१६४ अभ्याङ् (अभि+आ)

अज्

  • {अभ्याज्}
  • अज् (अज गतिक्षेपणयोः)।
  • ‘देवदत्त गामभ्याज शुक्लाम्’ (पा० ८।१।८ वृत्तौ प्रत्युदाहरणम्)। अभ्याज=इतः प्रेरय।
  • ‘तदाहुः कस्मादस्मा ऋषभं दक्षिणामभ्याजन्ति’ (ऐ० ब्रा० ६।३)। अभि सम्यग् अजन्ति ददतीति षड्गुरु०। समीपमानयन्तीति च सायणः।

अश्

  • {अभ्याश्}
  • अश् (अशू व्याप्तौ)।
  • ‘अभ्याशो ह यदस्मै स कामः समृध्येत’ (छां० उ० १।३।१२)। अभ्याश आशंसा।

अस्

  • {अभ्यास्}
  • अस् (असु क्षेपे)।
  • ‘मन्ये बाणस्य नगरमभ्यासस्थमरिन्दम’ (हरि० २।१२२।१३)। अभ्यासस्थं निकटेस्थितम्। अभ्याश इत्येव तु युक्तम्।

आप्

  • {अभ्याप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘यदेवास्यात्र विद्वान्वाऽविद्वान्वातिरेचयति न वाभ्यापयति’ (श० ब्रा० १०।१।३।१०)। अभ्यापयति समापयति समाप्तिं गमयति।
  • ‘नोहाभिस्तं काममभ्यापयेत्’ (श० ब्रा० १।१।१।??।२१)।

  • {अभ्ये}
  • इ (इण् गतौ)।
  • ‘पितृलोकाज्जीवलोकमभ्यायन्ति’ (श० ब्रा० १३।८।४।६)। अभ्यायन्ति=अभिवर्तन्ते।
  • ‘नरेन्द्रनागाश्वसमाकुलानाम् (चमूनाम्) अभ्यायतीनामशिवे मुहूर्ते’ (भा० भीष्म० ९९।३०)। अभ्यायतीनामुपायतीनाम्।
  • ‘वत्समिच्छन्ती मनसाभ्यागात्’ (ऋ० १।१६४।२७)। अत्राभ्ययनं शरीरेणोपगमनं नाह। मनसा तदिति शब्दतो विस्पष्टोक्तेः। मनसा गमनं च स्मरणं भवतीति विस्मरन्ति विवरीतारः। लौकिके साहित्येत्रार्थे शतशः प्रयोगा उपलभ्यन्ते।
  • ‘क्षुधार्तश्चात्तुमभ्यागाद् विश्वामित्रः श्वजाघनीम्’ (मनु० १०।१०८)। अभ्यागाद् अध्यवसितवानिति कुल्लूकः।
  • ‘स्नातस्तु काले यथाविध्यभिहृतमाहूतोऽभ्येतो वा न प्रतिसहरेत्’ (आप० ध० १।८।७)। अभ्येतः समीपं गतः।
  • ‘दूरादपि गृहानभ्येयात्’ (गो० गृ० १।५।२२)। आगच्छेदित्यर्थः।

कृ

  • {अभ्याकृ}
  • कृ (डुकृञ् करणे)।
  • ‘यथाऽदोऽदवान् गा वा पुनरभ्याकारं तर्पयन्ति’ (ऐ० ब्रा० ३।५)। पौनः पुन्येन तृणेवलादिभिरभिमुखीकृत्य कण्डूयनेन प्रियशब्देन वा लालयित्वेति सायणः।

कृष्

  • {अभ्याकृष्}
  • कृष् (कृष विलेखने)।
  • ‘प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः’ (भा० आदि० १९०।२५)। अभ्याकर्षोऽभिमुखमास्फालनम्।

क्रम्

  • {अभ्याक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘तन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम्’ (अथर्व० १०।७।४२)।

