अष्टाध्यायि-परिचयः

समग्रसंस्कृतभाषायाः मानचित्रम्‌ एकस्मिन्‌ लघु-ग्रन्थे—अभूतपूर्वम्‌ ! पाणिनिना अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थो लघुतमः स्यात्‌, अपि च स्वयं संस्कृतस्स्यात्‌ | अष्टाध्याय्याः मूलबीजं प्रकरणम्‌ | यदा वयं सूत्राणि क्रमेण पठामः, तदा पश्यामः यत्‌ सूत्राणि प्रकरणेषु—लघुषु उपभागेषु—आयोजितानि |

अद्यत्वे सामान्यतया व्याकरणछात्राः अष्टाध्यायीम्‌ अपठित्वा सिद्धान्तकौमुद्यां निमग्नाः भवन्ति | सिद्धान्तकौमुदी प्रक्रियायाम्‌ आधारिता |

A. प्रकरणं प्रक्रिया च

प्रकरणं प्रक्रिया चेत्यनयोर्भेदः कः इति अस्माभिः बोध्यम्‌ | माता पुष्पादीक्षिता सदा पाकशालायाः उदाहरणं ददाति | भोजनस्य निर्माणार्थं सामग्री आवश्यकी | तण्डुलः, जलम्‌, शाकः, पिष्टम्‌, हरिद्रा, आर्द्रकम् इत्यादिकम्‌—इदं सर्वं भोजनस्य सामग्री | पाकशालायां सर्वा सामग्री एकत्र न स्थाप्यते; पृथक्‌-पृथक्‌ कोशेषु भवति | शाकः पृथक्‌ कोशे, पिष्टं पृथक्‌ कोशे, तण्डुलः पुनः पृथक्‌ कोशे | सर्वा सामग्री एकस्मिन्‌ एव कोशे एकत्र स्थाप्यते चेत्‌, अव्यवस्था भवति खलु; अतः सम्यक्तया, सावधानतया पृथक्‌ पृथक्‌ कोशेषु एकैकं वस्तु स्थाप्यते |

अष्टाध्यायी अपि तथा—भाषायाः पाकशाला | यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं, सर्वं अस्मिन्‌ ग्रन्थे अस्ति | परन्तु एकत्र न; श्रेणीम्‌ अनुसृत्य पृथक्‌ पृथक्‌ कोशेषु स्थाप्यते | प्रत्येकं कोशस्य नाम ‘प्रकरणम्‌’ | णत्वप्रकरणं, द्वित्वप्रकरणं, सम्प्रसारणप्रकरणम्‌ इत्यादिकम्‌ |

भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति न; मार्गनिर्देशोऽपि आवश्यकः | ओदनं निर्मातुं सर्वप्रथमं तण्डुलस्य प्रक्षालनं, तदा जले स्थापनं, तदा जलस्य क्वथनम्— एतादृशी सूचना अपेक्षिता | इयं पाककृतिः इति वदामः |

भाषाक्षेत्रे प्रक्रिया तथैव भवति | पदस्य निर्माणार्थं (१) कानि सोपानानि सन्ति, अपि च (२) केन क्रमेण, इति सूचना ‘प्रक्रिया’ इत्युच्यते | जि + अ + ति → जयति— अस्य कार्यस्य कृते कानि सूत्राणि अपेक्षितानि, केन क्रमेण च इति ‘प्रक्रिया’ |

जि + लट्‌ इति विवक्षा;     लस्य (३.४.७७), तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८)

जि + तिप्‌                  हलन्त्यम्‌ (१.३.३), तस्य लोपः (१.३.९)

जि + ति                   कर्तरि शप्‌ (३.१.६८)

जि + शप्‌ + ति            लशक्वतद्धिते (१.३.८), हलन्त्यम्‌ (१.३.३), तस्य लोपः (१.३.९)

जि + अ + ति             तिङ्‌-शित्‌सार्वधातुकम्‌ (३.४.११३), सार्वधातुकार्धधातुकयोः (७.३.८४)

जे + अ + ति              एचोऽयवायावः (६.१.७७) (एकारस्य स्थाने अय्‌)]

