१७१ अभि निस् (अभि निर्)

कृ

  • {अभिनिष्कृ}
  • कृ (डुकृञ् करणे)।
  • ‘कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम्। मृणीहि’ (अथर्व० १०।३।३१)।

क्रम्

  • {अभिनिष्क्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘अभिनिष्क्रामति द्वारम्’ (पा० ४।३।८६)। स्रुघ्नमभिनिष्क्रामति कान्यकुब्जद्वारं सौघ्नम् इति वृत्तिः। स्रुघ्नमभिलक्ष्य निर्यातीत्यर्थः।
  • ‘प्रविश्य चाभिनिष्क्रान्तं सुग्रीवं वानरर्षभाः। अभ्यषिञ्चन्महामात्रा…’ (रा० ४।२५।२१)॥ अभिनिष्क्रान्तमभिलक्ष्य निर्यातम्।
  • ‘अगारादभिनिष्क्रान्तः’ (मनु० ६।४१)। परिव्राजको बुभूषन् गृहान् निष्क्रान्तः। अभिनिष्क्रमणं प्रव्रजितुकामस्य गेहत्यागः।
  • ‘वर्धमानपुरद्वारादभिनिष्क्रम्य’ (भा० वन० १।१०)। अभिलक्ष्य बहिर्गत्वेत्यर्थः।

क्षिप्

  • {अभिनिःक्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘कन्दुकोऽभिनिः क्षिप्त इव प्रतिफलन्मुहुः। आपतत्यात्मनि प्रायो दोषोऽन्यस्य चिकीर्षितः’ (कथा० २०।२१३)॥ निरुदोऽर्थे। अभिरपार्थः।

पत्

  • {अभिनिष्पत्}
  • पत् (पत्लृ गतौ)।
  • ‘गवाक्षजालैरभिनिष्पतन्त्यः’ (रत्नभासः) (भट्टि० १।८)। अभितो निर्गच्छन्त्यः, निश्चरन्त्यः।

पद्

  • {अभिनिष्पद्}
  • पद् (पद गतौ)।
  • ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ (बृह० उ० ८।३।४)। आविर्भवतीत्यर्थः।
  • ‘यथा सुवर्णः प्रवृत्तस्तप्यमानः सुवर्णतामभिनिष्पद्यते’ (जै० ब्रा० १।२८)। अभिनिष्पद्यते प्राप्नोति।
  • ‘नक्तमहरेवाभिनिष्पद्यते’ (छां० उ० ८।४।२)। अभिनिष्पद्यतेऽभिनिर्वर्तते।
  • ‘इममेवाकाशमभिनिष्पद्यन्ते’ (श० ब्रा० १४।९।१।१९)। प्राप्नुवन्ति, अभिसंविशन्तीत्यर्थः।
  • ‘प्रज्ञा चतुरो धर्मान् ब्रह्मणमभिनिष्पादयति’ (श० ब्रा० ११।५।७।१)। अभिनिष्पादयति प्रापयति।
  • ‘एतां दिशमभिनिष्पद्य’ (श० ब्रा० १३।८।१।९)। गत्वेत्यर्थः।

मुच्

  • {अभिनिर्मुच्}
  • मुच् (मुच्लृ मोक्षणे)।
  • ‘तथा सूर्याभिनिर्मुक्तः’ (भा० शां० ३४।३)। अभिनिर्मुक्तोऽभिनिम्लुक्त इति वा पाठः साधीयान्। मुचेरस्तमयेऽर्थे प्रयोगादर्शनात्। चिरन्तनोऽयं पाठभ्रंशो नेदानीन्तनः।

वृत्

  • {अभिनिर्वृत्}
  • वृत् (वृतु वर्तने)।
  • ‘घृतमधुनी समं संमिश्रिते विषमभिनिर्वर्तते।’ अभिनिर्वर्तते निष्पद्यते।
  • ‘गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम्’ (भा० आश्व० ५७।६)। अभिनिर्वर्त्य=निष्पाद्य सम्पाद्य संसाध्य।
  • ‘यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे’ (भा० उ० १३४।१०)। अभिनिर्वृत्तिः सिद्धिः।

स्तन्

  • {अभिनिःस्तन्}
  • स्तन् (स्तनगदी देवशब्दे, देवशब्दो मेघगर्जितम्)।
  • ‘अभिनिसः स्तनः शब्दसंज्ञायाम्’ (पा० ८।३।८६)। अभिनिस्तानो विसर्जनीयः। अभिनिष्टानो विसर्जनीय इति वृत्तावुदाहरणे। अभिनिस्तनति मृदङ्ग इति च प्रत्युदाहरणं स्थितम्। सूत्रे वृत्तौ च वा खर्परे शरीति विसर्जनीयस्य विकल्पेन लोपो द्रष्टव्यः।

हृ

  • {अभिनिर्हृ}
  • हृ (हृञ् हरणे)।
  • ‘ते स्पन्दमाना…कर्मविपाकं चाभिनिर्हरन्ति’ (२।३ यो० सू० भा०)। अभिनिर्हरन्ति निष्पादयन्ति।
  • ‘कृतसंमोदन-कथासत्कारासनाभिनिर्हारः’ (अवदा० जा० २३)। आसनाभिनिर्हार आसनस्याहरणम्। निरस्थाने।
  • ‘अभिनिर्हृतानां तु सीम्न्यनध्यायः’ (आप० ध० १।३।९।१६)। कृतनिर्हाराणां प्रेतानाम्।