०४

द्विगुरेकवचनम्॥ २.४.१॥

द्विगुः समास एकवचनं भवति। एकस्य वचनमेकवचनम्। एकस्यार्थस्य वाचको भवतीत्यर्थः। तदनेन प्रकारेण द्विग्वर्थस्यैकवद्भावो विधीयते, द्विग्वर्थ एकवद् भवतीति। समाहारद्विगोश्चेदं ग्रहणम्, नान्यस्य। पञ्च पूलाः समाहृताः पञ्चपूली। दशपूली। द्विग्वर्थस्यैकत्वादनुप्रयोगेऽप्येकवचनं भवति- पञ्चपूलीयं शोभनेति॥

द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ॥ २.४.२॥

एकवचनमिति वर्तते। अङ्गशब्दस्य प्रत्येकं वाक्यपरिसमाप्त्या त्रीणि वाक्यानि संपद्यन्ते। प्राण्यङ्गानां द्वन्द्व एकवद् भवति, तथा तूर्याङ्गानां सेनाङ्गानां च। प्राण्यङ्गानां तावत्-पाणिपादम्। शिरोग्रीवम्। तूर्याङ्गानाम्- मार्दङ्गिकपाणविकम्। वीणावादकपरिवादकम्। सेनाङ्गानाम्- रथिकाश्वारोहम्। रथिकपादातम्। हस्त्यश्वादिषु परत्वात् पशुद्वन्द्वे विभाषयैकवद् भवति। इतरेतरयोगे समाहारे च द्वन्द्वो विहितः। तत्र समाहारस्यैकत्वात् सिद्धमेवैकवचनम्। इदं तु प्रकरणं विषयविभागार्थम्। प्राण्यङ्गादीनां समाहार एव द्वन्द्वः। दधिपय आदीनामितरेतरयोग एव। वृक्षमृगादीनामुभयत्रेति॥

अनुवादे चरणानाम् ॥ २.४.३॥

चरणशब्दः शाखानिमित्तकः पुरुषेषु वर्तते। चरणानां द्वन्द्व एकवद् भवति, अनुवादे गम्यमाने। प्रमाणान्तरावगतस्यार्थस्य शब्देन संकीर्तनमात्रमनुवादः। उदगात् कठकालापम्। प्रत्यष्ठात् कठकौथुमम्। कठकालापादीनामुदयप्रतिष्ठे प्रमाणान्तरावगते यदा पुनः शब्देनानूद्येते तदैवमुदाहरणम्। यदा तु प्रथमत एवोपदेशस्तदा प्रत्युदाहरणम्। अनुवाद इति किम्? उदगुः कठकालापाः। प्रत्यष्ठुः कठकौथुमाः ॥ स्थेणोरद्यतन्यां चेति वक्तव्यम्॥ स्थेणोरिति किम्? अनन्दिषुः कठकालापाः। अद्यतन्यामिति किम्? उद्यन्ति कठकालापाः॥

अध्वर्युक्रतुरनपंसकम् ॥ २.४.४॥

अध्वर्युवेदे यस्य क्रतोर्विधानं सोऽध्वर्युक्रतुः। अध्वर्युक्रतुवाचिनां शब्दानामनपुंसकलिङ्गानां द्वन्द्व एकवद् भवति। अध्वर्युक्रतुरनपुंसकं द्वन्द्व इति गौणो निर्देशः। अर्काश्वमेधम्। सायाह्नातिरात्रम्। अध्वर्युक्रतुरिति किम्? इषुवज्रौ। उद्भिद्बलभिदौ। अनपुंसकमिति किम्? राजसूयवाजपेये। इह कस्माद् न भवति- दर्शपौर्णमासौ? क्रतुशब्दः सोमयागेषु रूढः॥

अध्ययनतोऽविप्रकृष्टाख्यानाम् ॥ २.४.५॥

अध्ययनेन निमित्तेन येषामविप्रकृष्टा प्रत्यासन्ना आख्या, तेषां द्वन्द्व एकवद् भवति। पदकक्रमकम्। क्रमकवार्त्तिकम्। संपाठः पदानां क्रमस्य च प्रत्यासन्नः। अध्ययनत इति किम्? पितापुत्रौ। अविप्रकृष्टाख्यानामिति किम्? याज्ञिकवैयाकरणौ॥

जातिरप्राणिनाम् ॥ २.४.६॥

जातिवाचिनां शब्दानां द्वन्द्व एकवद् भवति, प्राणिनो वर्जयित्वा। आराशस्त्रि। धानाशष्कुलि। जातिरिति किम्? नन्दकपाञ्चजन्यौ। अप्राणिनामिति किम्? ब्राह्मणक्षत्रियविट्शूद्राः। नञिवयुक्तन्यायेन द्रव्यजातीनामयमेकवद्भावः, न गुणक्रियाजातीनाम्। रूपरसगन्धस्पर्शाः। गमनाकुञ्चनप्रसारणानि। जातिपरत्वे च जातिशब्दानामयमेकवद्भावो विधीयते, न नियतद्रव्यविवक्षायाम्- इह कुण्डे बदरामलकानि तिष्ठन्तीति॥