ज्‌ + अय्‌ + अ + ति → वर्णानां मेलने → जयति इति क्रियापदं निष्पन्नम्‌ |

अत्र एका प्रक्रिया प्रदर्शिता | जयति इति पदं कथं निर्मीयते इति प्रदर्शितम्‌ | सूत्राणां सङ्ख्याः दृश्यन्ताम्‌; इमानि सूत्राणि विभिन्नेभ्यः अध्यायेभ्यः पादेभ्यश्च स्वीकृतानि | अनेन कारणेन कस्माच्चित्‌ सूत्रात्‌ प्राक्‌ कानि सूत्राणि वर्तन्ते, केषां च पदानाम्‌ अनुवृत्तिः इति न ज्ञायते | तस्य फलम्‌ इदं यत्‌ प्रक्रियायाः प्रसङ्गे सूत्रस्य दर्शनेन तस्य अर्थः नैव अवगम्यते अस्माभिः |

प्रक्रियायाः किञ्चन फलं तु अस्त्येव; अनेन पदनिर्माणक्रिया बुद्धा | परन्तु सूत्रस्य अवगमनार्थं, यत्र सूत्रबोधः लक्ष्यं, तत्र अस्माकं क्लेशो भवति यतः सूत्रं स्वयं सम्पूर्णं वाक्यं न | सूत्रस्य पूरणार्थं वाक्यम्‌ अपेक्षितम्‌; तच्च वाक्यं न प्राप्यते प्रक्रियायाम्‌ अपि तु प्रकरणे एव |

पाणिनेः ग्रन्थः प्रकरणस्य आधारेण विरचितः | यदा अष्टाध्यायी-क्रमेण सूत्राणि पठामः, तदा सौकर्येण वयं सूत्राणि पूरयितुं शक्नुमः येन प्रत्येकं सूत्रं पूर्णं वाक्यं स्यात्‌ | अनेन सूत्रार्थः मनसि स्फुरितो विद्यते |

एकस्मिन्‌ प्रकरणे वारं वारम् एकं कार्यं भवति | यत्‌ पदं दत्तम्‌ एकस्मिन्‌ सूत्रे, तत्‌ पुनः अग्रिमे सूत्रे साक्षात्‌ न दीयते; पाठकैः अवगम्यते यत्‌ सः अर्थः पुनः आयाति तस्मिन्‌ सूत्रेऽपि | इयम्‌ अनुवृत्तिः इति वदामः | अत्र अयं विषय इतोऽपि विस्तारितः—

पाणिनिः सूत्रस्य लघुत्वम्‌ इच्छति | तदर्थं येषां सूत्राणां समानप्रकारक-कार्यं भवति, तानि सूत्राणि अष्टाध्याय्याम्‌ एकस्मिन्‌ स्थले सङ्गृहीतं भवन्ति | अनेन, एकस्मिन्‌ स्थले (इत्युक्ते एकस्मिन्‌ प्रकरणे) प्रथमे सूत्रे किञ्चन पदम्‌ अस्ति, तत् पदं द्वितीये सूत्रे अपि यद्यपि अपेक्षते, तथापि पुनः साक्षात्‌ न दीयते | अस्माभिः मनसि तत्‌ पदम्‌ आनेतव्यम्‌ | यथा रामः वदति “अहम्‌ आपणं गच्छामि” | श्यामः वदति “अहम्‌ अपि” | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत्‌ श्यामस्य आशयः “अहम्‌ अपि आपणं गच्छामि” इति | यद्यपि श्यामः केवलम्‌ “अहम्‌ अपि” इत्यवदत्‌, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम्‌ अर्थपूरणं पाणिनिः इच्छति सूत्रविषये | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अनुवृत्तयः इत्युच्यन्ते |

प्रकरणम्‌

अत्र प्रथमम्‌ उदाहरणम्‌ अस्माकं परिचितम्‌, इत्संज्ञाप्रकरणम्‌ | अस्मिन्‌, क्रमेण अष्ट सूत्राणि सन्ति, यस्मिन्‌ प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतनानाम्‌ अपेक्षा | अनेन प्रकटं भवति यत्‌ एषां अष्टानां सूत्राणाम्‌ अवगमने, मनसि दृढीकरणे च अष्टाध्याय्याः एव पठनेन सौकर्यं, यत्र क्रमेण सूत्रेण प्राप्यन्ते |

अत्र क्रमेण चत्वारि सूत्राणि धातुषु अपि, प्रत्ययेषु अपि—

१. उपदेशेऽजनुनासिक इत् (१.३.२) | सूत्रं स्वयं सम्पूर्णम्‌— उपदेशे अच्‌ अनुनासिकः इत् |

२. हलन्त्यम्‌ (१.३.३) | अनुवृत्ति-सहितसूत्रम्— उपदेशे अन्त्यम्‌ हल्‌ इत् | तत्र उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ ‘उपदेशे’, ‘इत्‌’ इत्यनयोः अनुवृत्तिः |

