१०१ व्यति (वि+अति)

अस्

  • {व्यत्यस्}
  • अस् (असु क्षेपे)।
  • ‘न च व्यत्यसनीयानि’ (वस्त्राणि निर्णेजकेन) (याज्ञ० २।२३८ इत्यत्र मिताक्षरा)। न व्यत्यासं विपर्ययं नेतव्यानीत्याह। वाससामन्यदीयानां परकीयैर्वासोभिर्निर्हरणमिह वस्त्रव्यत्यास उक्तः। न च वासांसि वासोभिर्निहरेदिति मनुवचनम् (८।३९६)। अन्यदीयवाससामन्यस्मै परिधानार्थं दानमपि निर्हरणं भवति।
  • ‘व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः’ (मनु० २।७२)। व्यत्यस्तपाणिनेति शिष्यविशेषणम्। अपसव्यस्योपरि सव्यं निधाय हस्तं गुरुपादौ गृह्णीयादित्याह। उवथ्यभारद्वजौ व्यत्यस्य भार्ये जग्मतुरित्यापस्तम्बधर्मसूत्रे २।१३।६ उज्ज्वलायां हरदत्तः। व्यत्यस्य विपर्ययं कृत्वा। उचथ्यस्य भार्यां भारद्वाजो जगाम, उचथ्यश्च भारद्वाजस्येति विपर्ययो व्यत्यासः।
  • ‘माता व्यत्यस्य देवेन दुहित्रे स्वं चरु ददौ’ (हरि० १।२७।२५)। व्यत्यस्य विपर्यस्य विपरीतं विभज्य, परिवर्त्येत्यर्थः।

इण्

  • {व्यती}
  • इण् (इण् गतौ)।
  • ‘यं यं व्यतीयाय पतिंवरा सा’ (रघु० ६।६७)। व्यतीयाय=अतिक्रम्याग्रतोऽगच्छत्।
  • ‘नृपं तं… सा व्यत्यगादन्यवधूर्भवित्री। महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव’ (रघु० ६।५२)। व्यत्यगात् अतीत्य गता।
  • ‘पञ्चैव वर्षाणि तथा व्यतीयुरधीपतां जपतां जुह्वतां च’ (भा० वन० ५०१२)।
  • ‘रेखामात्रमपिक्षुण्णादा मनोर्वत्मनः परम्। न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः’ (रघु० १।१७)॥ रेखामात्रमपि परं नातिक्रान्तवत्य इत्याह।
  • ‘अस्य वर्षस्य शेषं चेद् व्यतीयुरिह पाण्डवाः’ (भा० वि० २६।४)। व्यतीयुर्गमयेयुः क्षपयेयुः।
  • ‘यो व्यतीयाद् युधि श्रेष्ठमपि चक्रधरं स्वयम्’ (भा० आदि० १६२।१७)। व्यतीयात् लङ्घयेत्, अभिभवेत्, विजयेत।
  • ‘ततो रथाभ्यां रथिनौ व्यतीयतुरमर्षणौ’ (भा० वि० ३२।२६) व्यतीयतुः=अवतेरतुः।
  • ‘व्यतीतस्य ते धर्मात्’ (रा० ४।१७।३२)। व्यतीतस्य विचलितस्य प्रच्युतस्य भ्रष्टस्य।
  • ‘व्यतियतामपि तद्वः’ (नै० ५।१३)। व्यतियतामतिक्रामतामुपेक्षमाणानां परिहरताम्।
  • ‘व्यतीत्य न हि शीतांशुं चन्द्रिका स्थातुमर्हति’ (अवदा० विश्वन्तर० ९९)। व्यतीत्य, अतिक्रम्य, अतिहाय, विरहय्य।
  • ‘दैवयोगात् क्षणे तस्मिन्नूर्मिकाव्यत्ययोऽभवत्’ (राज० ७।८०३)। व्यत्ययो व्यत्यासः। दित्सितेऽङगुलीयके दातव्येऽदित्सितमदीयतेत्यर्थः।