विशिष्टलिङ्गो नदी देशोऽग्रामाः ॥ २.४.७॥

विशिष्टलिङ्गानां भिन्नलिङ्गानां नदीवाचिनां शब्दानां देशवाचिनां च ग्रामवर्जितानां द्वन्द्व एकवद् भवति। नद्यवयवो द्वन्द्वो नदीत्युच्यते, देशावयवश्च देशः। नदी देश इत्यसमासनिर्देश एवायम्। उद्ध्यश्चेरावती च , उद्ध्येरावती। गङ्गाशोणम्। देशः खल्वपि- कुरवश्च कुरुक्षेत्रं च, कुरुकुरुक्षेत्रम्। कुरुकुरुजाङ्गलम्। विशिष्टलिङ्ग इति किम्? गङ्गायमुने। मद्रकेकयाः। नदी देश इति किम्? कुक्कुटमयूर्यौ। अग्रामा इति किम्? जाम्बवश्च शालूकिनी च, जाम्बवशालूकिन्यौ। नदीग्रहणमदेशत्वात्। जनपदो हि देशः। तथा च पर्वतानां ग्रहणंन भवति। कैलासश्च गन्धमादनं च, कैलासगन्धमादने॥ अग्रामा इत्यत्र नगराणां प्रतिषेधो वक्तव्यः॥ इह मा भूत्- मथुरा च पाटलिपुत्रं च, मथुरापाटलिपुत्रम्॥ उभयतश्च ग्रामाणां प्रतिषेधो वक्तव्यः॥ सौर्यं च नगरम्, कोतवतं च ग्रामः, सौर्यकेतवते॥

क्षुद्रजन्तवः॥ २.४.८॥

अपचितपरिमाणः क्षुद्रः। क्षुद्रजन्तुवाचिनां द्वन्द्व एकवद् भवति। दंशमशकम्। यूकालिक्षम्। क्षुद्रजन्तव इति किम्? ब्राह्मणक्षत्रियौ।

** ** क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः।

	शतं वा प्रसृतौ येषां केचिदा नकुलादपि॥

आ नकुलादपीतीयमेव स्मृतिः प्रमाणम्, इतरासां तद्विरोधात्॥

येषां च विरोधः शाश्वतिकः ॥ २.४.९॥

विरोधो वैरम्, शाश्वतिको नित्यः। येषां शाश्वतिको विरोधः, तद्वाचिनां शब्दानां द्वन्द्व एकवद् भवति। मार्जारमूषकम्। अहिनकुलम्। शाश्वतिक इति किम्? गौपालिशालङ्कायनाः कलहायन्ते। चकारः पुनरस्यैव समुच्चयार्थः। तेन पशुशकुनिद्वन्द्वे विरोधिनामनेन नित्यमेकवद्भावो भवति- अश्वमहिषम्। काकोलूकम्॥

शूद्राणामनिरवसितानाम् ॥ २.४.१०॥

निरवसानम्, बहिष्करणम्। कुतो बहिष्करणम्? पात्रात्। यैर्भुक्ते पात्रं संस्कारेणापि न शुध्यति, ते निरवसिताः। न निरवसिताः, अनिरवसिताः। अनिरवसितशूद्रवाचिनां शब्दानां द्वन्द्व एकवद् भवति। तक्षायस्कारम्। रजकतन्तुवायम्। अनिरवसितानामिति किम्? चण्डालमृतपाः॥

गवाश्वप्रभृतीनि च ॥ २.४.११॥

गवाश्वप्रभृतीनि च कृतैकवद्भावानि द्वन्द्वरूपाणि साधूनि भवन्ति। गवाश्वम्। गवाविकम्। गवैडकम्। अजाविकम्। अजैडकम्। कुब्जवामनम्। कुब्जकैरातकम्। पुत्रपौत्रम्। श्वचण्डालम्। स्त्रीकुमारम्। दासीमाणवकम्। शाटीपिच्छकम्। उष्ट्रखरम्। उष्ट्रशशम्। मूत्रशकृत्। मूत्रपुरीषम्। यकृन्मेदः। मांसशोणितम्। दर्भशरम्। दर्भपूतीकम्। अर्जुनशिरीषम्। तृणोलपम्। दासीदासम्। कुटीकुटम्। भागवतीभागवतम्। गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम्, रूपान्तरे तु नायं विधिर्भवति। गोऽश्वम्। गोऽश्वौ। पशुद्वन्द्वविभाषैव भवति॥

विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वा-पराधरोत्तराणाम् ॥ २.४.१२॥

वृक्ष मृग तृण धान्य व्यञ्जन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तर इत्येतेषां द्वन्द्वो विभाषैकवद् भवति। प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः। रुरुपृषतम्, रुरुपृषताः। कुशकाशम्, कुशकाशाः। व्रीहियवम्, व्रीहियवाः। दधिघृतम्, दधिघृते। गोमहिषम्, गोमहिषाः। तित्तिरिकपिञ्जलम्, तित्तिरिकपिञ्जलाः। अश्ववडवम्, अश्ववडवौ। पूर्वापरम्, पूर्वापरे। अधरोत्तरम्, अधरोत्तरे॥ बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम्॥ एषां बहुप्रकृतिरेव द्वन्द्व एकवद् भवति, न द्विप्रकृतिः। बदरामलके। रथिकाश्वारोहौ। प्लक्षन्यग्रोधौ। रुरुपृषतो। हंसचक्रवाकौ। यूकालिक्षे। व्रीहियवौ। कुशकाशौ॥

