०५६ अन्वव (अनु+अव)

अर्ज्

  • {अन्ववार्ज्}
  • अर्ज् (अर्ज षर्ज अर्जने)।
  • ‘तदेनं सावसमेवान्ववार्जति’ (श० ब्रा० २।६।२।१७)। दिग्विशेषं प्रति विसृजतीत्याह।
  • ‘तमशनापिपासाभ्यामन्ववार्जत्’ (ऐ० उ० १।२।१)। अन्ववार्जत्=अनुगमितवान्=संयोजितवान्।

  • {अन्ववे}
  • इ (इण् गतौ)।
  • ‘यानेवामूंस्त्रयान्पितृनन्ववागात्तेभ्य एवैतत् पुनरुपोदेति’ (श० ब्रा० २।६।१।१५)। पितृनन्ववागात्=पितृभिः सायुज्यमापदित्यर्थः।
  • ‘तथैषां नियानं नान्ववायन्’ (श० ब्रा० ३।५।३।१५)। अन्ववायन्=अन्वसरन्=अन्वगुः।
  • ‘नेत् पाप्मानं ऋतिमन्ववायाम’ (श० ब्रा० ७।२।१।१३)। अन्ववायाम-अभ्यश्नवामहै।
  • ‘पितृलोकं वा एतेऽन्ववयन्ति’ (श० ब्रा० १२।८। १।१८)। प्राप्नुवन्तीत्यर्थः।
  • ‘ततो वै देवा एतं तूष्णींशं समपश्यंस्तमेषामसुरा नान्ववायन्’ (ऐ० ब्रा० २।३१)। अन्ववायो ज्ञानमिति षड्गुरुशिष्यः।
  • ‘सोब्रवीदिन्द्रः कश्चाहं चेमानसुरान् रात्रीमन्ववैष्यामहा इति’ (गो० ब्रा० उ० ५।१)। विचेष्याम इत्यर्थः।
  • ‘नेत्पाप्मानं मृत्युमन्ववायानि’ (बृ० उ० १।३।१०)। प्राप्नवानीत्यर्थः।
  • ‘अन्ववायस्तु सुमहांस्तत्र तत्र विशांपते’ (हरि० १।११।७)। अन्ववायः=अन्वयः=कुलम्=सन्तानः।
  • ‘तस्यान्ववाये राजानः क्रमाद् येनाभिषेचिताः’ (रा० ६।१२८।६५)। अन्ववायः=अन्वयः=वंशः।
  • ‘सोऽब्रवीदिन्द्रः कश्चाहं चेमान् इतोऽसुरान् रात्रीमन्ववेष्याव इति’ (ऐ० ब्रा० ४।५)। अवेष्यावोऽपसारयिष्याव इति सायणः।
  • ‘चत्वार्येषामन्ववेतानि सद्भिः चत्वारि चैषामनुयान्ति सन्तः’ (भा० उ० ३५।५४)। अन्ववेतानि नित्यं सम्बद्धानि।

ईक्ष्

  • {अन्ववेक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘तस्यै स प्रददौ मन्त्रमापद्धर्मात्विवेक्षया’ (भा० आदि० १११।६)। आपद्धर्ममुद्दिश्येत्यर्थः।

क्रम्

  • {अन्ववक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘संज्ञानमेवान्ववक्रामति’ (श० ब्रा० १४।७।२।३)। क्रमेणाधिगच्छतीत्यर्थः।

चर्

  • {अन्ववचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘रक्षसामनन्ववचाराय न पुरस्तात् परिदधाति’ (तै० सं० ६।२।१।६)। अनन्ववचाराय अननुप्रवेशाय। परिदधाति परितो विदधाति।
  • ‘परिश्रिते याजयेद्रक्षसामनन्ववचाराय’ (तै० सं० २।२।२।३)। उक्तोऽर्थः।
  • ‘मनसैव तद्यज्ञं तनुते रक्षसामनन्ववचाराय’ (तै० सं० १।६।८।४)। उदितपूर्व एवार्थः।

रुध्

  • {अन्ववरुध्}
  • रुध् (रुधिर् आवरणे)।
  • ‘अन्ववारोधि गोर्गोप लकेन’ (न रुधः ३।१।६४ सूत्रे वृत्तिः)। गोष्ठेऽवरुद्ध इत्यर्थः।

सृज्

  • {अन्ववसृज्}
  • सृज् (सृज विसर्गे)।
  • ‘अन्ववसर्गो मार्दवमुरुता खस्येति नीचैः कराणि’ (तै० प्राति० २२।१०)। अन्ववसर्गो गात्राणां स्रंसनं शैथिल्यम्। अन्ववसर्गः संहारवचन आयामस्य प्रसारित्वार्थकस्य प्रतियोगी शब्दः।
  • ‘अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु’ (पा० १।४।९६) इति सूत्रेऽन्ववसर्गः कामचारानुज्ञामाह।

सो

  • {अन्ववसो}
  • सो (षो अन्तकर्मणि)।
  • ‘नात्यन्तमन्ववस्येत्’ (आप० ध० १।६।१८।७)। न तत्रैव नित्यं प्रसितः स्यादित्यर्थः।
  • ‘तृतीयार्थे’ (१।४।८५) इति सूत्रे नदीमन्ववसिता सेना, नद्या सम्बद्धेत्युदाहरतो वृत्तिकारस्य तु अन्ववपूर्वस्य षिञ एव बन्धनमर्थो मत इति भाति।
  • ‘यथा श्रेष्ठी स्वैरेवं वै तमात्मानमेत आत्मानोऽन्ववस्यन्ति यथा श्रेष्ठिनं स्वाः’ (कौ० ब्रा० उ० ४।२०)। भुञ्जत इत्यर्थः।
  • ‘नात्यन्तमन्ववस्येद् वृत्तिं प्राप्य विरमेत्’ (सत्या० श्रौ० २६।५।७७)। इदं पठितपूर्वं पुस्तके। अर्थान्तरन्यासायेहानूद्यते। न अन्ववस्येत् न निरन्तरमुद्युञ्जीत, नात्यन्तमात्मानं व्यापारयेदित्यर्थः।
  • ‘पश्चादन्ववसायिनीमेवास्मै विशं करोति’ (तै० स० २।१।३।१३)। अन्ववसायिनी, अनुगामिनी, एकमनाः।

स्था

  • {अन्ववस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘तथैनं पाप्मा नान्ववतिष्ठति’ (श० ब्रा० ५।४।३।२२)। न बाधते न विप्रकरोतीत्यर्थः।
  • ‘तं न सङ्ग्रहीतान्ववतिष्ठेत्’ (श० ब्रा० ५।४।३।२३)। तेन साकं नावतरेदित्यर्थः।