०२४ समन्वा (सम्+अनु+आङ्)

गम्

  • {समन्वगम्}
  • गम् (गम्लृ गतौ)।
  • ‘यदा तु (धर्मः) सामान्येन समन्वागतो भवति’ (यो० सू० ३।१४ भाष्ये)। समन्वागतो युक्तः।

रभ्

  • {समन्वरभ्}
  • रभ् (रभ राभस्ये)।
  • ‘त विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च’ (श० ब्रा० १४।७।२।३)। सममनुबध्नीतः। युगपच्छ्लिष्यतः।
  • ‘तस्मिन्नुपविष्टायां समन्वारब्धायाम्’ (आश्व० गृ० १।६।९)।
  • ‘सप्तहोतारं मनसाऽनुद्रुत्याहवनीये सग्रहं हुत्वोदञ्चः प्रह्वा बहिष्पवमानार्थं पञ्चर्त्विजः समन्वारब्धाः सर्पन्ति’ (आप० श्रौ० १२।१६।१७)। समन्वारब्धा इतरेतरमवलम्बमानाः।