विप्रतिषिद्धं चानधिकरणवाचि ॥ २.४.१३॥

परस्परविरुद्धं विप्रतिषिद्धम्। विप्रतिषिद्धार्थानां शब्दानामनधिकरणवाचिना-मद्रव्यवाचिनां द्वन्द्व एकवद् भवति। विभाषानुकर्षणार्थश्चकारः। शीतोष्णम्, शीतोष्णे। सुखदुःखम्, सुखदुःखे। जीवितमरणम्, जीवितमरणे। विप्रतिषिद्धमिति किम्? कामक्रोधौ। अनधिकरणवाचीति किम्? शीतोष्णे उदके॥

न दधिपयआदीनि ॥ २.४.१४॥

यथायथमेकवद्भावे प्राप्ते प्रतिषेध आरभ्यते। दधिपयआदीनि शब्दरूपाणि नैकवद् भवन्ति। दधिपयसी। सर्पिर्मधुनी। मधुसर्पिषी। ब्रह्मप्रजापती। शिववैश्रवणौ। स्कन्दविशाखौ। परिव्राट्कौशिकौ। प्रवर्ग्योपसदौ। शुक्लकृष्णौ। इध्माबर्हिषी। निपातनाद् दीर्घः। दीक्षातपसी। श्रद्धातपसी। मेधातपसी अध्ययनतपसी। उलूखलमुसले। आद्यावसाने। श्रद्धामेधे। ऋक्सामे। वाङ्मनसे॥

अधिकरणैतावत्त्वे च ॥ २.४.१५॥

नेति वर्तते। अधिकरणं वर्त्तिपदार्थः। स हि समासस्यार्थस्याधारः। तस्यैतावत्त्वे परिमाणे गम्यमाने द्वन्द्वो नैकवद् भवति। यथायथमेकद्भावः प्राप्तः प्रतिषिध्यते। दश दन्तोष्ठाः। दश मार्दङ्गिकपाणविकाः॥

विभाषा समीपे ॥ २.४.१६॥

अधिकरणैतावत्त्वस्य समीपे विभाषा द्वन्द्व एकवद् भवति। उपदशं दन्तोष्ठम्, उपदशा दन्तोष्ठाः। उपदशं मार्दङ्गिकपाणविकम्, उपदशा मार्दङ्गिकपाणविकाः। अव्ययस्य संख्ययाव्ययीभावोऽपि विहितो बहुव्रीहिरपि, तत्रैकवद्भावपक्षेऽव्ययीभावोऽनुप्रयुज्यते, इतरत्र बहुव्रीहिः॥

स नपुंसकम् ॥ २.४.१७॥

यस्यायमेकवद्भावो विहितः स नपुंसकलिङ्गो भवति द्विगुर्द्वन्द्वश्च। पञ्चगवम्। दशगवम्। द्वन्द्वः खल्वपि- पाणिपादम्। शिरोग्रीवम्। परवल्लिङ्गतापवादो योगः॥ अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते॥ पञ्चपूली। दशरथी॥ वाबन्तः स्त्रियामिष्टः॥ पञ्चखट्वम्, पञ्चखट्वी॥ अनो नलोपश्च वा च द्विगुः स्त्रियाम्॥ पञ्चतक्षम्, पञ्चतक्षी॥ पात्रादिभ्यः प्रतिषेधो वक्तव्यः॥ पञ्चपात्रम्। चतुर्युगम्। त्रिभुवनम्॥

अव्ययीभावश्च ॥ २.४.१८॥

अव्ययीभावश्च समासो नपुंसकलिङ्गो भवति। अधिस्त्रि। उपकुमारि। उन्मत्तगङ्गम्। लोहितगङ्गम्। पूर्वपदार्थप्रधानस्यालिङ्गतैव प्राप्ता, अन्यपदार्थप्रधानस्याभिधेयवल्लिङ्गता, अत इदमुच्यते। अनुक्तसमुच्चयार्थश्चकारः॥ पुण्यसुदिनाभ्यामह्नः क्लीबतेष्यते॥ पुण्याहम्। सुदिनाहम्॥ पथः संख्याव्ययादेः क्लीबतेष्यते॥ त्रिपथम्। चतुष्पथम्। विपथम्। सुपथम्॥ क्रियाविशेषणानां च क्लीबतेष्यते॥ मृदु पचति। शोभनं पचति॥

तत्पुरुषोऽनञ्कर्मधारयः ॥ २.४.१९॥

अधिकारोऽयमुत्तरसूत्रेषूपतिष्ठते। नञ्समासं कर्मधारयं च वर्जयित्वान्यस्तत्पुरुषो नपुंसकलिङ्गो भवतीत्येतदधिकृतं वेदितव्यं यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र। वक्ष्यति- ‘विभाषा सेनासुरा०’ (२.४.२५) इति- ब्राह्मणसेनम्, ब्राह्मणसेना। तत्पुरुष इति किम्? दृढसेनो राजा। अनञिति किम्? असेना। अकर्मधारय इति किम्? परमसेना॥

संज्ञायां कन्थोशीनरेषु ॥ २.४.२०॥

संज्ञायां विषये कन्थान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् कन्था उशीनरेषु भवति। सौशमिकन्थम्। आह्वरकन्थम्। संज्ञायामिति किम्? वीरणकन्था। उशीनरेष्विति किम्? दाक्षिकन्था। परवल्लिङ्गतापवाद इदं प्रकरणम्॥

उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ॥ २.४.२१॥

उपज्ञायत इत्युपज्ञा, उपक्रम्यत इत्युपक्रमः। उपज्ञा चोपक्रमश्च, उपज्ञोपक्रमम्। तदन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति तदाद्याचिख्यासायाम्, तयोरुपज्ञोपक्रमयोरादेराचिख्यासायां गम्यमानायाम्। आख्यातुमिच्छा आचिख्यासा। यद्युपज्ञेयस्योपक्रम्यस्य चार्थस्यादिराख्यातुमिष्यते, तत एतद् भवति। पाणिन्युपज्ञमकालकं व्याकरणम्। पाणिनेरुपज्ञानेन प्रथमतः प्रणीतमकालकं व्याकरणम्। व्याङ्युपज्ञं दुष्करणम्। आढ्योपक्रमं प्रासादः। नन्दोपक्रमाणि मानानि। दर्शनीयोपक्रमम्। सुकुमारोपक्रमम्। उपज्ञोपक्रममिति किम्? वाल्मीकिश्लोकाः। तदाद्याचिख्यासायामिति किम्? देवदत्तोपज्ञो रथः। यज्ञदत्तोपक्रमो रथः॥

छाया बाहुल्ये ॥ २.४.२२॥

‘विभाषा सेनासुराच्छाया०’ (२.४.२५) इति विभाषां वक्ष्यति, नित्यार्थमिदं वचनम्। छायान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति बाहुल्ये गम्यमाने। पूर्वपदार्थधर्मो बाहुल्यम्। शलभादीनां हि बहुत्वं गम्यते। शलभच्छायम्। इक्षुच्छायम्। बाहुल्य इति किम्? कुड्यच्छाया॥

सभा राजामनुष्यपूर्वा ॥ २.४.२३॥

सभान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् सभा राजपूर्वा अमनुष्यपूर्वा च भवति। इनसभम्। ईश्वरसभम्। इह कस्माद् न भवति- राजसभा? पर्यायवचनस्यैवेष्यते। तदुक्तम्- ‘जित् पर्यायस्यैव राजाद्यर्थम्’ (१.१.६८ वा०) इति। अमनुष्यपूर्वा- रक्षःसभम्। पिशाचसभम्। इह कस्माद् न भवति- काष्ठसभा? अमनुष्यशब्दो रूढिरूपेण रक्षःपिशाचादिष्वेव वर्तते। राजामनुष्यपूर्वेति किम्? देवदत्तसभा॥

अशाला च ॥ २.४.२४॥

अशाला च या सभा तदन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति। सङ्घातवचनोऽत्र सभाशब्दो गह्यते। स्त्रीसभम्। दासीसभम्। दासीसङ्घात इत्यर्थः। अशालेति किम्? अनाथसभा। अनाथकुटीत्यर्थः॥

विभाषा सेनासुराच्छायाशालानिशानाम् ॥ २.४.२५॥

सेना सुरा छाया शाला निशा इत्येवमन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति विभाषा। ब्राह्मणसेनम्, ब्राह्मणसेना। यवसुरम्, यवसुरा। कुड्यच्छायम्, कुड्यच्छाया। गोशालम्, गोशाला। श्वनिशम्, श्वनिशा॥

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ॥ २.४.२६॥

समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वाद् इतरेतरयोगद्वन्द्वस्येदं ग्रहणम्। परस्य यल्लिङ्गं तद् भवति द्वन्द्वस्य तत्पुरुषस्य च। उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोर्विधीयते। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। तत्पुरुषस्य- अर्धं पिप्पल्याः, अर्धपिप्पली। अर्धकोशातकी अर्धनखरञ्जनी॥ द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः॥ द्विगुः- पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः। प्राप्तो जीविकाम्, प्राप्तजीविकः। आपन्नो जीविकाम्, आपन्नजीविकः। अलं जीविकायै, अलंजीविकः। गतिसमासः- निष्क्रान्तः कौशाम्ब्याः, निष्कौशाम्बिः॥

पूर्ववदश्ववडवौ ॥ २.४.२७॥

अश्ववडवयोर्विभाषैकवद्भाव उक्तः, तत्रैकवद्भावादन्यत्र परवल्लिङ्गतायां प्राप्तायामिदमारभ्यते। अश्ववडवयोः पूर्ववल्लिङ्गं भवति। अश्वश्च वडवा चाश्ववडवौ। अर्थातिदेशश्चायम् न निपातनम्। तत्र द्विवचनमतन्त्रम्, वचनान्तरेऽपि पूर्ववल्लिङ्गता भवति-अश्ववडवान्, अश्ववडवैरिति॥

हेमन्तशिशिरावहोरात्रे चच्छन्दसि ॥ २.४.२८॥

पूर्ववदिति वर्तते। हेमन्तशिशिरौ अहोरात्रे इत्येतयोश्छन्दसि विषये पूर्ववल्लिङ्गं भवति। हेमन्तशिशि॒रावृ॑तू॒नां प्री॑णामि॒ (तै०सं० १.६.२.३)। अ॒हो॒रा॒त्रे इ॒दं ब्रू॑मः (शौ०सं० ११.६.५)। परवल्लिङ्गतापवादो योगः। अर्थातिदेशश्चायम्, नि निपातनम्। तेन द्विवचनमतन्त्रम्, वचनान्तरेऽपि पूर्ववल्लिङ्गता भवति। पू॒र्व॒प॒क्षाश्चित॑यः, अ॒प॒र॒प॒क्षाः पुरी॑षम्, अ॒हो॒रा॒त्राणीष्ट॑काः (तै०ब्रा० ३.११.१०.४)। छन्दसीति किम्? दुःखे हेमन्तशिशिरे। अहोरात्राविमौ पुण्यौ। छन्दसि लिङ्गव्यत्यय उक्तः, तस्यैवायं प्रपञ्चः॥