३. न विभक्तौ तुस्माः (१.३.४) | अनुवृत्ति-सहितसूत्रम्— उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः | तत्र उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ सूत्रात्‌ ‘उपदेशे’, ‘इत्‌’ इत्यनयोः अनुवृत्तिः; हलन्त्यम्‌ (१.३.३) इत्यस्मात्‌ अन्त्यम्‌ हल्‌ इत्यनयोः अनुवृत्तिः |

४. आदिर्ञिटुडवः (१.३.५) | अनुवृत्ति-सहितसूत्रम्— उपदेशे धातोः आदयः ञिटुडवः इतः | तत्र उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ सूत्रात्‌ ‘उपदेशे’, ‘इत्‌’ इत्यनयोः अनुवृत्तिः; भूवादयो धातवः (१.३.१) इत्यस्मात्‌ ‘धातोः’ इत्यस्य अनुवृत्तिः (वचनपरिणामं विभक्तिपरिणामं च कृत्वा) |

तदा अग्रे, क्रमेण त्रीणि सूत्राणि प्रत्ययेषु एव—

५. षः प्रत्ययस्य (१.३.६) | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदिः षः इत् | तत्र आदिर्ञिटुडवः (१.३.५) इत्यस्मात्‌ ‘आदिः’, उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ ‘उपदेशे’, ‘इत्‌’ |

६. चुटू (१.३.७) | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदी चुटू इतौ | तत्र षः प्रत्ययस्य (१.३.६) इत्यस्मात्‌ “प्रत्ययस्य”, आदिर्ञिटुडवः इत्यस्मात्‌ ‘आदिः’, उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ ‘उपदेशे’, ‘इत्‌’ |

७. लशक्वतद्धिते (१.३.८) | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते | तत्र षः प्रत्ययस्य (१.३.६) इत्यस्मात्‌ ‘प्रत्ययस्य’, आदिर्ञिटुडवः (१.३.५) इत्यस्मात्‌ ‘आदिः’, उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ ‘उपदेशे’, ‘इत्‌’ |

अन्ते इत्‌-लोप-विधिः—

८. तस्य लोपः (१.३.९) | अनुवृत्ति-सहितसूत्रम्— तस्य इतः लोपः | तत्र उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मात्‌ इत्‌ इत्यस्य अनुवृत्तिः |

किं सूत्रपर्यन्तं स्थूलाक्षराणाम्‌ अनुवृत्तिः

१. भूवादयो धातवः (१.३.१)                                                     ९३

२. उपदेशेऽजनुनासिक इत् (१.३.२)                                          ९

३. हलन्त्यम्‌ (१.३.३)                                                              ४

४. न विभक्तौ तुस्माः (१.३.४)

५. आदिर्ञिटुडवः (१.३.५)                                                       ८

६. षः प्रत्ययस्य (१.३.६)                                                         ८

७. चुटू (१.३.७)

८. लशक्वतद्धिते (१.३.८)

९. तस्य लोपः (१.३.९)

अत्र, सङ्क्षेपे प्रकरणस्य अन्यत्‌ उदाहरणद्वयं दीयते, येन प्रकरण-सम्बद्ध-अनुवृत्तिः स्पष्टतया दृश्येत |

द्वित्वप्रकरणम्‌ (६.१.१ – ६.१.१२)

अस्य प्रकरणस्य द्वादशसु सूत्रेषु एव, संपूर्णतया संस्कृतभाषायां, कुत्र कुत्र द्वित्वम्‌ अपेक्षते इति सूच्यते, अपि च यत्र कुत्रापि द्वित्वम्‌ अपेक्षते, तच्च द्वित्वं कथं क्रियते इत्यपि सूच्यते अत्र |

१. एकाचो द्वे प्रथमस्य (६.१.१) = अधिकारसूत्रं, द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | सूत्रं स्वयं सम्पूर्णम्‌ | जागृ → जा जागृ | पच्‌ → पच्‌ पच्‌ | इ → इ इ |

२. अजादेर्द्वितीयस्य (६.१.२) | अधिकारसूत्रं, द्वादशं सूत्रं (६.१.१२) पर्यन्तं सर्वत्र अनुवर्तते | सूत्रं स्वयं सम्पूर्णम्‌ | ऊर्णु → ऊर्णु नु |

३. न न्द्राः संयोगादयः (६.१.३) | अजादेः द्वितीयस्य न न्द्राः संयोगादयः द्वे | ऊर्णु → ऊर्णु नु | (उन्द्‌ + सन्‌ →) उ +न्दि + ष → उ +न्दि +दि + ष → उन्दिदिष |

