२८२ विपरि (वि+परि)

  • {विपरी}
  • इ (इण् गतौ)।
  • ‘ममैव तु न दुःखानामस्ति मन्ये विपर्ययः’ (रा० ५।३६।१४)। विपर्ययोऽन्तः।

ऊह्

  • {विपर्यूह्}
  • ऊह् (ऊह वितर्के)।
  • ‘एतेमौ वि पर्यूहामेत्यन्नाद्येन देवा अग्निमुपामन्त्रयन्त’ (तै० सं० २।६।६।४-५)। विपर्यूहाम स्थानाद् विभ्रष्टौ स्थानेन विश्लिष्टौ कुर्मः।

हृ

  • {विपरिहृ}
  • हृ (हृञ् हरणे)।
  • युक्ताश्वो वा आङ्गिरसः शिशू जातौ विपर्यहरत्’ (पञ्च० ब्रा० ११।८।८)। विपर्यहरद् बाधितवान् इति सायणः। पर्यत्यजत् परादादिति तु शब्दमर्यादया लभ्योर्थः।
  • ‘नात्मानं विपरिहरेदधीयानः’ (शां० गृ० ४।८।१९)। न स्थानान्तरं संचरेदित्यर्थो भाति।