते), वचँ परिभाषणे अ प० (वक्ति), रिचिँर् विरेचने रु उ० (रिणक्ति/रिङ्क्ते), विचिँर् पृथग्भावे रु उ० (विनक्ति/विङ्क्ते), षिचँ क्षरणे तु उ० (सिञ्चति/ते), मुचॢँ मोक्षणे तु उ० (मुञ्चति/ते)
  • प्रछँ ज्ञीप्सायाम् तु प० (पृच्छति)
  • त्यजँ हानौ भ्वा प० (त्यजति), भजँ सेवायाम् भ्वा उ० (भजति/ते), यजँ देवपूजासङ्गतिकरणदानेषु भ्वा उ० (यजति/ते), णिजिँर् शौचपोषणयोः जु उ० (नेनेक्ति/नेनिक्ते), विजिँर् पृथग्भावे जु उ० (वेवेक्ति/वेविक्ते), भुजोँ कौटिल्ये तु प० (भुजति), भुजँ पालनाभ्यवहारयोः रु उ० (भुनक्ति/भुङ्क्ते), युजँ समाधौ दि आ (युज्यते), युजिँर् योगे रु उ० (युनक्ति/युङ्क्ते), रुजोँ भङ्गे तु प० रुजति, सृजँ विसर्गे तु प० (सृजति), सृजँ विसर्गे दि आ० (सृज्यते), भञ्जोँ आमर्दने रु प० (भनक्ति), रन्ज्ँ रागे भ्वा उ० (रजति/ते), रञ्जँ रागे दि उ० (रज्यति/ते), षञ्जँ सङ्गे भ्वा प० (सजति), ष्वन्ज् परिष्वङ्गे भ्वा: आ० (स्वजते), टुमस्जोँ शुद्धौ तु प० (मज्जति), भ्रस्जँ पाके तु उ० (भृज्जति/ते)
  • अदँ भक्षणे अ प० (अत्ति), पदँ गतौ दि आ० (पद्यते), शदॢँ शातने भ्वा: प० (शीयति), शदॢँ शातने तु प० (शीयते) (प० किन्तु शदेः शितः (१.३.६०) इत्यनेन सार्वधातुकलकारेषु लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ अस्य आत्मनेपदस्यैव रूपाणि भवन्ति), षदॢँ विशरणगत्यवसादनेषु भ्वा प०, तु प० (सीदति उभयत्र), हदँ पुरीषोत्सर्गे भ्वा आ० (हदते), खिदँ दैन्ये दि आ० (खिद्यते), खिदँ दैन्ये रुधादि: आ (खिन्ते), खिदँ परिघाते तु प० (खिन्दति), छिदिँर् द्वैधीकरणे रु० उ० (छिनत्ति/छिन्ते), छिद्र कर्णभेदने चु उ० छिद्रयति/ते)(लृटि छिद्रयिष्यति/ते), भिदिँर् विदारणे रु उ० (भिनत्ति/भिन्ते), विदँ सत्तायाम् दि आ० अनिट् (विद्यते), विदँ विचारणे रुधादि: आ अनिट् (विन्ते), विदँ ज्ञाने अ प० सेट् (वेद/वेत्ति), विदॢँ लाभे तु उ० सेट् (विन्दति/ते), विदँ चेतनाख्याननिवासेषु चु आ० सेट् (वेदयते), ष्विदाँ गात्रप्रक्षरणे दि प० (स्विद्यति), क्षुदिँर् सम्प्रेषणे रु उ० (क्षुणत्ति/क्षुन्ते), तुदँ व्यथने तु उ० (तुदति/ते), णुदँ प्रेरणे तु उ० (नुदति/ते), स्कन्दिँर् गतिशोषणयोः भ्वा प० (स्कन्दति)