४. पूर्वोऽभ्यासः (६.१.४) | पूर्वः अभ्यासः द्वयोः | संज्ञासूत्रम्‌ |

५. उभे अभ्यस्तम् (६.१.५) | उभे द्वे अभ्यस्तम् | संज्ञासूत्रम्‌ |

६. जक्षित्यादयः षट्‌ (६.१.६) | जक्षित्यादयः षट्‌ अभ्यस्तम्‌ | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन्‌ सप्त धातवः सन्ति— जक्ष्‌, जागृ, दरिद्रा, चकास्‌, शास्‌, दीधीङ्‌, वेवीङ्‌ च | तेषां द्वित्वाभावेऽपि अभ्यस्त-संज्ञा |

७. तुजादीनां दीर्घोऽभ्यासस्य (६.१.७) | सूत्रं स्वयं सम्पूर्णम्‌ | तुज्‌ इव धातूनाम्‌ अभ्यासस्य स्वरः दीर्घः | वेदे एव | तुज्‌ + कानच्‌ → लिटः कानज्वा (३.२.६) इत्यनेन वेदे लिटः स्थाने कानच्‌ विकल्पेन → तूतुजानः (ऋग्वेदे १.३.६)

८. लिटि धातोरनभ्यासस्य (६.१.८) | लिटि धातोः अनभ्यासस्य, एकाचो द्वे प्रथमस्य, अजादेः द्वितीयस्य | वच्‌ → वच्‌ वच्‌ (→ उवाच) |

९. सन्यङोः (६.१.९) | सन्यङोः धातोः अनभ्यासस्य, एकाचो द्वे प्रथमस्य, अजादेः द्वितीयस्य | सनि पठ्‌ → पठ्‌ पठ्‌ (→ → पिपठिषति) |

१०. श्लौ (६.१.१०) | श्लौ धातोः द्वे | धातोः इत्यस्य अनुवृत्तिः भवति लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ सूत्रात्‌ | एकाचो द्वे प्रथमस्य, अजादेर्द्वितीयस्य इत्यनयोः अधिकारः अत्रापि, किन्तु जुहोत्यादिगणे अनेकाच्‌ धातुः एकः अपि नास्ति | दा → दादा (→ ददाति) |

११. चङि (६.१.११) | चङि धातोः अनभ्यासस्य, एकाचो द्वे प्रथमस्य, अजादेः द्वितीयस्य | लुङ्‌-लकारे कम्‌ → कम्‌ कम्‌ (→ → अचकमत) |

१२. दाश्वान्साह्वान्मीढ्वांश्च (६.१.१२) | द्वित्व-निषेधक-सूत्रम्‌ | छन्दसि, क्वसुश्च (३.२.१०७) इत्यनेन लिटः स्थाने विकल्पेन क्वसु इति प्रत्ययः भवति | तत्र त्रिषु धातुषु द्वित्वं निषिद्धं— दाशृ + क्वसु → दाश्वान्‌, सह्‌ + क्वसु → साह्वान्‌, मिष्ठ्‌ + क्वसु → मीढ्वान्‌ च एतेषां द्वित्वं न भवति |

णत्वप्रकरणम्‌ (८.४.१ - ८.४.३९)

१. रषाभ्यां नो णः समानपदे (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः | पूर्णम्‌; तिसृणाम्‌ |

२. अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२) = अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌ इत्येतैः यथासम्भवं मिलितैः व्यवधानेऽपि नस्य णः स्यात्‌ समानपदे | अनुवृत्ति-सहितसूत्रम्— अट्कुप्वाङ्‌नुम्व्यवायेऽपि रषाभ्यां नो णः समानपदे | करणम्‌; मार्गेण |

३. प्रातिपदिकान्तनुम्‌विभक्तिषु च (८.४.११) = समास-प्रसङ्गे पूर्वपदस्य निमित्तात्‌ परस्य एषु स्थितस्य नस्य णो वा स्यात्‌ | अनुवृत्ति-सहितसूत्रम्— पूर्वपदात्‌ रषाभ्यां अट्कुप्वाङ्‌नुम्व्यवायेऽपि नो णः प्रातिपदिकान्तनुम्‌विभक्तिषु वा | व्रीहिवापिणौ / व्रीहिवापिनौ |

तर्हि आहत्य, पाणिनेः प्रकरण-रीत्या लेखनेन सूत्राणां लघुत्वं सिद्धम् अपि च तेषाम्‌ आयोजनम्‌ अतिस्पष्टम्‌ | अस्माकं कृते प्रकरणाधारिणा अभ्यासेन सूत्र-नैपुण्यं जायते अपि च सामग्री कुत्र स्थिता इति ज्ञायते | अष्टाध्यायी-क्रमस्य पठनेन अनेके महान्तो लाभाः |

