०५९ अनुनि

क्रम्

  • {अनुनिक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘सप्त पदान्यनुनिक्रामति’ (श० ब्रा० ३।३।१।१)। सप्त पदान्यनुक्रमेण चलतीत्याह।
  • ‘स यो नो वाचं व्याहृतां मिथुनेन नानुनिक्रामात्’ (श० ब्रा० १।५।४।६)।

पद्

  • {अनुनिपद्}
  • पद् (पद गतौ)।
  • ‘सा पत्यावनुनिपद्यते’ (कौ० सू० ६०)। उपशेत इत्यर्थः। अनुशब्दः सामीप्ये।

वृत्

  • {अनुनिवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘रथन्तरस्य योनिमनुनिवर्तयति’ (ऐ० ब्रा० ५।१६)। नितरां वर्तनमनुष्ठानमनुनिवर्तनम्। इह निवर्तनं परित्यागो नेति सायणः।