ख्या

  • {अभ्याख्या}
  • ख्या (ख्या प्रकथने, चक्षिङ आदेशो वा ख्याञ्)।
  • ‘स य उक्तोक्तः स्याद् योऽभ्याख्यायेत। स एतेन (अग्निष्टुता) यजेत’ (जै० ब्रा० २।१३४)। अभ्याख्यायेत दोषेण युज्येत (लोकेन)। अभिशस्येत, अभिशस्तः स्यादित्यर्थः।
  • ‘अथाभ्याख्यातेषु’ (तै० उ० १।११।४)। अभ्याख्याता अभिशस्ताः। अभ्याख्यातेषु कथं वर्तितव्यमित्याह।
  • ‘अभ्याख्यानमिदं नीताः पाण्डवाः कविभिः खलैः’ (बृहत्कथाकोशे ८३।४८)। अभ्याख्यानमपवादः, लोके वचनीयता।

गम्

  • {अभ्यागम्}
  • गम् (गम्लृ गतौ)।
  • ‘दन्तावलो धौम्रो यावति तावति काले पारीक्षितं जनमेजयमभ्याजगाम (तस्मादुत्थाय स्वयमेव विष्टरं निदधौ’ (गो० ब्रा० पूर्व० २।५)। अभ्याजगाम अभ्यागतवान्, अतिथिरित्युपागात्।
  • ‘क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः’ (वेणी० ५।२६)। अभ्यागतातुपेतौ।
  • ‘तथाभ्यागतै राजपुरुषैः प्रत्यक्षदर्शनां तां दृष्ट्वा’ (तन्त्रा० १।३)। दिग्विदिग्भ्यः सनिपतितैः।
  • ‘क्रमादभ्यागतं द्रव्यं हतमप्युद्धरेत्तु यः’ (याज्ञ० २।११९)। अभ्यागतमायातम्।
  • ‘अस्मिन् अभ्यागते काले किं च नः क्षममच्युत’ (भा० उ० १५४।२)। अभ्यागत उपस्थिते संनिहिते।
  • ‘सर्वथा राक्षसकुलस्य विनाशोऽभ्यागत इति मन्ये’ (अभि० ३)। उक्तोऽर्थः। अभिः सामीप्ये। सर्वे तेऽभ्यागतज्ञाना वीतरागा विमत्सराः। प्राप्तज्ञानाः। अभ्यामर्द-समाघात-सङ्ग्रामाभ्यागमाहवा इत्यमरेऽभ्यागमो युद्धनामसु पठितः।
  • ‘तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत्’ (आप० ध० १।१।१।३३)। अभ्यागमनं सत्कारार्थमाभिमुख्येन गमनम्।

चर्

  • {अभ्याचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘विशो अदेवीरभ्याचरन्तीः’ (सासहे इन्द्रः) (ऋ० ८।९६।१५)। अभ्याचरन्तीः सङ्ग्रामयमाणाः।
  • ‘अवारयन्त वरणेन देवा अभ्याचारमसुराणाम्’ (अथर्व० १०।३।२) अभ्याचारमभ्यागमम् आयोधनम्।

तप्

  • {अभ्यातप्}
  • तप् (तप सन्तापे)।
  • ‘इन्द्रावरुणावभ्या तपन्ति माघान्यर्यो वनुषामरातयः’ (ऋ० ७।८३।५)। अभ्यातपन्ति सर्वतो बाधन्ते। अघानि कर्तृणि।

तनु

  • {अभ्यातनु}
  • तनु (तनु विस्तारे)।
  • ‘यद् देवा अभ्यातानैरसुरानभ्यातन्वत’ (तै० सं० ३।४।६।२)। आयुधानि प्राहिण्वन्नित्यर्थः।

तॄ तॄ

  • {अभ्यातॄ|अभ्यातॄ}
  • तॄ तॄ (प्लवनतरणयोः)।
  • ‘परस्या अधि संवतोऽवरां अभ्यातर’ (वा० सं० ११।७१)। अभ्यातर=अभीहि, इत एहि।

