०७६ निरति (निर्+अति)

  • {निरती}
  • इ (इण् गतौ)।
  • ‘तद्भवान् वृत्तसम्पन्नः स्थितः पथि निरत्यये’ (रा० ४।२९।१२)। निरत्ययः पन्थाः=अप्रतिभयो मार्गः, निष्कण्टक इत्यर्थः।
  • ‘निरत्ययं साम न दानवर्जितम्’ (कि० १।१२)। निरत्ययं निर्बाधम्, अच्छलमित्यर्थः।
  • ‘शक्तिरर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययम्’ (कि० १३।६१)। अत्ययो व्यभिचारः, सोऽविद्यमानोऽस्येति निरत्ययम्। अपराधेप्यविकारीति तात्पर्यार्थः।