११७ विप्रति (वि+प्रति)

  • {विप्रती}
  • इ (इण् गतौ)।
  • ‘यदि विप्रत्ययो ह्येष तदिदं दर्शयाम ते’ (भा० शां० १११।१५)। विप्रत्ययः प्रत्ययाभावः, अविश्वासः।
  • ‘विप्रत्ययादहङ्कारात्’ (बुद्ध० १२।२४)।
  • ‘एव प्रकाशो नृपतिप्रभावः… भवत्सु विप्रत्ययतो न रूढः’ (अवदा० मैत्री० १२)। उक्तचर एवार्थः।

ज्ञा

  • {विप्रतिज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘प्राप्तां नीवीं विप्रतिजानीते’ (कौ० अ० २।८।२६)। अप जानीते, अपलपतीत्यर्थः। विशब्दोऽर्थ विपर्यासयति। प्रतिज्ञानमभ्युपगमो भवति विप्रतिज्ञानमपह्नवः।

पद्

  • {विप्रतिपद्}
  • पद् (पद गतौ)।
  • ‘न हि घटादौ प्रत्यक्षे विषये कश्चिद्विप्रतिपद्यते नास्ति घट इति’ (बहदा० उ० ८।८ शां० भा०)। विप्रतिपद्यते विपरीतं जानाति।
  • ‘कृत्वा बहून्यकर्माणि पाण्डवेषु नृशंसवत्। मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे’ (भा० उ० १२८।१८)। विप्रतिपद्यसे विवादं कुरुषे मात्रादिभिः।
  • ‘विदितवेदितव्यास्तु भिषजः सर्वं सर्वथा परीक्ष्यं परीक्ष्याध्यवस्यन्तो न क्वचिदपि विप्रतिपद्यन्ते’ (चरक० विमान० ७।४)। न विप्रतिपद्यन्ते न मुह्यन्ति। यः कथं चित् प्रामाण्ये विप्रतिपद्येत तम्प्रति न्यायशास्त्रप्रसिद्धहेतुकथनमेतत्। विप्रतिपद्येत शङ्केत, सन्दिहीत।
  • ‘वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यान्तै’ (श० ब्रा० १४।९।१।२)। विप्रतिपद्यान्तै इति पञ्चमो लकारः। दिक्षु विदिक्षु च प्रचरन्तीत्याह। नाना दिशो गच्छन्ति।
  • ‘येषु विप्रतिपद्यन्ते षट्सु (पञ्चस्विन्द्रियेषु मनसि च) मोहात्फलागमे। तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम्’ (भा० वन० २११।२७)॥
  • ‘श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। …बुद्धिः’ (गीता० २।५३)॥ श्रुतिविप्रतिपन्ना भिन्नार्थकश्रुति-श्रवणवशान् मोहं गता। व्यवस्थाशून्या विचलितेत्यर्थः। यत्र विप्रतिपत्तिः स्याद् धर्मशास्त्रार्थशास्त्रयोः (नारदस्मृतौ १।३३ टीकायाम्)। विप्रतिपत्तिर्विरोधः।
  • ‘उवाच परया सूक्त्या बुद्ध्या विप्रतिपन्नया’ (रा० २।१०९।१)। विप्रतिपन्नया प्रतिपत्तिरहितया विरोधवत्या।
  • ‘स्वयं विप्रतिपन्ना वा यदि वा विप्रवासिता’ (वा० धर्म० २८।२)।
  • ‘शास्त्रैरधिगतानामिन्द्रियदौर्बल्याद् विप्रतिपन्नानाम्’ (आप० ध० २।५।१०।१२)। विप्रतिपन्नानां स्वकर्मणो भ्रष्टानाम्।
  • ‘तस्मिंश्च विद्याकर्मान्तमविप्रतिपन्ने धर्मेभ्यः’ (आप० ध० १।१।१।१३)। पूर्वोदित एवार्थः।
  • ‘तदिन्द्रियदौर्बल्याद् विप्रतिपन्नम्’ (आप० ध० २।१०।२७।४)। विप्रतिषिद्धमित्यर्थ इति हरदत्तः।
  • ‘प्रनष्टकूलाः प्रवहन्ति शीघ्रं नद्यो जलं विप्रतिपन्नमार्गाः’ (रा० ४।२८।२५)। प्रतिबद्धा मार्गा नृणामाभिरिति तिलकः।
  • ‘पञ्चधा विप्रतिपत्तिर्दक्षिणतस्तथोत्तरतः’ (आप० ध० १।१।२।१)। विप्रतिपत्तिर्विसंवादः।
  • ‘महाराजस्य विप्रतिपत्त्या का मे विप्रतिपत्तिः। ननु सीतापहरणमेव’ (अभिषेक० ३)। विप्रतिपत्तिर्विपरीताचरणम्।
  • ‘तेष्विह प्राज्ञस्याघातो न युक्तरूपः प्रागेव विप्रतिपत्तिः’ (अवदा० जा० ११)। विप्रतिपत्तिः पापचरणम्।
  • ‘राक्षसराजस्य विप्रतिपत्त्या विपद्यमानं राक्षसकुलम्’ (अभिषेक० ४)। उक्तोऽर्थः।
  • ‘धर्मविप्रतिपत्तावभोज्यम्’ (आप० ध० १।४।१२)। विप्रतिपत्तिर्विरोधोऽपायो वा।
  • ‘शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयः’ (कौ० अ० १।६।२)। शब्दादिषु यथायथं विशेषाग्रहोऽविप्रतिपत्तिः। शब्दमात्रस्याविशेषितस्य प्रतिपत्तिर्बोधो न तु रञ्जकत्वोद्वेजकत्वादेस्तद्विशेषस्य। एवं स्पर्शादिष्वपि बोध्यम्।
  • ‘मम विप्रतिपत्तिश्च केयमस्मिन्ननागसि’ (अवदा० शरभ० १३)। विप्रतिपत्तिर्विरुद्धा मतिः।
  • ‘वसन् पितृवने रौद्रे शौचे वर्तितुमिच्छसि। इयं विप्रतिपत्तिस्ते…’ (भा० शां० १११।९)॥ उक्तोऽर्थः।
  • ‘कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपतिरिन्द्रियजयः’ (कौ० अ० १।६।२)। अविप्रतिपत्तिरनाकुलत्वम्, अतिप्रसङ्गविरहो वा।
  • ‘अहं तु मन्ये निर्विशेषेण रूपेण शब्दादीनां प्रतिपत्तिर्ग्रहणमविप्रतिपत्तिरिहोक्ता। सैवेन्द्रियजयः। धर्मं प्रति हि विप्रतिपन्ना बहुविदः। केचिदन्यं धर्ममाहुः केचिदन्यम्’ (मी० शा० भा० १।१।१।२)। विप्रतिपन्ना विरुद्धमतयो नानादर्शनाः।
  • ‘त्वयि विप्रतिपन्नस्य त्वमेव शरणं मम। भूमौ स्खलितपादानां भूमिरेवावलम्बनम्’ (स्कन्द० १।७।१०१)। विप्रतिपन्नस्य विपरीतबुद्धेः, अश्रद्दधानस्य, अनास्थावतः।
  • ‘पथि विप्रतिपन्नः स्वयमेवागमिष्यति’ (आश्चर्य० ३)। विप्रतिपन्नः प्रतिकूलमाचरितवान्।
  • ‘शब्देऽविप्रतिपत्तिः’ (का० श्रौ० १।४।९)। अविप्रतिपत्तिर् अविपरिणामः। ऊहो न कार्य इत्यर्थः।

