क्रम्

क्रमुँ (पादविक्षेपे, भ्वादिः, परस्मैपदी) इति भ्वादिगणस्य धातुः । अस्य धातोः केचन विशेषाः —

दीर्घः

अस्य धातोः कर्तरि परस्मैपदस्य लट्/लोट्/लङ्/विधिलिङ्-रूपेषु “७.३.७६ क्रमः परस्मैपदेषु” इति सूत्रेण अकारस्य दीर्घः भवति । क्रामति, क्रामतु, अक्रामत्, क्रामेत् । अन्यत्र न भवति — क्रमिता,‌अक्रमीत्, क्रम्यात्… ।

अस्य धातोः “३.१.७० वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः” इति सूत्रेण विकल्पेन दिवादिगणसदृशानि अपि रूपाणि भवन्ति । क्राम्यति, क्राम्यतु, अक्राम्यत्, क्राम्येत् ।

अतः “क्रमति” इति रूपम् असाधु । अतएव, “अतिक्रमति” इति रूपम् अपि असाधु । अतिक्रामति / अतिक्राम्यति इति साधु ।

आत्मनेपदिरूपाणि

क्रमुँ-धातुः धातुपाठे परस्मैपदी पाठितः अस्ति, परन्तु उपसर्गं विना अस्य प्रयोगः क्रियते चेत् “१.३.४३ अनुपसर्गाद्वा” इति सूत्रेण अस्य आत्मनेपदस्य रूपाणि अपि भवन्ति । एतेषु रूपेषु उपधादीर्घः न भवति । क्रमते, क्रमताम्, अक्रमत, क्रमेत । क्रम्यते, क्रम्यताम्, अक्रम्यत, क्रम्येत ।

“क्रामते, क्राम्यते” इति असाधु । अतिक्रामते, अतिक्राम्यते इति अपि असाधु ।

पदरूपनिर्णयः

क्रमुँ (पादविक्षेपे, भ्वादिः, परस्मैपदी) इति भ्वादिगणस्य धातुः । परन्तु अस्मात् धातोः कुत्रचित् केवलम् आत्मनेपदस्य प्रत्ययाः एव भवन्ति —

“१.३.३८ वृत्तिसर्गतायनेषु क्रमः” — वृत्तिः (अप्रतिबन्धता, निरन्तरता), सर्गः (उत्साहः), तायनम् (स्फीतता, विस्तरः) एतेषु त्रिषु अर्थेषु अनुपसर्गात् क्रम्-धातोः आत्मनेपदस्यैव प्रत्ययाः भवन्ति — ऋचि क्रमते बुद्धिः । न प्रतिहन्यते इत्यर्थः ।

छात्रः अध्ययनाय क्रमते । उत्सहते इति आशयः । अत्र तादर्थ्ये चतुर्थी प्रयुक्ता अस्ति ।

अस्मिन् ग्रन्थे शास्त्राणि क्रमन्ते । शास्त्राणां स्फीतिः (विस्तरः) कृतः वर्तते इत्याशयः ।

“१.३.३९ उपपराभ्याम्” — वृत्तिः (अप्रतिबन्धता, निरन्तरता), सर्गः (उत्साहः), तायनम् (स्फीतता, विस्तारः) एतेषु एव अर्थेषु “उप+क्रम्” तथा च “परा + क्रम्” इत्येताभ्याम् अपि आत्मनेपदस्यैव प्रत्ययाः भवन्ति । “उपक्रमते, पराक्रमते ।” अन्यः कश्चन उपसर्गः अस्ति चेत् तु परस्मैपदस्यैव प्रत्ययाः भवन्ति । “सङ्क्रामति, परिक्रामति ।”

१.३.४० आङ उद्गमने / “ज्योतिरुद्गमन इति वाच्यम्” — “ग्रहतारकाणाम् उद्गमनम्” (उपरि गमनम्) अस्मिन् अर्थे आङ् +क्रम् इत्यस्मात् आत्मनेपदस्यैव प्रत्ययाः भवन्ति । यथा, “सूर्यः खे आक्रमते, चन्द्रमाः आक्रमते ।” “धूमः आक्रामति” इत्यत्र तु परस्मैपदम् एव ।

“१.३.४१ वेः पादविहरणे” — “पद्भ्याम् विहरणम् / चलनम्” अस्मिन् अर्थे वि + क्रम् इत्यस्मात् आत्मनेपदस्यैव प्रत्ययाः भवन्ति । यथा, अश्वः विक्रमते । अन्येषु अर्थेषु परस्मैपदम् एव । यथा, अजिनसन्धिः विक्रामति (पादरक्षणस्य बन्धः द्विधा भवति) ।

१.३.४२ प्रोपाभ्यां समर्थाभ्याम् — “क्रियायाः प्रारम्भः” अस्मिन् अर्थे प्र + क्रम् तथा उप + क्रम् इत्येताभ्याम् आत्मनेपदस्यैव प्रत्ययाः भवन्ति । यथा, भोक्तुं प्रक्रमते उपक्रमते वा । (भोजनस्य प्रारम्भं करोति) । अन्येषु अर्थेषु परस्मैपदम् एव — पूर्वेद्युः प्रक्रामति (पूर्वस्मिन् दिने गच्छति इत्यर्थः) ।

१.३.४३ अनुपसर्गाद्वा — उपसर्गभिन्नात् क्रम्-धातोः विकल्पेन आत्मनेपदस्य प्रत्ययाः भवन्ति । देवदत्तः क्रामति क्रमते वा ।

अन्यत्र सर्वत्र क्रम्-धातोः परस्मैपदम् एव । अतः सङ्क्रमते, अपक्रमते, अतिक्रमते - एतानि असाधु रूपाणि । अतिक्रामति/अतिक्राम्यति इत्यादीनि साधुरूपाणि ।