दा

  • {अभ्यादा}
  • दा (डुदाञ् दाने)।
  • ‘ओमभ्यादाने’ (पा० ८।२।८७)। अभ्यादानमारम्भः। स्यादभ्यादानमुद्घात आरम्भ इत्यमरः।
  • ‘वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः’ (भा० उ० ९५।१)। अभ्यादानमारम्भः। वाचमाददे, वक्तुमुपचक्रमे।
  • ‘न हीनतः परमभ्याददीत’ (भा० आदि० ८७।८, सभा० ६६।६, शां० २९९।८)। हीनेनाभिचारादिकर्मणा द्यूतादिकर्मणा वा परं शत्रुं न वशे कुर्वीतेत्याद्ययोः प्रदेशयोरर्थः। तृतीये तु परमौपनिषदं रहस्यं निहीनवर्णाद् विवर्णान्नाददीत न गृह्णीयादित्यर्थः।
  • ‘सर्वमिदमभ्यात्तोऽवाक्यनादरः’ (छां० उ० ३।१४।२)। अभ्यात्तोऽभितो व्याप्तवान्। कर्तरि क्तः।

दिश्

  • {अभ्यादिश्}
  • दिश् (दिश अतिसर्जने)।
  • (अमित्रान्) ‘अभिषेणाँ अभ्यादेदिशानान् पराचः इन्द्र प्र मृणा जही च’ (ऋ० ६।४४।१७)। अभ्यादेदिशानान् असकृल्लक्ष्यं कुर्वाणानित्यर्थः।

द्रु

  • {अभ्याद्रु}
  • द्रु (द्रु गतौ)।
  • ‘तमिन्द्रोऽभ्यादुद्राव हनिष्यन्’ (श० ब्रा० १।६।३।१६)। अभिमुखीभूयाधावदित्यर्थः।

धा

  • {अभ्याधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘प्राणाय त्वा इति समिधमभ्यादधाति’ (जै० ब्रा० १।१४)। आदधातीत्यर्थः।
  • ‘यदि ह वा अपि बह्विवाग्नावभ्यादधति’ (श० ब्रा० १४।८।१५।१२)। अभित आधानमभ्याधानम्।
  • ‘वैश्यकुलाद्वाम्बरीषाद्वाग्निमाहृत्याभ्यादध्यात्’ (गो० गृ० १।१।१५)। आधानमात्रमर्थः।
  • ‘अभ्यादधामि समिधमग्ने त्वयि’ (वा० सं० २०।२४)।
  • ‘यं प्रेतमग्नावभ्यादधति’ (श० ब्रा० १४।८।११)। उक्तोऽर्थः।
  • ‘अभ्यादध्युश्च काष्ठानि’ (मनु० ८।३७२)। अभित आदध्युरित्यर्थः।
  • ‘यदग्निरभ्याहितं दहति’ (श० ब्रा० ६।२।१।५)। अभ्याहितमुपरि निहितम्।
  • ‘यथार्द्रैधादग्नेरभ्याहितात्पृथग् धूमा विनिश्चरन्ति’ (बृहदा० उ० २।४।१०)। उक्तोऽर्थः।
  • ‘महतोऽभ्याहितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः’ (छां० उ० ६।७।३)। अभित आहितस्य, आहितसमित्कस्य समित्समिद्धस्येत्यर्थः।

नी

  • {अभ्यानी}
  • नी (णीञ् प्रापणे)।
  • ‘दधिमधु सर्पिरातपवर्ष्या आपोऽभ्यानीय’ (ऐ० ब्रा० ८।१७)। अभ्यानीय संनीय। दध्यादीनां सेचनं कृत्वेति तात्पर्यार्थः।

पत्

  • {अभ्यापत्}
  • पत् (पत्लृ गतौ)।
  • ‘अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम्’ (भा० वि० ३२।६)। अभ्यापततामभिमुखमागच्छताम्।

पद्

  • {अभ्यापद्}
  • पद् (पद गतौ)।
  • ‘न संशयमभ्यापद्येत’ (आश्व० गृ० ३।७।२५)। प्रतिपद्येतेत्यर्थः।
  • ‘अथैनमेताभ्यां सर्वाणि स्थानान्यभ्यापादं स्तौति’ (नि० ७।२७)। अभ्यापादमभ्यापाद्याभ्यापाद्य, तत्तत्स्थानापन्न इति कृत्वा। एनम् पार्थिवमग्निम्।

