१७६ अभिवि (अभि+वि)

आप्

  • {अभिव्याप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘भ्राजभासेति क्विपमभिव्याप्य’ (पा० ३।२।१३४) इत्यत्र सिद्धान्तकौमुद्याम्)। अभिविधिरभिव्याप्तिः।
  • ‘अधिकारोऽयं यूनस्तिः इत्यभिव्याप्य’ (पा० ४।१।१४ इत्यत्र सि० कौ०)। उक्तोऽर्थः।

  • {अभिवी}
  • इ (इण् गतौ)।
  • ‘विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु’ (ऋ० ६।९।५)। अभिवियन्ति दिग्भ्यो विदिग्भ्यो यज्ञमभिलक्ष्यायान्तीत्यर्थः।

ईक्ष्

  • {अभिवीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘समस्थो विषमस्थान् हि दुर्हृदो योभिवीक्षते’ (भा० वन०)। सस्नेहं सकरुणं वा पश्यतीत्यर्थः।
  • ‘तं तदा नाशकत् कश्चिच्चक्षुर्भ्यामभिवीक्षितुम्’ (भा० द्रोण० ४४।२१)। सर्वत अभिमुखीभूय द्रष्टुमित्यर्थः।
  • ‘न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम्’ (मनु० ७।६)। उक्तोऽर्थः।

उक्ष्

  • {अभिव्युक्ष्}
  • उक्ष् (उक्ष सेचने)।
  • ‘यथाग्निं नाभिव्युक्षेत्’ (श० ब्रा० १।३।१।१०)। नाभिषिञ्चेदित्यर्थः।

तन्

  • {अभिवितन्}
  • तन् (तनु विस्तारे)।
  • ‘पूर्वस्याह्नः परिर्शिषन्ति कर्म तदुत्तरेणाभिवितन्वतेऽह्ना’ (श० ब्रा० ११।५।५।१३)। अभिवितन्वतेऽभिनिर्वर्तयन्ति अवसाययन्ति समाप्तिं नयन्ति।
  • ‘उत्करं वा चर्मणाऽभिवितन्वन्ति’ (शां० श्रौ० १७।५।६)। अभिवितन्वन्ति प्रच्छादयन्ति संवृण्वन्ति।

दृश्

  • {अभिविदृश्}
  • दृश् (दृशिर् प्रेक्षणे)।
  • ‘पूषा यो विश्वाभि विपश्यति भूवना सं च पश्यति।’ (ऋ० ३।६२।९)। अभिविपश्यति अभितो विशेषेण पश्यति।
  • ‘अथो यत्किञ्च मनसा वाचा चक्षुषा वा संकल्पयन्ध्यायत्याहाऽभिविपश्यति’ (आप० ध० १।५।८)। आभिमुख्येन विशिष्य पश्यतीत्याह।

द्रु

  • {अभिविद्रु}
  • द्रु (द्रु गतौ)।
  • ‘हयैरपि हयारोहाश्चामरापीडधारिभिः। अन्योन्यमभिविद्रुताः–’ (भा० भीष्म० ४६।२०)। अभिविद्रुता=वेगेनाभ्यधावन्।
  • ‘ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाभिविद्रुतम्’ (भा० भीष्म० १०१।३१)। इतस्ततः पलायमानम्, कान्दिशीकमित्यर्थः।

धा

  • {अभिविधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘न भूमिंपाशमभिविदध्यात्’ (श० ब्रा० १३।८।१।१६)। अभिविदध्यात् संनिहितं संसृष्टं निदध्यात्।
  • ‘(श्वभ्रः) कर्मणाऽभिविहितः’ (लाट्या० श्रौ० ३।११।२)। अभिविहितः प्रावृतो निखिलेनाभिव्याप्तः।
  • ‘आङ् मर्यादाभिविध्योः’ (पा० २।१।१३)। तेन विना मर्यादा तत्सहितोऽभिविधिः।
  • ‘अभिविधौ सम्पदा च’ (पा० ५।४।५३)। यत्रैकदेशेनापि सर्वा प्रकृतिर्विकारमापद्यते सोऽभिविधिरिति वृत्तिः। बहूनां व्यक्तीनामेकदेशावच्छेदेनान्यथाभावोऽभिविधिरिति दीक्षितः।

धाव्

  • {अभिविधाव्}
  • धाव् (धावु गतिशुद्ध्योः)।
  • ‘यत्रापो देवयजनं चान्तरेण पन्था अभिविधावेत्’ (आप० श्रौ० १०।७।२०।११)।

नी

  • {अभिविनी}
  • नी (णीञ् प्रापणे)।
  • ‘वृद्धैरभिविनीतैश्च द्विजैर्धर्मार्थदर्शिभिः’ (रा० २।१।२१)। अभिविनीतः शिक्षितः।
  • ‘कस्यां कलायामभिविनीते भवत्यौ’ (माल० ५)।
  • ‘अथ (अस्यां कलायां) केनाभिविनीतासि’ (माल० ५)। उक्तोऽर्थः।

राज्

  • {अभिविराज्}
  • राज् (राजृ दीप्तौ)।
  • ‘इमानि च सर्वाणि प्रज्ञानान्यभिविराजति’ (नि० ११।२७।१)। अभिविराजति ईष्टे।