रात्राह्नाहाः पुंसि ॥ २.४.२९॥

कृतसमासान्तानां निर्देशः। रात्र अह्न अह इत्येते पुंसि भाष्यन्ते। परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम्। द्विरात्रः। त्रिरात्रः। चतूरात्रः। पूर्वाह्णः। अपराह्णः। मध्याह्नः। द्व्यहः। त्र्यहः॥ अनुवाकादयः पुंसीति वक्तव्यम्॥ अनुवाकः। शंयुवाकः। सूक्तवाकः॥

अपथं नपुंसकम् ॥ २.४.३०॥

अपथशब्दो नपुंसकलिङ्गो भवति। अपथमिदम्। अपथानि गाहते मूढः। इह कस्माद् न भवति- अपथो देशः, अपथा नगरी? तत्पुरुष इति वर्तते॥

अर्धर्चाः पुंसि च ॥ २.४.३१॥

अर्धर्चादयः शब्दाः पुंसि नपुंसके च भाष्यन्ते। अर्धर्चः। अर्धर्चम्। गोमयः। गोमयम्। शब्दरूपाश्रया चेयं द्विलिङ्गता क्वचिदर्थभेदेनापि व्यवतिष्ठते। यथा पद्मशङ्खशब्दौ निधिवचनौ पुँल्लिङ्गौ, जलजे उभयलिङ्गौ। भूतशब्दः पिशाचे उभयलिङ्गः, क्रियाशब्दस्याभिधेयवल्लिङ्गम्। सैन्धवशब्दो लवण उभयलिङ्गः, यौगिकस्याभिधेयवल्लिङ्गम्। सारशब्द उत्कर्षे पुँल्लिङ्गः, न्यायादनपेते नपुंसकम्, नैतत् सारमिति। धर्म इत्यपूर्वे पुँल्लिङ्गः, तत्साधने नपुंसकम्। तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् (ऋ० १.१६४.५०)॥ अर्धर्च। गोमय। कषाय। कार्षापण। कुतप। कपाट। शङ्ख। चक्र। गूथ। यूथ। ध्वज। कबन्ध। पद्म। गृह। सरक। कंस। दिवस। यूष। अन्धकार। दण्ड। कमण्डलु। मण्ड। भूत। द्वीप। द्यूत। चक्र। धर्म। कर्मन्। मोदक। शतमान। यान। नख। नखर। चरण। पुच्छ। दाडिम। हिम। रजत। सक्तु। पिधान। सार। पात्र। घृत। सैन्धव। औषध। आढक। चषक। द्रोण। खलीन। पात्रीव। षष्टिक। वार। बाण। प्रोथ। कपित्थ। शुष्क। शील। शुल्ब। सीधु। कवच। रेणु। कपट। सीकर। मुसल। सुवर्ण। यूप। चमस। वर्ण। क्षीर। कर्ष। आकाश। अष्टापद। मङ्गल। निधन। निर्यास। जृम्भ। वृत्त। पुस्त। क्ष्वेडित। शृङ्ग। शृङ्खल। मधु। मूल। मूलक। शराव। शाल। वप्र। विमान। मुख। प्रग्रीव। शूल। वज्र। कर्पट। शिखर। कल्क। नाट। मस्तक। वलय। कुसुम। तृण। पङ्क। कुण्डल। किरीट। अर्बुद। अङ्कुश। तिमिर। आश्रम। भूषण। इल्कस। मुकुल। वसन्त। तडाग। पिटक। विटङ्क। माष। कोश। फलक। दिन। दैवत। पिनाक। समर। स्थाणु। अनीक। उपवास। शाक। कर्पास। चषाल। खण्ड। दर। विटप। रण। बल। मल। मृणाल। हस्त। सूत्र। ताण्डव। गाण्डीव। मण्डप। पटह। सौध। पार्श्व। शरीर। फल। छल। पुर। राष्ट्र। विश्व। अम्बर। कुट्टिम। मण्डल। ककुद। तोमर। तोरण। मञ्चक। पुङ्ख। मध्य। बाल। वल्मीक। वर्ष। वस्त्र। देह। उद्यान। उद्योग। स्नेह। स्वर। संगम। निष्क। क्षेम। शूक। छत्र। पवित्र। यौवन। पानक। मूषिक। वल्कल। कुञ्ज। विहार। लोहित। विषाण। भवन। अरण्य। पुलिन। दृढ। आसन। ऐरावत। शूर्प। तीर्थ। लोमश। तमाल। लोह। दण्डक। शपथ। प्रतिसर। दारु। धनुस्। मान। तङ्क। वितङ्क। मव। सहस्र। ओदन। प्रवाल। शकट। अपराह्ण। नीड। शकल। अर्धर्चादिः॥

इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ॥ २.४.३२॥

आदेशः कथनम्, अन्वादेशोऽनुकथनम्। इदमोऽन्वादेशविषयस्याशादेशो भवत्यनुदात्तस्तृतीयादौ विभक्तौ परतः। आभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम्। अस्मै छात्राय कम्बलं देहि, अथोऽस्मै शाटकमपि देहि। अस्य छात्रस्य शोभनं शीलम्, अथोऽस्य प्रभूतं स्वम्। अशादेशवचनं साकच्कार्थम्। इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम्। नेह पश्चादुच्चारणमात्रमन्वादेशः। किं तर्हि? एकस्यैवाभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेशः। तेनेह न भवति- देवदत्तं भोजय, इमं च यज्ञदत्तमिति॥

एतदस्त्रतसोस्त्रतसौ चानुदात्तौ ॥ २.४.३३॥

अन्वादेश अनुदात्त इति वर्तते। एतदोऽन्वादेशविषयस्याशादेशो भवत्यनुदात्तस्त्रतसोः परतः। तौ चापि त्रतसावनुदात्तौ भवतः। एतस्मिन् ग्रामे सुखं वसामः, अथोऽत्र युक्ता अधीमहे। एतस्माच्छात्राच्छन्दोऽधीष्व, अथोऽतो व्याकरणमप्यधीष्व। सर्वानुदात्तं पदं भवति। ‘एतदोऽश्’ (५.३.५) इत्यशादेशे लब्धे पुनर्वचनमनुदात्तार्थम्॥

द्वितीयाटौस्स्वेनः॥ २.४.३४॥

अन्वादेश अनुदात्त इति वर्तते। द्वितीया टा ओस् इत्येतेषु परत इदमेतदोरन्वादेशविषययोरेनशब्द आदेशो भवत्यनुदात्तः। इदमो मण्डूकप्लुतिन्यायेनानुवृत्तिः। इमं छात्रं छन्दोऽध्यापय, अथो एनं व्याकरणमध्यापय। अनेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम्। अनयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्। एतदः खल्वपि-एतं छात्रं छन्दोऽध्यापय, अथो एनं व्याकरणमप्यध्यापय। एतेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम्। एतयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्॥ एनदिति नपुंसकैकवचने वक्तव्यम्॥ प्रक्षालयैनत्। परिवर्तयैनत्। इह कस्माद् न भवति- अयं दण्डो हरानेन, एतमातं ङितं विद्यादिति? यत्र किञ्चिद् विधाय वाक्यान्तरेण पुनरन्यदुपदिश्यते सोऽन्वादेशः। इह तु वस्तुनिर्देशमात्रं कृत्वैकमेव विधानम्॥

आर्धधातुके ॥ २.४.३५॥

आर्धधातुक इत्यधिकारोऽयम् ‘ण्यक्षत्रियार्षञितः०’ (२.४.५८) इति यावत्। यदित ऊर्ध्वमनुक्रमिष्यामस्तदार्धधातुके वेदितव्यम्। वक्ष्यति- ‘हनो वध लिङि’ (२.४.४२)- वध्यात्। आर्धधातुक इति किम्? हन्यात्। विषयसप्तमी चेयं न परसप्तमी। तेनार्धधातुकविवक्षायामादेशेषु कृतेषु पश्चाद् यथाप्राप्तं प्रत्यया भवन्ति। भव्यम्। प्रवेयम्। आख्येयम्॥

अदो जग्धिर्ल्यप्ति किति ॥ २.४.३६॥

अदो जग्धिरादेशो भवति ल्यपि परतः, तकारादौ च किति प्रत्यये। प्रजग्ध्य। विजग्ध्य। जग्धः। जग्धवान्। इकार उच्चारणार्थः, नानुबन्धः। तेन नुम् न भवति। एवं वच्यादीनामपि। इह कस्माद् न भवति- अन्नम्? ‘अन्नाण्णः’? (४.४.८५) इति निपातनात्।

** **जग्धौ सिद्धेऽन्तरङ्गत्वात्ति कितीति ल्यबुच्यते।

	ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्॥

तीति किम्? अद्यते। कितीति किम्? अत्तव्यम्॥

लुङ्सनोर्घस्ऌ ॥ २.४.३७॥

लुङि सनि च परतोऽदो घस्लादेशो भवति। ऌदित्करणमङर्थम्। लुङि- अघसत्, अघसताम्, अघसन्। सनि- जिघत्सति, जिघत्सतः, जिघत्सन्ति॥ घस्ऌभावेऽच्युप संख्यानम्॥ प्रात्तीति प्रघसः॥

घञपोश्च॥ २.४.३८॥

घञि अपि च परतोऽदो घस्लादेशो भवति। घासः। प्रघसः। ‘उपसर्गेऽदः’ (३.३.५९) इत्यप्॥

बहुलं छन्दसि ॥ २.४.३९॥

छन्दसि विषये बहुलमदो घस्लादेशो भवति। घस्तां॑ नू॒नम् (मा०सं० २१.४३)। सग्धि॑श्च मे॒ (मा०सं० १८.९)। न च भवति- आत्ता॑म॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तम् (मा०सं० २१.४३)। अन्यतरस्यांग्रहणमेव कस्माद् न क्रियते, तदेवोत्तरार्थमपि भविष्यति? कार्यान्तरार्थं बहुलग्रहणम्। घस्तामित्यत्रोपधालोपो न भवति॥