कॄ

  • {व्यतिकॄ}
  • कॄ (कॄ विक्षेपे)।
  • ‘महान्व्यतिकरो रौद्रो योधानामन्वपद्यत’ (भा० कर्ण० २४।७४)। व्यतिकरः समागमः।
  • ‘तीर्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वोः’ (रघु० ८।९५)। तोयव्यतिकरोऽपां संमिश्रणम्।
  • ‘रुद्रणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा’ (माल० १।४)। व्यतिकरः सम्पर्कः।
  • ‘चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत्’ (भा० शां० २८७।३७)। व्यतिकरः संकरः।
  • ‘यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः। व्यतिकीर्णाः प्रदृश्यन्ते तथा सूता महीतले’ (भा० वि० २४।२)॥ व्यतिकीर्णा विकीर्णा विक्षिप्ताः।

क्रम्

  • {व्यतिक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम्’ (रा० २।१४।२९)। व्यतिचक्राम=अतीत्य जगाम। अतिपूर्वः क्रमिर्यमर्थमाह तमेव व्यतिपूर्वः। शब्दोपजनो नार्थोपजनः। तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव। विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमुः ॥ व्यतीयुरित्यर्थः। इहाकर्म्मको व्यतिक्रमिः।
  • ‘पुराणि च व्यतिक्रामन् राष्ट्राणि विविधानि च’ (भा० उ० ८४।१६)। व्यतिक्रामन् अतिलङ्घमानः।
  • ‘व्यतिक्रमं न वेत्स्यामि’ (रा० २।२७।२१)। व्यतिक्रमोऽत्ययः। (वर्षशतस्य वर्षसहस्रस्य वा)।
  • ‘स्वरव्यञ्जनव्यतिक्रमे तत्कालप्रसङ्गः’ (स्थानेन्तरतमः १।१।५० इत्यत्र वार्त्तिकम्)। व्यतिक्रमः परिवृत्तिः।
  • ‘को रामस्य व्यतिक्रमः’ (रा० ३।३९।२४)। व्यतिक्रमो दोषः।
  • ‘एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः। तमापन्नः कथं शोचेद् यस्य नास्ति व्यतिक्रमः’ (रा० २।१०५।२९)॥ व्यतिक्रमः=लङ्घनं परिहारः।
  • ‘गुणान्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः’ (गो० स्मृ० २।६८)। व्यतिक्रमोऽतिक्रमदोषः।

क्षिप्

  • {व्यतिक्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘आय नार्ययोर्व्यतिक्षेपे कर्मणः साम्यम्’ (गौ० ध० २।१।६९)। व्यतिक्षेपो व्यत्यासः, कर्मव्यतिहारः।

गम्

  • {व्यतिगम्}
  • गम् (गम्लृ गतौ)।
  • ‘कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव’ (भा० वन० ११९३७)। व्यतिगतोऽतिक्रा तोऽतीतः।

तन्

  • {व्यतितन्}
  • तन् (तनु विस्तारे)।
  • ‘वियति व्यत्यतन्वातां मूर्ती हरिपयोनिधी’ (भट्टि० ८।३)। व्यतिविस्तारितवन्तौ। स्पर्धयेति गम्यते। अत्र यथाकथंचित्कर्मव्यतिहारो व्याख्येयः।

तॄ

  • {व्यतितॄ}
  • तॄ (तॄ प्लवनतरणयोः)।
  • ‘यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति’ (गीता २।५२)। उत्तरिष्यतीत्यर्थः।

पठ्

  • {व्यतिपठ्}
  • पठ् (पठ व्यक्तायां वाचि)।
  • ‘कर्तरि कर्मव्यतिहारे’ (१।३।१५) इत्यत्र प्रतिषेधे हसादीनामिति वार्त्तिकोदाहरणे व्यतिपठन्तीति वृत्तौ स्थितम्। तत्र परस्परं पठन्तीत्यर्थः।

पत्

  • {व्यतिपत्}
  • पत् (पत्लृ गतौ)।
  • ‘व्यतीपातादिसर्वदोषाभिषङ्गरहितेऽहनि’ (हर्ष० चतुर्थ उच्छ्वासे)। गगने हिमकरार्कौ युगपत्स्यातां यदैकमार्गस्थौ। भगणार्धेऽर्कश्च यदा शशी स भवेद् व्यतीपातः॥ इति लाटाचार्य इति तत्र शङ्करमिश्रोपस्कारः।
  • ‘व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः’ (याज्ञ० १।२१८)। व्यतीपातो विष्कम्भादिसप्तविंशतियोगान्तर्गतसप्तदशो योग इति मिताक्षरा।