प्रक्रिया-ग्रन्थेषु सूत्राणि इतस्ततः स्वीकृत्य पदनिर्माणं भवति | अनेन कारणेन सूत्रक्रमः भग्नो भवति | अनुवृत्तिः नैव प्रकटा | सूत्राणां बोधार्थं महान्‌ सङ्घर्षः |

सारांशे पाणिनये स्वयं प्रकरणरीतिः रोचते खलु, तदा एव अयं मार्गः तेन स्वीकृतः | तस्य मार्गचयनस्य किञ्चन कारणं स्यात्‌ ! तर्हि पाणिनेः पद्धतेः लाभम्‌ आस्वादयाम |

B. अष्टाध्याय्याः मानचित्रम्‌

अधः अष्टाध्याय्याः मानचित्रं किमिति अवलोकयाम |

अष्टाध्याय्याम्‌ अष्टौ अध्यायाः सन्ति; प्रत्येकस्मिन्‌ अध्याये चत्वारः पादाः | पादेषु सूत्राणि क्रमेण भवन्ति | प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्या | सङ्ख्यायां भागत्रयम्— प्रथमा सङ्ख्या अध्यायस्य, द्वितीया सङ्ख्या पादस्य, तृतीया सङ्ख्या सूत्रस्य | यथा इको यणचि (६.१.७६); इदं सूत्रं षष्ठे अध्याये, तत्र प्रथमे पादे, सूत्रसङ्ख्या ७६ |

एकैकस्मिन्‌ अध्याये के के मुख्यविषयाः अन्तर्गताः इति यदा जानीमः, तदा कस्यचित्‌ सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं स्यात्‌ इति अनुमानं कर्तुं अर्हामः | अधः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः | सर्वं ज्ञात्वा नोक्तम्‌; किञ्च अधः यत्‌ दत्तं बुद्धं चेत्‌, मनसि अष्टाध्याय्याः एका दृष्टिः सिद्धा भविष्यति |

प्रथमः अध्यायः =

संज्ञासूत्राणि, परिभाषासूत्राणि च |

द्वितीयः अध्यायः =

१. समासाधिकारः— सर्वे समासाः विहिताः (अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः) |

२. विभक्तीनां विधानम्‌— क्रमेण द्वितीया, चतुर्थी, तृतीया, पञ्चमी, सप्तमी, प्रथमा, षष्ठी इति विभक्तयः |

तृतीयः चतुर्थः पञ्चमः च अध्यायाः प्रत्ययाध्यायाः इत्युच्यन्ते | अत्र धातुभ्यः प्रातिपदिकेभ्यश्च सर्वे प्रत्ययाः विहिताः भवन्ति |

तृतीयः अध्यायः =

धातुभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः

१. सनादयः प्रत्ययाः

२. विकरण-प्रत्ययाः

३. कृत्‌-प्रत्ययाः [भूतार्थे, वर्तमानार्थे, भविष्यतार्थे च]

४. लकार-प्रत्ययाः [भूतार्थे, वर्तमानार्थे, भविष्यतार्थे च]

५. कर्मणि भावे च कृत्‌-प्रत्ययाः, लकार-प्रत्ययाः

६. स्त्रियां कृत्‌-प्रत्ययाः

चतुर्थः अध्यायः =

प्रातिपदिकेभ्यः ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः

स्त्रियां ये प्रत्ययाः

तद्धिताधिकारः

पञ्चमः अध्यायः =

१. तद्धितप्रत्ययाः

विभक्तिसंज्ञकाः प्रत्ययाः

अव्ययसंज्ञकाः प्रत्ययाः

२. समासान्ताधिकारः | उत्तरपदस्य प्रत्ययाः | दीर्घः पन्थाः → दीर्घपथः | सर्वा रात्रिः → सर्वरात्रः |

षष्ठाध्यायः =

१. द्वित्वप्रकरणम्‌ | दा → दादा → → ददाति

२. सम्प्रसारणम्‌

३. सन्धिः - संहिताधिकारः | अत्र स्वरसन्धि-विधायकसूत्राणि सन्ति | (यण्‌सन्धिः, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः)

४. चतुर्थः पादः - अङ्गाधिकारः ६.४.१ - ७.४.९७ [अङ्गं किम्‌ इति न ज्ञायते चेत्‌, इदं करपत्रं पठ्यताम्‌ | अङ्गकार्यं कीदृशम्‌ इत्यस्य कृते अग्रे अस्मिन् करपत्रे विषयः इतोऽपि विस्तारितः |]