भू

  • {अभ्याभू}
  • भू (सत्तायाम्)।
  • ‘तं यद्येतेषां त्रयाणामेकं चिदकाममभ्याभवेत्’ (ऐ० बा० ३।४६)। अभ्याभवेद्, विन्देत्, प्राप्नुयात्। अकाममबुद्धिपूर्वम्। एकमप्यार्त्विज्यम्।
  • ‘यद्येनं क्षीरं केवलं पानेऽभ्याभवेत्’ (श० ब्रा० २।३।१।१६)। उक्तोऽर्थः।
  • ‘ज्ञातिसामन्तधनिकाः क्रमेण भूमिपरिग्रहान्क्रेतुमभ्याभवेयुः’ (कौ० अ० ३।९।१)। अभ्याभवेयुः प्रभवेयुरर्हेयुर् अधिक्रियेरन्।
  • ‘प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डाः पुत्रान्नाभ्याभवेयुः’ (गौ० ध० २।३।३८)। एते प्रातिभाव्यादयः (पितरि मृते) पुत्रेषु न संक्रामन्ति, पुत्रैन (प्रतिनिधित्वेन) आस्थेया भवन्तीत्याह।

यम्

  • {अभ्यायम्}
  • यम् (यम उपरमे)।
  • ‘स प्रजापतिं पितरमभ्यायच्छत्’ (शां० ब्रा० ६।२)। प्रत्यागतवानिति टीका। न्यगृह्णादित्यन्ये।
  • ‘तमभ्यायत्याविध्यत्’ (ऐ० ब्रा० ३।३३)। अभ्यायत्य धनुराकर्णपूर्णमाकृष्येति सायणः। लक्ष्यं कृत्वेति तु संस्कृतशार्मण्यकोषः।

यु

  • {अभ्यायु}
  • यु (यु मिश्रणामिश्रणयोः)
  • ‘पादाभ्यामेव तच्छ्रियं शिरोऽभ्यायन्ति…पक्षाभ्यामेव तच्छ्रियं शिरोऽभ्यायुवते’ (ऐ० ब्रा० ४।१३)। अभ्यायुवते=अभ्यायुवन्ति मिश्रयन्ति प्राप्नुवन्तीत्यर्थः। श्रियमभिलक्ष्य यतन्त इति तु संस्कृतशार्मण्यकोषः। तमिममर्थं धात्वर्थो न समर्थयते।

रभ्

  • {अभ्यारभ्}
  • रभ् (रभ राभस्ये)।
  • ‘तदाहुः। कस्मिन्नृतावभ्यारम्भ इति ग्रीष्मेभ्यारभेत’ (श० ब्रा० १३।४।१।२)। अभ्यारभेत उपक्रमेत, प्रक्रमेत।
  • ‘अवरेणैव तदह्ना परमहरभ्यारभन्ते’ (ऐ० ब्रा० ६।५)। अभिमुखीकृत्यारभन्त उपक्रमन्ते।

वह्

  • {अभ्यावह्}
  • वह् (वह प्रापणे)।
  • ‘अभ्यावहति कल्याणं विविधं वाक् सुभाषिता’ (भा० उ० ३४।७७)। अभ्यावहति आहरति।
  • ‘गन्धमभ्यावहन्पुण्यं श्रमापनयनोऽनिलः’ (रा० ४।१।१७)। अभ्यावहन्=इत उपानयन्।
  • ‘प्रातिभाव्यवणिक्शुल्कमद्यद्यूतदण्डाः पुत्रान्नाभ्यावहेयुः’ (गौ० ध० २।१।३८)। नाभ्यावहेयुर्न संक्रामेयुः।
  • ‘नावि निमग्नायां मुषितायां वा स्वयमुपरूढो नोपनिधिमभ्यावहेत्’ (कौ० अ० ३।१२।२)। उपनिधिं नानुयोज्यः स्यात्। नष्टोपनिधिसममर्थं न दाप्यः।
  • ‘अन्तरे वा मृतस्य दायादोपि नाभ्यावहेत्’ (कौ० अ० ३।१२।२०)।
  • ‘तदेव सप्तमेन पदेनाभ्यारभ्य वसन्ति’ (ऐ० ब्रा० ५।१०)। आभिमुख्येनोपक्रम्येति सायणः। गृहीत्वेति तु षड्गुरु०।

