प्रयोगभेदाः

  • कर्तरि - कर्तृप्राधान्यम्।
    • रामः ग्रामम् गतवान्।
  • कर्मणि- कर्मप्राधान्यम्।
    • रामेण ग्रामः गम्यते। रामेण ग्रामो गतः।
  • भावे - क्रियाप्राधान्यम्। सर्वदा प्रथम-पुरुषे एक-वचने तिङन्ताः। क्तान्ताः च नपुंसकलिङ्ग-एकवचने।
    • पुष्पैर् विकस्यते। पुष्पैर् विकसितम् ।
  • कर्मकर्तरि - कर्तृकर्म-साम्यम् अत्र। कर्ता एव कर्म।
    • ओदनेन स्वयं पच्यते। (= ओदनं पचति।)