सप्तमाध्यायः =

अङ्गकार्यम्‌

१. अङ्गात्‌ परस्य प्रत्ययादेशः

२. इडागम-प्रकरणम्‌ | यथा “खादितवान्‌" इत्यस्मिन्‌ खाद्‌-धातुः + इ [इडागमः] + क्तवतु |

३. सार्वधातुकप्रत्यये परे अङ्गकार्यम्‌ | सार्वधातुकार्धधातुकयोः (७.३.८४), पुगन्तलघूपधस्य च (७.३.८६)

४. वृद्धि-प्रकरणम्‌ (ञ्णिति, किति, तद्धितेषु)

५. अभ्यासकार्य-प्रकरणम्‌ (यत्‌ कार्यं भवति द्वित्वानन्तरम्‌) | यथा—दा → दादा → ददा → ददाति

अष्टमाध्यायः

१. पदस्य इत्यधिकारः ८.१.१६ – ८.३.५५

२. पूर्वत्रासिद्धत्वाधिकारः

३. हल्‌-सन्धिः

४. विसर्ग-सन्धिः

५. णत्वप्रकरणम्‌ | फलम्‌ → फलानि किन्तु पुष्पम्‌ → पुष्पाणि |

मातुः अष्टाध्यायीसूत्रपाठ-पुस्तकस्य पृष्ठसङ्ख्याः ११ – २८, प्रत्येकम् अध्यायस्य पादस्य च सारांशः इतोऽपि विस्तारेण उक्तः |

C. अधिकारसूत्राणि

केषाञ्चित्‌ मुख्य-अधिकारसूत्राणां कार्यक्षेत्रं जानीमश्चेत्‌, सर्वाष्टाध्यायी-आकृतिः सौकर्येणे मनसि तिष्ठति | अधिकारसूत्रम्‌ इत्युक्तौ तादृशं सूत्रं यस्य पूर्ण-रूपेण अनुवृत्तिः भवति बहुषु सूत्रेषु | अधः कानिचन प्रमुखाधिकारसूत्राणि दत्तानि; तेषां कार्यक्षेत्रम्‌ अपि सूचितम्‌, नाम कस्मात्‌ सूत्रात्‌ आरभ्य किं सूत्र-पर्यन्तं तस्य प्रभावः |

१. प्रत्ययः (३.१.१) = [अधिकारः ३.१.१ - ५.४.१६०] तृतीयः चतुर्थः पञ्चमः इत्येषु त्रिषु अध्यायेषु यत्र यत्र कस्यचित्‌ विधानं भवति, तत्र तत्र प्रत्ययः आगत्य वदति यत्‌ यस्य विधानं सञ्जातं, तस्य प्रत्यय-संज्ञा भवति | एषु त्रिषु अध्यायेषु विधिसूत्रं यत्र यत्र भवति, तत्र सर्वत्र अस्य सूत्रस्य अधिकारः |

३.१.१ – ५.४.१६० इत्येषु यत्र यत्र विधानम्‌ अस्ति, तत्र तत्र प्रत्येकं सूत्रस्य अर्थे एवम्‌ अन्वयः यत्‌ यत्‌ विहितं, तस्य प्रत्यय-संज्ञा भवति | यथा वर्तमाने लट्‌ (३.२.१२३); अस्मिन्‌ सूत्रे प्रत्ययः इति सूत्रम्‌ उपविश्य वदति यत्‌ लट्‌ विहितः अस्ति अतः तस्य प्रत्यय-संज्ञा भवति |

२. परश्च (३.१.२) = [अधिकारः ३.१.१ - ५.४.१६०] एषु एव त्रिषु अध्यायेषु यत्र यत्र प्रत्ययः इत्यनेन प्रत्यय-संज्ञा भवति, तत्र तत्र परश्च इति सूत्रम्‌ अपि उपविश्य वदति यत्‌ अयं प्रत्ययः प्रकृतेः अनन्तरम्‌ आयाति |

यथा वर्तमाने लट्‌ (३.२.१२३) = वर्तमानार्थे धातुतः लट्‌ भवति [अग्रिमाधिकारसूत्रं धातोः], अपि च लटः प्रत्यय-संज्ञा भवति प्रत्ययः इत्यनेन | धातोः परे एव आयाति परश्च इत्यनेन | अनुवृत्ति-सहित-सूत्रम्— धातोः वर्तमाने लट्‌ प्रत्ययः परश्च | -- यदि लटः प्रत्यय-संज्ञा नाभविष्यत्‌, तर्हि परश्च नागमिष्यत्‌ | तस्यां दशायां लट्‌ तु आद्यन्तौ टकितौ (१.१.४६) इत्यनेन धातोः प्राक्‌ अभविष्यत्‌ | भू‌ + लट्‌ इति न, अपि तु लट्‌ + भू अभविष्यत्‌ !