भू

  • {व्यतिभू}
  • भू (भू सत्तायाम्)।
  • ‘व्यतिभवतेऽर्कमिन्दुः’ (बोपदेवः)। सूर्येण स्पर्धते चन्द्रः, तमभिभवितुमीहत इत्यर्थः।

या

  • {व्यतिया}
  • या (या प्रापणे, प्रापणमिह गतिः)।
  • ‘वि वारमव्यं समयाति याति’ (ऋ० ९।९७।५६)। व्यतियाति=अतिविध्यति।
  • ‘दिवसाः सुभगाः पुण्यास्त्वरिता व्यतियान्ति नः’ (रा० ३।२२।१०)। अतिक्रामन्तीत्याह।

यु

  • {व्यतियु}
  • यु (यु मिश्रणामिश्रणयोः)।
  • ‘अन्योन्यं स्म व्यतियुतः शब्दाशब्दैस्तु भीषणान्’ (भट्टि० ८।६)। व्यतियुतः=मिश्रयतः। अन्योन्यम् अन्योऽन्यस्य।

रिच्

  • {व्यतिरिच्}
  • रिच् (रिचिर् विरेचने)।
  • ‘ससस्यानां च सीमानां न लक्ष्मीर्व्यतिरिच्यते’ (हरि० २।१०।२८)। न व्यतिरिच्यते (अन्योऽन्यस्य) नातिशेते।
  • ‘स्तुतिभ्यो ब्यतिरिच्यन्ते दूरेण चरितानि ते’ (रघु० १०।३१)। सुदूरमतिक्रामन्ति। निःशेषेण स्तोतुं न शक्यन्त इत्यर्थः। न मत्तो व्यतिरिच्यते। न मद् भिद्यत इत्यर्थः।
  • ‘कृत्स्नं विकारजातं सत्त्वरजस्तमांसि न व्यतिरिच्यन्ते’ (सुश्रुत० १।९०।६)। विकारजातात्पृथग्भूत्वा न वर्तन्ते, किन्तर्हि सहैव वर्तन्त इत्याह।
  • ‘अत्र द्वितीयार्धव्यतिरेकेण द्वितीयपादस्यैवार्थ इति पुनरुक्तता’ (सा० द० ७।११-१२ इत्यत्रोदाहरणम्)। व्यतिरेको वैपरीत्यम्।

वृत्

  • {व्यतिवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘सा रात्रिर्व्यत्यवर्तत’ (भा० ३।१६७२२)। अत्यक्रामत् अत्यैत्।