  • व्यधँ ताडने दि प० (विध्यति), षिधुँ संराद्धौ दि प० (सिध्यति), क्रुधँ क्रोधे दि प० (क्रुध्यति), क्षुधँ बुभुक्षायाम् दि प० (क्षुध्यति), बुधँ अवगमने दि आ० (बुध्यते), युधँ सम्प्रहारे दि आ० (युध्यते), शुधँ शौचे दि प० (शुध्यति), राधँ वृद्धौ दि प० (राध्यति), राधँ संसिद्धौ स्वा प० (राध्नोति), साधँ संसिद्धौ स्वा प० (साध्नोति), बन्धँ बन्धने क्र्या प० (बध्नाति)
  • मनँ ज्ञाने दि आ० (मन्यते), हनँ हिंसागत्योः अ प० (हन्ति)
  • तपँ सन्तापे भ्वा प० (तपति), तपँ ऐश्वर्ये दि आ० (तप्यते, विकल्पेन शप्‌ प० तपति), डुवपँ बीजसन्ताने भ्वा उ० (वपति/ते), शपँ आक्रोशे भ्वा उ० शपति/ते), ञिष्वपँ शये अ प० (स्वपिति), क्षिपँ प्रेरणे दि प० (क्षिप्यति), क्षिपँ प्रेरणे तु उ० (क्षिपति/ते), तिपृँ क्षरणे भ्वा आ० (तेपते), लिपँ उपदेहे तु उ० (लिम्पति/ते), छुपँ स्पर्शे तु प० (छुपति), लुपॢँ छेदने तु उ० (लुम्पति/ते), तृपँ प्रीणने दि प० (तृप्यति), दृपँ हर्षमोहनयोः दि प० (दृप्यति), सृपॢँ गतौ भ्वा प० (सर्पति), आपॢँ व्याप्तौ स्वा प० (आप्नोति)
  • गमॢँ गतौ भ्वा प० (गच्छति), णमँ प्रह्वत्वे शब्दे च भ्वा प० (नमति), यमँ उपरमे भ्वा प० (यच्छति), रमुँ क्रीडायाम् भ्वा आ० (रमते)
  • दिशँ अतिसर्जने तु उ० (दिशति/ते), रिशँ हिंसायाम् तु प० (रिशति), लिशँ गतौ तु प० (लिशति), लिशँ अल्पीभावे दि आ० (लिश्यते), विशँ प्रवेशने तु प० (विशति), रुशँ हिंसायाम् तु प० (रुशति), क्रुशँ आह्वाने रोदने च भ्वा प० (क्रोशति), दृशिँर् प्रेक्षणे भ्वा प० (पश्यति), मृशँ आमर्शने तु प० (मृशति), स्पृशँ संस्पर्शने तु प० (स्पृशति), दंशँ दशने भ्वा प० (दशति)
  • त्विषँ दीप्तौ भ्वा उ० (त्वेषति/ते), द्विषँ अप्रीतौ अ उ० (द्वेष्टि/द्विष्टे), पिषॢँ सञ्चूर्णने हिंसायाम् च रु प० (पिनष्टि), विषॢँ व्याप्तौ जु उ० (वेवेष्टि/वेविष्टे), शिषँ हिंसायाम् भ्वा प० (शेषति), शिषॢँ विशेषणे रु प० (शिनष्टि), श्लिषँ आलिङ्गने दि प० (श्लिष्यति), तुषँ प्रीतौ दि प० (तुष्यति), दुषँ वैकृत्ये दि प० (दुष्यति), पुषँ पुष्टौ विभागे च दि प० (पुष्यति), शुषँ शोषणे दि प० (शुष्यति), कृषँ विलेखने भ्वा प० (कर्षति), कृषँ विलेखने तु उ० (कृषति/कृषते)
  • वसँ निवासे भ्वा प० (वसति), घसॢँ अदने भ्वा प० (घसति)
  • दहँ भस्मीकरणे भ्वा प० (दहति), दिहँ उपचये अ उ० (देग्धि/दिग्धे), दुहँ प्रपूरणे अ उ० (दोग्धि/दुग्धे), मिहँ सेचने भ्वा प० (मेहति), रुहँ बीजजन्मनि प्रादुर्भावे च भ्वा प० (रोहति), लिहँ आस्वादने अ उ० (लेढि/लीढे), वहँ प्रापणे दि उ० (वहति/ते), णहँ बन्धने दि उ० (नह्यति/ते)