३. धातोः (३.१.९१) = [अधिकारः ३.१.९१ – ३.४.११७] तृतीये अध्याये कृदन्तानां तिङन्तानां च विधायकसूत्राणि भवन्ति | अस्मिन्‌ तृतीये अध्याये धातोः सर्वत्र आगत्य वदति यत्‌ यः को‍पि प्रत्ययः विहितः, सः धातोः अनन्तरं विहितः | [३.१.२२ – ३.१.९० अन्यत्‌ सूत्रं तदेव समानं कार्यं करोति धातो-रेकाचो-हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) |]

यथा निष्ठा’ (३.२.१०२) = निष्ठा एका संज्ञा अस्ति, क्त क्तवतु इत्यनयोः प्रत्यययोः कृते | सूत्रसङ्ख्यां पश्य— सूत्रसङ्ख्या-द्वारा बुद्धं यत्‌ अस्मिन्‌ सूत्रे प्रत्ययः, धातोः, परश्च इत्येषाम्‌ अधिकारः | तर्हि अनेन सूत्रेण क्त क्तवतु च भवतः, तयोश्च प्रत्यय-संज्ञा स्तः | अपि च परश्च इत्यनेन धातोः परं विहितौ | भूते (३.२.८४) इत्यस्यापि अधिकारः, अतः भूतार्थे भवति | अनुवृत्ति-सहित-सूत्रमेवम्‌— धातोः निष्ठा भूते प्रत्ययः परश्च | उदा० कृ + क्तवतु → कृतवत्‌; पुंसि कृतवान्‌ |

४. ङ्याप्प्रातिपदिकात्‌ (४.१.१) = [अधिकारः ४.१.१ – ५.४.१६०] चतुर्थे पञ्चमे चाध्याययोः यावन्तः प्रत्यायाः विहिताः, ते सर्वे प्रातिपदिकेभ्यः, ङ्यन्तेभ्यः, आबन्तेभ्यः वा आयान्ति | ङ्यन्तरूपाणि आबन्तरूपाणि च स्त्रीलिङ्गरूपाणि इति | तर्हि आहत्य चतुर्थे पञ्चमे चाध्याययोः सर्वे सुबन्तविधायकसूत्राणि सन्ति; तेषु सर्वेषु यत्‌ किमपि विहितं, प्रत्ययः इत्यनेन यः विहितः, तस्य नाम प्रत्ययः | अपि च यः विहितः, सः सर्वत्र प्रातिपदिकात्‌, ङ्यन्तात्‌, आबन्तात्‌ वा विहितः भवति |

५. संहितायाम्‌ (६.१.७१, ६.३.११४) = [अधिकारः ६.१.७१ – ६.१.१५६, अपि च ६.३.११४ – ६.३.१३९] अत्र स्वरसन्धि-विधायकसूत्राणि सन्ति— यथा यण्‌सन्धिः, गुणसन्धिः, वृद्धिसन्धिः, सवर्णदीर्घसन्धिः इत्यादयः | प्रत्येकस्मिन्‌ सन्धि-विधायकसूत्रे संहितायाम्‌ उपविश्य वदति यत्‌ तदा सन्धिः भवति यदा वर्णयोः अतिसामीप्यं वर्तते, नाम अव्यवहिता स्थितिः |

यथा गुणसन्धिः | विधायकसूत्रम्— आद्‌गुणः (६.१.८७) | अनुवृत्ति-सहित-सूत्रमेवम्‌— आत्‌ अचि पूर्वपरयोः एकः गुणः संहितायाम्‌ |

हल्‌-सन्धिः अष्टमाध्याये भवति | तत्रापि सन्धिः इत्यस्य कृते संहितायाम्‌ अपेक्षते एव | परञ्च अत्र संहितायाम्‌ षष्ठाध्यायस्य संहितायाम्‌ (६.१.७१, ६.३.११४) इति ना | अष्टमाध्याये एव अन्यत्‌ सूत्रं वर्तते तयोर्व्यावचि संहितायाम्‌ (८.२.१०८) | अस्मात्‌ सूत्रात्‌ संहितायाम्‌ इत्यस्य अधिकारः भवति ग्रन्थस्य अन्तपर्यन्तम्‌ |

