००३ प्राधि (प्राङ्+अधि)

अधीङ्

  • {प्राधी}
  • अधीङ्-अध्ययने।
  • ‘प्राधीतद्विजमुख्या सा सम्प्रज्वलितपावका’ (भा॰आश्रम॰१८.२२)। प्रशब्दो वाऽऽदिकर्मणि।

  • {प्राधी}
  • इ (इङ् अध्ययने)।
  • ‘सममब्राह्मणे दानम् । प्राधीते शतसाहस्रम्’ (मनु० ७।८५)। प्राधीते प्रक्रान्ताध्ययने। आदिकर्मणि निष्ठा। प्रश्चादिकर्मणो द्योतकः।
  • ‘उदिते प्राध्ययनम्’ (शां० गृ० २।९।३) प्राध्ययनमध्ययनारम्भः।
  • ‘अधिय़्यीरंश्चेद् अहोरात्रमुपरम्य प्राध्ययनम्’(शां० गृ० ४।६।९)। उक्तोऽर्थः।