वेड्धातवः

स्वरतिसूतिसूयतिधूञूदितो वा (७.२.४४) इत्यनेन

  • ‘स्वृ शब्दोपतापयोः’, ‘षूङ्‌ प्राणिगर्भविमोचने’, ‘षूङ्‌ प्राणिप्रसवे’, ‘धूञ्‌ कम्पने’
  • उदितः (२४ धातवः)

रधादिभ्यश्च (७.२.४५) = रध्‌, नश्‌, तृप्‌, दृप्, द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌

अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् (६.१.५९) = उपदेशे अनुदात्तः यः ॠदुपधः तस्य अम्‌-आगमः विकल्पेन भवति झलादौ अकिति प्रत्यये परे।

निरः कुषः (७.२.४६) ।

कारिका

एकाच उपदेशेऽनुदात्तात् (७.२.१०) काशिका-

अनिट्स्वरान्तो भवतीति दृश्यतामिमांस्तु सेटः प्रवदन्ति तद्विदः।
अदन्तमॄदन्तमृतां च वृङ्वृञौ श्वुडीङिवर्णेष्वथ शीङ्श्रिञावपि।।१।।
गणस्थमूदन्तमुतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्षवः।
इति स्वरान्ता निपुणं समुच्चितास्ततो हलन्तानपि सन्निबोधत।।२।।

शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्च सान्तेषु वसिः प्रसारिणी।
रभिस्तु भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो लभिरेव नेतरे।।३।।
यमिर्ञमन्तेष्वनिडेक इष्यते रमिश्च यश्च श्यनि पठ्यते मनिः।
नमिश्चतुर्थो हनिरेव पञ्चमो गमिश्च षष्ठः प्रतिषेधवाचिनाम्।।४।।
दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्ठो दहतिस्तथा लिहिः।
इमेऽनिटोऽष्टाविह मुक्तसंशया गणेषु हान्ता प्रविभज्य कीर्तिताः।।५।।
दिशिं दृशिं दंशिमथो मृशिं स्पृशिं रिशिं क्रोशतिमष्टमं विशिम्।
लिशिं च शान्ताननिटः पुराणगाः पठन्ति पाठेषु दशैव नेतरान्।।६।।
रुधिः सराधिर्युधिबन्धिसाधवः क्रुधिक्षुधी शुद्ध्यतिबुद्ध्यती व्यधिः।
इमे तु धान्ता दश येऽनिटो मतास्ततः परं सिद्ध्यतिरेव नेतरे।।७।।
शिषिं पिषिं शुष्यतिपुष्यती त्विषिं विषिं श्लिषिं तुष्यतिदुष्यती द्विषिम्।
इमान् दशैवोपदिशन्त्यनिड्विधौ गणेषु षान्तान् कृषिकर्षती तथा।।८।।
तपिं तिपिं चापिमथो वपिं स्वपिं लिपिं लुपिं तृप्यतिदृप्यती सृपिम्।
स्वरेण नीचेन शपिं छुपिं क्षिपिं प्रतीहि पान्तान् पठितांस्त्रयोदश।।९।।
अदिं हदिं स्कन्दिभिदिच्छिदिक्षुदीन् शदिं सदिं स्विद्यतिपद्यती खिदिम्।
तुदिं नुदिं विद्यति विन्त इत्यपि प्रतीहि दान्तान् दश पञ्च चानिटः।।१०।।
पचिं वचिं विचिरिचिरञ्जिपृच्छतीन् निजिं सिचिं मुचिभजिभञ्जिभृज्जतीन्।
त्यजिं यजिं युजिरुजिसञ्जिमज्जतीन् भुजिं स्वजिं सृजिमृजी विद्ध्यनिट्स्वरान्।।११।।