६. अङ्गस्य (६.४.१) = [अधिकारः ६.४.१ - ७.४.९७] षष्ठाध्यायस्य चुतुर्थपादस्य आरम्भात्‌ सप्तमाध्यायस्य अन्तपर्यन्तं यत्‌ किमपि कार्यं विधीयते, तत्‌ कार्यम्‌ अनेन सूत्रेण अङ्गे एव भवति अतः अङ्गकार्यम्‌ इत्युच्यते | यदा प्रत्ययः विधीयते, तदा तस्मात्‌ प्रत्ययात्‌ पूर्वं यावत्‌ अस्ति, तत्‌ सर्वंम्‌ अङ्गम्‌ इति |

उदाहरणार्थं भू + अ + ति → भव + ति → भवति | “भवति” इत्यस्य निर्माणसमये, “ति” इत्यस्य दृष्ट्या अङ्गं “भव” इति | “ति” इत्यस्मात्‌ पूर्वं यावत्‌ अस्ति, तत्‌ सर्वं “ति” इत्यस्य कृते “अङ्गम्‌” | तर्हि अत्र अङ्गं नाम धातु-विकरणप्रत्यययोः संयुक्तरूपम्‌‌ | यथा वद्‌ + अ → वद, भू + अ → भव इत्यादीनि अङ्गानि | “भवति” इति उदाहरणे आरम्भे भू + अ (शप्‌) इति स्थितौ, “अ” (शप्‌) प्रत्ययस्य द्रुष्ट्या भू इति अङ्गम्‌ | भू पूर्वम्‌ अस्ति किल | शप्‌-प्रत्ययस्य प्रभावेन भू इत्यस्य अङ्गस्य गुणः भवति | भू + अ → भो + अ | इदं कार्यम्‌ शप्‌-विकरणप्रत्ययं निमित्तीकृत्य भू इति अङ्गे भवति अतः इदम्‌ अङ्गकार्यम्‌ | सूत्रम्‌ अस्ति सार्वधातुकार्धधातुकयोः (७.३.८४); अत्र अङ्गस्य इति सूत्रस्य अधिकारः | अनुवृत्ति-सहितं सूत्रमिदम्— सार्वधातुकार्धधातुकयोः गुणः अङ्गस्य | सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः वा परे अस्ति चेत्‌, अङ्गस्य गुणः भवति |

७. पदस्य (८.१.१६) = [अधिकारः ८.१.१६ – ८.३.५५] ८.१.१६ इत्यस्मात्‌ आरभ्य ८.३.५५ पर्यन्तम्‌ इदं सूत्रं एकैकस्मिन्‌ विधिसूत्रे उपविश्य सूत्रार्थं पूरयति | अत्र अलोऽन्त्यस्य इत्यनेन परिभाषासूत्रेण अस्य अर्थो भवति “पदान्तस्य” | अतः यत्‌ कार्यं विशेषतः पदान्ते भवति, तदस्य सूत्रस्य अधिकारे आयाति |

यथा रुत्वप्रकरणम्‌ (८.३.१ - ८.३.१२) | अस्मिन्‌ प्रकरणे वारं वारं रुत्वं (रु) विहितं भवति, सर्वत्र पदान्ते | तदा रु → स्थाने विसर्गः → स्थाने सकारः | रु → ः → स्‌ | अनेन सम्‌ + कृ‌ + घञ्‌ → सँस्कारः / संस्कारः | सम्‌ इति उपसर्गः; उपसर्गः स्वयं पदम्‌ | अतः सम्‌ इत्यस्य म्‌ → रु → ः → स्‌ | अस्मिन्‌ प्रकरणे रु इत्यस्मात्‌ पूर्वस्थितवर्णस्य विकल्पेन अनुनासिकादेशः / अपरस्मिन्‌ पक्षे अनुस्वारः आगमः | ँ / ं | तथैव कस्मिन्‌ + चित्‌ → कस्मिँश्चित्‌ / कस्मिंश्चित्‌ | कान्‌ + चित्‌ → काँश्चित्‌ / कांश्चित्‌

अस्य पाठस्य सारांशः अयं यत्‌ अस्माकं मनसि कानिचन मुख्याधिकार-सूत्राणि सन्ति चेत्‌, तर्हि अष्टाध्याय्यां कीदृशकार्यं कुत्र भवति इति सौकर्येण ज्ञास्यामः | अनेन मार्गेण शीघ्रमेव सर्वं संस्कृतव्याकरणं बुद्धि-ग्रहणे आगच्छति |

Swarup – June 2014 (updated May 2016)