+०१ वाक्य-बोधः

परिचयः

  • पदार्थांशा वाक्यार्थांशाश् चात्र दृश्यन्ताम्।

अङ्गानि

  • वाक्यदोषनिवारणम् (अध्याहारः, अनुषङ्गः, विपरिणामः … )
  • पदच्छेदः
    • यथा - रामः पद्भ्यां ग्रामं गच्छति। पद-पदांशाः - रामः, पादौ + तृतीया, ग्रामः + द्वितीया, गम् + ति।
  • पदार्थोक्तिः।
  • पदानाम् अर्थक्रमस्य प्राप्तिः।
  • अन्वयः
  • आक्षेपः
  • समाधानम्
  • उद्देश-विधेय-निश्चयः

पदार्थबोधः

आख्यातः / तिङ्-प्रत्ययः

  • तिङि धर्मद्वयम् -

  • सामान्यधर्मः - आख्यातत्वम्

  • विशेषधर्मः - लकारः, पुरुषः, वचनम्।

  • “रामो ग्रामं गच्छति” इत्यस्मिन् तिप् एतान् अर्थान् सूचयति -

    • शक्यार्थाः - वर्तमानत्वम् (लकारात्), एकत्वम्।
      • आर्थीभावना/ कृतिः/ प्रयत्नः - आख्यातत्वात्।
    • लक्ष्यार्थः - कर्ता।
  • “राम, गच्छ” इत्यस्मिन् सिप् एतान् अर्थान् सूचयति -

    • शक्यार्थाः - एकत्वम्।
      • आर्थीभावना/ कृतिः/ प्रयत्नः।
      • शाब्दीभावना/ विधिः - लोट्त्वात्।
    • लक्ष्यार्थः - कर्ता।

सर्वनाम-शब्द-व्याख्यानम्।

  • पूर्वस्थपरामर्शिनः - “रामो बली। स धीरः।"।
  • बुद्धिस्थपरामर्शिनः - धूमपानस्थाने - “तदस्ति वा?"।

पदक्रमः

  • पाठक्रमः इति भिन्नः, अर्थक्रम इति भिन्नः कदाचित्। विशिष्य षष्ठीविभक्तौ, उद्देश्य-विधेय-भावे च क्रमो ऽवधेयः।

न्यायभाषया

शब्दबोधो नाम प्रस्तुतार्थस्य प्रकृति-प्रत्यय-विवेकेन निरूपणम् (= proof) इवास्ति।

  • “रामः वनं गतवान् अस्ति।” = “रामकर्तृक-वनकर्मक-भूतकालविशिष्ट-गमनव्यापारानन्तरवर्ति-भवनानुकूलव्यापारः।”
  • “गन्धवती पृथिवी।”
    • गन्धवती = गन्धः अस्याम् अस्ति। यथा ऽत्र “पृथिव्याम् गन्धो ऽस्ति” इतीष्टस्यार्थस्य निरूपणं विग्रहवाक्यसहित-प्रकृति-प्रत्ययादिविवेकेन दर्शितः। तदभिव्यक्तिः वचोभिः - “पृथिवी-निष्ठा-ऽधिकरणता-निरूपित+आधेयता-ऽऽश्रयो गन्धः।”
adhikaraNatA-niShThAdheyatAshrayaH
adhikaraNatA-niShThAdheyatAshrayaH
  • तले पुस्तकम्।
    • तलनिष्ठाधिकरणतानिरूपकाधेयताश्रयः पुस्तकम्।
    • तलस्याधिकरणतानिष्ठत्वम् तल-ङि-प्रत्यययोर् अनन्तरत्वात् ज्ञेयम्।
    • पुस्तक-ङि-प्रत्यययोस् सामीप्यात् पुस्तकस्याधेयता ज्ञेया।