भा

  • {विप्रतिभा}
  • भा (भा दीप्तौ)।
  • ‘न चैतत्कारणं ब्रह्मन्नल्पं विप्रतिभाति मे’ (भा० शल्य० ६३। ५)। विप्रतिभाति प्रतिभाति रोचते। नार्थो विना।

सिध्

  • {विप्रतिषिध्}
  • सिध् (षिध गत्यां षिधू शास्त्रे माङ्गल्ये च)।
  • ‘न चास्मै श्रुतिविप्रतिषिद्धमुच्छिष्टं दद्यात्’ (आप० ध० १।४।५)। विप्रतिषिद्धं निषिद्धम्।
  • ‘विप्रतिषिद्धं चानधिकरणवाचि’ (पा० २।४।१३)। परस्परविरुद्धं विप्रतिषिद्धमिति वृत्तिः।
  • ‘हरिर्विप्रतिषेधं तमाचचक्षे विचक्षणः।’ (शिशु० २।६)। विप्रतिषेधस्तुल्यबलविरोधः।
  • ‘क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम्। तेषां विप्रतिषेधार्थं राजा सृष्टः स्वयम्भुवा’ (भा० )॥ विप्रतिषेधार्थं नियमनाय नियन्त्रणाय।
  • ‘विप्रतिपूर्वात् सिधेः कर्मव्यतिहारे घञ्। अन्योन्यप्रतिषेधो विप्रतिषेधः’ (सरस्वती० १२।११९)। निगदव्याख्यातमिदं श्रीभोजस्य वचनम्।
  • ‘तत्प्रमाणे वा न सर्वप्रमाणविप्रतिषेधः’ (न्या० सू० २।१।१४)। विशेषेण प्रतिषेधो विप्रतिषेधः। वीत्ययमुपसर्गः सम्प्रतिपत्त्यर्थे न व्याघाते इति न्यायभाष्यम्।

सृ

  • {विप्रतिसृ}
  • सृ (सृ गतौ)।
  • ‘चेतसि सविप्रतिसारे’ (शिशु० १०।२०)। विप्रतिसारोऽनुशयोऽनुतापः पश्चात्तापः।
  • ‘अनेनैव च गृहीतविप्रतीसारमिव मे हृदयम्’ (हर्ष०)। उक्तोऽर्थः।
  • ‘स्मर्तासि मां विप्रतिसारवान्वा’ (अवदा० जा० ४।१७)। स्पष्टोऽर्थः।