विश्

  • {अभ्याविश्}
  • विश् (विश प्रवेशने)।
  • ‘मन्युमभ्याविशद् घोरं स्मृत्वा तत्तु धनञ्जयः’ (भा० कर्ण० ९१।१९)। अभ्याविशत् आविशत्। नार्थोऽभिना। मन्युर्धनञ्जयमाविशदित्येवमपि शक्यं व्यवहर्तुम्। उभयथा हि प्रवाचां वाचः क्रमन्ते।

वृ

  • {अभ्यावृ}
  • वृ (वृञ् वरणे)।
  • ‘अग्निमभ्यावृत्य शये’ (तै० सं० ६।२।५।५)। अभित आवृत्येत्यर्थः।

वृत्

  • {अभ्यावृत्}
  • वृत् (वृतु वर्तने)।
  • ‘अभ्यावर्तस्व पशुभिः सहैनाम्’ (अथर्व० ११।१।२२)। अभिलक्ष्यावृत्तो भवेत्यर्थः।
  • ‘प्रणीतीरभ्यावर्तस्व’ (अथर्व० ७।११०।१)। आसेवस्व अभ्यस्य (लोटि रूपम्)।
  • ‘त्रिरात्रमुपोष्याहोरात्रं वा सावित्रीमभ्यावर्तयेद् यावच्छक्नुयात्’ (शां गृ० ४।८।२०)। अभ्यावर्तयेत् आवर्तयेत्, अभ्यस्येत्, आवृत्त्या शंसेत्। वा० सं० ८।५८ इत्यत्र अभ्यावृत्त इति होमशेषद्रव्यमाह। गुणिताहते अभ्यावर्तिते इत्यमरः।
  • ‘क्रियाया अभ्यावृत्तिगणने कृत्वसूच्’ (पा० ५।४।१७)। अभ्यावृत्तिरावृत्तिः।
  • ‘अभ्यावर्तं प्रजायन्ते’ (प्रजाः) (श० ब्रा० १।५।३।१६)। अभ्यावृत्त्य। अभ्यावर्तमिति णमुलन्तम्। असकृज्जायन्त इत्यर्थः।
  • ‘ततोऽभ्यावृत्त्य वार्ष्णेयो दुर्योधनममर्षणम्। अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित्’ (भा० उ० १२४।७-८)॥ अभ्यावृत्य=अभिमुखं निवृत्य।
  • ‘अग्नेऽभ्यावर्त्तिन्नभि मा निवर्तस्वायुषा वर्चसा प्रजया धनेन’ (वा० सं० १२।७)। आभिमुख्येनावर्तितुं शीलमस्य, तत्सम्बुद्धौ।
  • ‘कस्मादच्छावाको वह्निवदेतत् सूक्तमुभयत्र शंसति पराञ्चिषु चैवाहःस्वभ्यावर्तिषु च’ (ऐ० ब्रा० ६।१८)। अभ्यावर्तिषु=आवृत्तिमत्सु पुनः पुनरावर्तमानेषु। पराञ्चिषु आवृत्तिरहितेषु।
  • ‘आत्मीयास्ते ये पराञ्चः पुरस्तादभ्यावर्ती संमुखो यः परोऽसौ’ (शिशु० १८।१८)॥ अभ्यावर्ती परावर्ती।

श्रु

  • {अभ्याश्रु}
  • श्रु (श्रु श्रवणे)।
  • ‘नाभ्याश्रावयेत्’ (शां० ब्रा० १७।७)। अनुवाक्यां नोदीरयेत्।

