परिभाषाः

अत्र पाणिनीयशास्त्रपरिभाषा ज्ञायन्ते।

इत्-संज्ञा

Footnote-marker इव। कस्मिंश्चिद् अपि शब्दे केचनवर्णा इत्संज्ञकाः।

तत्र सम्बद्धसूत्राणि -

  • विधायकानि
    • उपदेशेऽजनुनासिक इत्।
    • हलन्त्यम्। न विभक्तौ तुस्माः। ‘इर्’ इत्संज्ञा वाच्या।
    • आदिर् ञिटुडवः॥ षः प्रत्ययस्य ॥ चुँ-टूँ।
    • लशक्वतद्धिते।
  • लोपक्रिया
    • तस्य लोपः (१.३.९)॥ अदर्शणम् लोपः॥

माहेश्वर्सूत्रेष्व् अनुबन्धाः

  • शिवसूत्रेष्व् अनुबन्धान् पश्यत। णकारो द्विर् दृश्यते। कुतो न वर्णान्तरम् परयुक्तम् (सकारो वा नकारो वा)?
  • क ङ च ञ ट ण त न प म य र ल व श ष स ह इति वर्णेषु तपरकरणाय तकारो न प्रयोक्तुम् उचितः, न च हकारो विसर्गसदृशत्वात्। शिष्टम् प्रयुक्तम् एव।
  • तत्र विरामसहितोपदेशाद् वर्गीयव्यञ्जनेष्व् अननुनासिकेषु प्रथम एव वर्णो गृहीतो भाति भ्रमवारणार्थम्।
  • तनसवर्णाः कुतो न गृहीता इत्यत्र - 1.3.4 न विभक्तौ तुँस्माः (इत्) इति सूत्रेण तान् असम्भ्रमं विशेषप्रयोजनार्थं रक्षितुम् ऐच्छद् इति भाति।