सञ्ज्

  • {व्यतिसञ्ज्}
  • सञ्ज् (षञ्ज सङगे)।
  • ‘व्यतिषजति पदार्थानान्तर: कोपि हेतुः’ (उत्तर० ६।१२)। व्यतिषजति सम्बध्नाति, संयुनक्ति।
  • ‘इमांश्च तल्लोकानेताश्च देवता। व्यतिषजति’ (श० ब्रा० ६।३।३।१६)। उक्तोऽर्थः।
  • ‘व्यतिषजेद्याज्यानुवाक्याः’ (ऐ० ब्रा० १।११)। व्यतिषङ्गो व्यत्यासः। याः प्रायणीयस्य पुरोऽनुवाक्यास्ता उदयनीयस्य याज्याः कुर्यात् इति मूल एद व्यतिषङ्गस्वरूपमुक्तम्। तेषां काष्ठमयं पाशकं पादे व्यतिषज्यते तदुच्यते शृङ्खलमिति शृङ्खलमस्य बन्धनं करभे ५।२।७९ सूत्रे वृत्तौ। व्यतिषज्यते बध्यते।
  • ‘व्यतिषक्त इव पुरुषः पाप्मना’ (ऐ० ब्रा० ४।४)। व्यतिषक्तः संयुतः संयुक्तः संहितः।
  • ‘व्यतिषक्ताभ्यां (मन्त्राभ्यां) जुहोति’ (श० ब्रा० ६।३।३।१६)। संमिश्रिताभ्यां सहोच्चारिताभ्यामविच्छेदेनोदाहृताभ्याम्। सर्व एते स्मार्ता वौदिकैर्व्यतिषक्ताः। परस्परं सम्बद्धा इत्यर्थः।
  • ‘नदं व ओदतीनामित्येतयैतानि व्यतिषजति’ (ऐ० आ० ५।१।६। व्यतिषजति मिश्रयति।
  • ‘सोमग्रहांश्च सुराग्रहांश्च व्यतिषजति’ (तै० ब्रा० १।३।३)। व्यतिषजति सोमग्रहैः सुराग्रहान् गृह्णाति। पूर्वोऽध्वर्युर्गृह्णाति।
  • ‘जघन्यः प्रतिप्रस्थाता’ (आप० श्रौ० १८।२।७८)। अत्र सायणः–अध्वर्युणा प्रथमं सोमग्रहे गृहीते, प्रतिप्रस्थाता प्रथमं सुराग्रहं गृह्णीयात्। ततो द्वितीयो द्वितीयम्। सोऽयं व्यतिषङ्गः।
  • ‘यदि कामयेत प्रजा मुह्येयुरिति पशून् व्यतिषजेत्’ (तै० सं० ६।६।५)। विपर्यस्तस्थानान् कुर्यात्, क्रमसाङ्कर्येण स्थापयेत्।
  • ‘प्राणापानौ व्यतिषक्तौ प्रजा अनुसंचरतः’ (जै० ब्रा० १।१०२)। व्यतिषक्तौ परस्परसम्बद्धौ।
  • ‘नाऽवश्यं बध्नातिर्व्यतिषङ्ग एव वर्तते’ (पा० २।१।१ सूत्रे भाष्ये)। व्यतिषङ्गो रज्ज्वादिनिमित्तः सश्लेषः।

सिच्

  • {व्यतिसिच्}
  • सिच् (षिच क्षरणे)।
  • ‘पश्य भूतानि दुःखेन व्यतिषिक्तानि सर्वशः’ (भा० शां० १७४।१३)। व्यतिषिक्तानि अभिषिक्तानि अभिवृष्टानि। व्याप्तानीत्यार्थिकोऽर्थः।

हन्

  • {व्यतिहन्}
  • हन् (हन हिंसागत्योः)।
  • ‘व्यतिघ्नन्ति राजानः’ (कर्तरि कर्मव्यतिहारे १।३।१४ इत्यस्य प्रतिषेधके न गतिहिंसार्थेभ्यः १।३।१५ इत्यत्रोदाहृतं वृत्तौ)। परस्परं घ्नन्तीत्यर्थः।

हृ

  • {व्यतिहृ}
  • हृ (हृञ् हरणे)।
  • ‘हिरण्यं व्यतिहरतः’ (लौ० गृ० १६।२)। परस्परं दत्तः। अपि वा कन्यामूल्यभूतं स्वर्णं निश्चिनुत इत्यर्थ इति देवपालः।
  • ‘पयस्याप्रचरणकाले मेषौ व्यतिहरतः’ (आप० श्रौ० ८।६।१६)। इह व्यतिहारोऽन्योन्यं वैपरीत्येन स्थापनम्। पूर्वं मारुत्यां विहितं मेषं वारुण्यां पयस्यायां स्थापयेदध्वर्युः, प्रतिप्रस्थाता तु वारुण्यां विहितं मारुत्यां स्थापयेदित्येष व्यतिहारः।
  • ‘अत्र मेषप्रतिकृती व्यतिहरतः’ (आप० श्रौ० ८।२।६।१६)। व्यतिहरतो विनिमयेन हरतः। पर्युक्षणान्तान् व्यतिहरन्। प्रतिलोमीकुर्वन्। अभ्यन्तरतः कुर्वन्नित्यर्थः।
  • ‘हुत्वा दश बलीन्हरेत् प्रदक्षिणं प्रतिदिशमवान्तरदेशेष्वानुपूर्व्येणाति व्यतिहरन्’ (गो० गृ० ४।७।२५)।
  • ‘विक्रमव्यतिहारेण’ (रघु० १२।९३)। व्यतिहारः पर्यायक्रमः। यत्रैकोऽन्यस्य योग्यां क्रियां करोति सोपि कर्मव्यतिहारो भवतीति (पा० १।३।१४ सूत्रे काशिका)।