लिट्यन्यतरस्याम् ॥ २.४.४०॥

लिटि परतोऽदोऽन्यतरस्यां घस्लादेशो भवति। जघास, जक्षतुः, जक्षुः। आद, आदतुः, आदुः॥

वेञो वयिः ॥ २.४.४१॥

‘लिट्यन्यतरस्याम्’ (२.४.४०) इति वर्तते। वेञो वयिरादेशो भवत्यन्यतरस्यां लिटि परतः। इकार उच्चारणार्थः। उवाय, ऊयतुः, ऊयुः। पक्षे-ऊवतुः, ऊवुः। ‘लिटि वयो यः’ (६.१.३८) इति यकारस्य संप्रसारणं प्रतिषिध्यते। ‘वश्चास्यान्यतरस्यां किति’ (६.१.३९) इति वकारो विधीयते। ववौ, ववतुः, ववुः। ‘वेञः’ (६.१.४०) इति संप्रसारणं न भवति॥

हनो वध लिङि ॥ २.४.४२॥

हन्तेर्धातोर्वध इत्ययमादेशो भवति लिङि परत आर्धधातुके। वध्यात्, वध्यास्ताम्, वध्यासुः। अकारान्तश्चायमादेशः। तत्राकारस्य लोपो भवति। तस्य स्थानिवद्भावादवधीदिति हलन्तलक्षणा (७.२.७) वृद्धिः न भवति॥

लुङि च ॥ २.४.४३॥

लुङि च परतो हनो वध इत्ययमादेशो भवति। अवधीत्, अवधिष्टाम्, अवधिषुः। योगविभाग उत्तरार्थः। आत्मनेपदेषु लुङि विकल्पो यथा स्याल्लिङि मा भूत्॥

आत्मनेपदेष्वन्यतरस्याम् ॥ २.४.४४॥

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। आत्मनेपदेषु परतो हनो लुङ्यन्यतरस्यां वध इत्ययमादेशो भवति। आवधिष्ट, आवधिषाताम्, आवधिषत। न च भवति- आहत, आहसाताम्, आहसत॥

इणो गा लुङि ॥ २.४.४५॥

इणो गा इत्ययमादेशो भवति लुङि परतः। अगात्, अगाताम्, अगुः। लुङीति वर्तमाने पुनर्लुङ्ग्रहणम् ‘आत्मनेपदेष्वन्यतरस्याम्’ (२.४.४४) इत्येतद् मा भूत्। इह त्वविशेषेण नित्यं च भवति। अगात्। अगायि भवता॥ इण्वदिक इति वक्तव्यम्॥ अध्यगात्, अध्यगाताम्, अध्यगुः॥

णौ गमिरबोधने ॥ २.४.४६॥

णौ परत इणोऽबोधनार्थस्य गमिरादेशो भवति। इकार उच्चारणार्थः। गमयति, गमयतः, गमयन्ति। अबोधन इति किम्? प्रत्याययति। इण्वदिक इत्येव- अधिगमयति॥

सनि च ॥ २.४.४७॥

सनि परत इणोऽबोधनार्थस्य गमिरादेशो भवति। जिगमिषति, जिगमिषतः, जिगमिषन्ति। अबोधन इत्येव- अर्थान् प्रतीषिषति। इण्वदिक इत्येव- अधिजिगमिषति। योगविभाग उत्तरार्थः। ‘इङश्च’ (२.४.४८) इति सन्येव यथा स्यात्॥

इङश्च ॥ २.४.४८॥

इङश्च सनि परतो गमिरादेशो भवति। अधिजिगांसते, अधिजिगांसेते, अधिजिगांसन्ते॥

गाङ् लिटि ॥ २.४.४९॥

गाङादेशो भवतीङो लिटि परतः। अधिजगे, अधिजगाते, अधिजगिरे। गाङोऽनुबन्धकरणं विशेषणार्थम्,‘गाङ्कुटादिभ्यः०’ (१.२.१) इत्यत्रास्य ग्रहणं यथा स्यात्। नहि स्थानिवद्भावेन गाङिति रूपं लभ्यते॥

विभाषा लुङ्लृङोः ॥ २.४.५०॥

लुङि लृङि च परत इङो विभाषा गाङादेशो भवति। आदेशपक्षे ‘गाङ्कुटादिभ्यः०’ (१.२.१) इति ङित्त्वम्, ‘घुमास्थागापाजहातिसां हलि’ (६.४.६६) इतीत्वम्। अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। न च भवति- अध्यैष्ट, अध्यैषाताम्, अध्यैषत। लृङि खल्वपि- अध्यगीष्यत, अध्यगीष्येताम्, अध्यगीष्यन्त। न च भवति- अध्यैष्यत, अध्यैष्येताम्, अध्यैष्यन्त॥

णौ च संश्चङोः ॥ २.४.५१॥

इङो गाङ् विभाषेति वर्तते। णावितीङपेक्षया परसप्तमी, संश्चङोरिति च ण्यपेक्षया। णौ सन्परे चङ्परे च परत इङो विभाषा गाङादेशो भवति। अधिजिगापयिषति। न च भवति- अध्यापिपयिषति। चङि खल्वपि- अध्यजीगपत्। न च भवति-अध्यापिपत्॥

