+स्त्रीः

प्रमुख-प्रक्रिया

  • अजाद्य् अतष् टाप्।
  • ऋन्-नेभ्यो+++(नकारान्तेभ्यः)+++ ङीप्।
    • यथा - कर्त्री कुशलिनी राज्ञी पत्नी
    • अपवादः - +++(न ङीप्)+++ मनः। डाब् उभाभ्याम् अन्यतर्स्याम्।
      • यथा - कृष्णचर्मन्न् इति स्त्रियाम् अपि। कृष्णचर्मा + इति वा (डित्त्वात् टिलोपः = न्-लोपः)।
    • अपवादः - अनो बहुव्रीहेः । डाब् उभाभ्याम् अन्यतर्स्याम्।
      • यथा - सुपर्वन्न् इति स्त्रियाम् अपि। सुपर्वा + इति वा (डित्त्वात् टिलोपः = न्-लोपः)।
  • उग्-इतश् च
    • शतृँ-क्तवतु-मतुप्।
  • न षट्-स्वस्रादिभ्यः । तेन सङ्ख्याः पञ्चादयः स्त्रियाम् अपि यथा पुंसि।
  • टित्-ढ-अण्-अञ्-द्वयसच्-दघ्नच्-मात्रच्-तयप्-ठक्-ठञ्-कञ्-क्वरपः ङीप् अनुपसर्जनात् (←अबहुव्रीहादौ)।
    • लिख् + ल्युट् + ङीप् = लेखनी। निच + अण् + ङीप् = नैजी।
  • द्विगोः ङीप्

सूत्राणि

प्रत्यय-स्वरः

  • अनुदत्तौ सुप्पितौ। अतः टाप्, ङीप् इत्य् अनुदात्तः।
  • “प्रत्ययः। परश्च। आद्युदात्तश्च”। अतः ङीष् इत्य् आद्युदात्तः।