सद्

  • {अभ्यासद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘नाभ्यासादयितव्यानि तेजांसि च तपांसि च’ (भा० वन० ३०७।४)। अत्यन्तं प्रत्यासत्तिविषयाणि न कर्तव्यानीति नीलकण्ठः। अभिः प्रत्यर्थे। प्रत्यासत्तिविषयाणीत्यत्र नपुंसकत्वे बहुज्ञोपि व्यामुग्धो भारतभावदीपकारः। तत्पुरुषोऽयं समासो न बहुव्रीहिः। तत्पुरुषे च परवल्लिङ्गता शास्त्रेण शिष्टेति प्रत्यासत्तिविषयो वा प्रत्यासत्तेर्विषयो वेति व्यासेन वचो निर्दुष्टं स्यात्।

हन्

  • {अभ्याहन्}
  • हन् (हन हिंसागत्योः)।
  • ‘नाभ्याहन्यान्न निर्हण्यान्न गोपायेन्नैव कम्पयेत्’ (याज्ञ० शि० १।२४)। अभ्याहननं वर्णव्यत्ययेनोच्चारणम्। निर्हणनं स्थानाद्यन्यतमराहित्येनोच्चारणम्। आङ्पूर्वो हन्तिः पठने वर्तते यथ–इदं ब्राह्मणे आहतमित्यत्र।
  • ‘…मालया यदा। अभ्याहता तदाऽपश्यम्’ (कथा० ६६।२४)। अभ्याहता ताडिता।
  • ‘अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्रवेत्’ (छां० उ० ६।११।१)। ताडयेत्, प्रहरेत्, क्षिणुयात्।
  • ‘अभ्याहता हयारोहा ऋष्टिभिर्भरतर्षभ। अत्यजन्नुत्तमाङ्गानि फलानीव महाद्रुमा’ (भा० भीष्म० १०५।२१-२२)॥ अभ्याहता अभित आहताः प्रहृताः। हारिण्युपमा वश्यवाचः कवेः।
  • ‘अभ्याहतं कीर्तिविपर्ययेण’ (हृदयम्) (रघु० १४।३३)। उक्तोऽर्थः।
  • ‘रक्षोभिरभ्याहतकर्मवृत्तिः’ (भट्टि० १।१७)। अभ्याहता प्रतिहता रुद्धा।
  • ‘अनभ्याहतचित्तः स्यादनभ्याहतवाग्भवेत्’ (भा० शां० २४५।१६)। अभ्याहतमुपहतं दोषाक्रान्तम्।
  • ‘अभ्याघातेषु मध्यस्थाञ्शिष्याच्चौरानिव द्रुतम्’ (मनु० ९।२७२)। अभ्याघात आक्रम आस्कन्दः। पा० ३।२।१४२ सूत्रेण अभ्याहनस्ताच्छील्ये घिनुण् विहितः। तेन अभ्याघातीति प्रथमायां रूपम्। अभ्याघाती शत्रुर्भवति।

हृ

  • {अभ्याहृ}
  • हृ (हृञ् हरणे)।
  • गृहीत्वा फलमूलं च रामस्याभ्याहरन् बहु (रा०)। अभ्याहरन् उपाहरन्, उपानयन्।
  • तौ मुहूर्त्तं समाश्वस्य पुनरेव परन्तपौ। अभ्याहारयतामन्योन्यं सम्प्रगृह्य गदे शुभे (भा० शल्य० ५७।७)॥
  • अभ्याहारयतां क्रुद्धौ प्रगृह्य महती गदे (भा० शल्य० ५८।३१)। प्राहरेताम् इत्यर्थो भाति।
  • समं हि धर्मं चरतो नृपस्य द्रव्याणि चाभ्याहरतो यथावत् (भा० शां० २८।५७)। अभ्याहरतः सर्वत आददानस्य।
  • पशुरभ्याहृतो राजन्प्रनष्टस्तव दुर्नयात् (रा० १।६१।७)। अभ्याहृत इदानीमाहृतः। अभिशब्दः (काल–) सन्निकर्षमाह। अभ्याहृतोऽपहृत इति कश्चिदभिमन्यते। सोऽयमसदभिसानः। अभ्याङावुपसर्गौ नालमपशब्दस्यार्थमभिधातुम्।
  • अस्मिन्नु हैकेऽवान्तरदेशे कर्षूं खात्वा ततोऽभ्याहारं कुर्वन्ति (श० ब्रा० १३।८।३।१०)। अभ्याहार इत आहरणम्।