अस्तेर्भूः ॥ २.४.५२॥

अस्तेर्धातोर्भू इत्ययमादेशो भवत्यार्धधातुके। भविता। भवितुम्। भवितव्यम्। इह कस्माद् न भवति- ईहामास, ईहामासतुः, ईहामासुः? ‘कृञ्चानुप्रयुज्यते लिटि’ (३.१.४०) इति प्रत्याहारग्रहणेनास्तेर्ग्रहणसामर्थ्यात्। तथा चोच्यते- “अनुप्रयोगे तु भुवास्त्यबाधनं स्मरन्ति कर्तुर्वचनान् मनीषिणः” (महाभाष्य ३.२१६) इति॥

** ब्रुवो वचिः ॥ २.४.५३॥**

ब्रुवो वचिरादेशो भवत्यार्धधातुकविषये। इकार उच्चारणार्थः। वक्ता। वक्तुम्। वक्तव्यम्। स्थानिवद्भावेन कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदं भवति। ऊचे। वक्ष्यते॥

चक्षिङः ख्याञ् ॥ २.४.५४॥

चक्षिङः ख्याञादेशो भवत्यार्धधातुके। आख्याता। आख्यातुम्। आख्यातव्यम्। स्थानिवद्भावेन नित्यमात्मनेपदं न भवति, ञकारानुबन्धकरणसामर्थ्यात्। आख्यास्यति। आख्यास्यते॥ क्शादिरप्ययमादेश इष्यते॥ आक्शाता। आक्शातुम्। आक्शातव्यम्॥ वर्जने प्रतिषेधो वक्तव्यः॥ दुर्जनाः संचक्ष्याः। वर्जनीया इत्यर्थः॥ असनयोश्च प्रतिषेधो वक्तव्यः॥ नृ॒चक्षा॒ रक्षः॒ (शौ०सं० ८.३.१०) हिंसार्थोऽत्र धातुः। अने खल्वपि- विचक्षणः पण्डितः॥ बहुलं संज्ञाछन्दसोरिति वक्तव्यम्॥ अन्नवधकगात्रविचक्षणाजिराद्यर्थम्॥

वा लिटि ॥ २.४.५५॥

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। लिटि परतश्चक्षिङः ख्याञ् आदेशो वा भवति। आचख्यौ, आचख्यतुः, आचख्युः। न च भवति- आचचक्षे, आचचक्षाते, आचचक्षिरे॥

अजेर्व्यघञपोः॥ २.४.५६॥

अजेर्धातोर्वीत्ययमादेशो भवत्यार्धधातुके परतो घञपौ वर्जयित्वा। प्रवायकः। प्रवयणीयः। अघञपोरिति किम्? समाजः। उदाजः। अपि तु - समजः। उदजः। ‘समुदोरजः पशुषु’ (३.३.६९) इत्यप्। दीर्घोच्चारणं किम्? प्रवीताः॥ घञपोः प्रतिषेधे क्यप उपसंख्यानं कर्तव्यम्॥ समज्या॥ वलादावार्धधातुके विकल्प इष्यते॥ प्रवेता, प्राजिता। प्रवेतुम्, प्राजितुम्॥

वा यौ॥ २.४.५७॥

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। यु इति ल्युटो ग्रहणम्। यौ परभूते अजेर्वा वी इत्ययमादेशो भवति। प्रवयणो दण्डः। प्राजनो दण्डः। प्रवयणमानय। प्राजनमानय॥

ण्यक्षत्रियार्षञितो यूनि लुगणिञोः॥ २.४.५८॥

ण्यादयो गोत्रप्रत्ययाः। ण्यान्तात् क्षत्रियगोत्राद् आर्षाद् ञितश्च परयोरणिञोर्यूनि लुग् भवति। ण्यान्तात् तावत्- ‘कुर्वादिभ्यो ण्यः’ (४.१.१५१) तस्माद् यूनि इञ्, तस्य लुक्। कौरव्यः पिता। कौरव्यः पुत्रः। ननु च कौरव्यशब्दस्तिकादिषु पठ्यते, ततः फिञा भवितव्यम्, कौरव्यायणिरिति? क्षत्रियगोत्रस्य तत्र ग्रहणं ‘कुरुनादिभ्यो ण्यः’ (४.१.१७२)इत्यनेन विहितस्य। इदं तु ब्राह्मणगोत्रम्। ‘कुर्वादिभ्यो ण्यः’(४.१.१५१) इति ण्यः। क्षत्रिय- ‘ऋष्यन्धकवृष्णिकुरुभ्यश्च’ (४.१.११४) इत्यण्। तस्माद् यूनि इञ्, तस्य लुक्। श्वाफल्कः पिता। श्वाफल्कःपुत्रः। आर्ष- ‘ऋष्यण्’ (४.१.११४), तस्माद् यूनीञ्, तस्य लुक्। वासिष्ठः पिता। वासिष्ठः पुत्रः। ञित्- ‘अनृष्यानन्तर्ये बिदादिभ्योऽञ्’ (४.१.१०४), तस्माद् यूनीञ्, तस्य लुक्। बैदः पिता। बैदः पुत्रः। अणः खल्वपि- ‘तिकादिभ्यः फिञ्’ (४.१.१५४), तस्माद् यूनि ‘प्राग् दीव्यतोऽण्’ (४.१.८३), तस्य लुक्। तैकायनिः पिता। तैकायनिः पुत्रः। एतेभ्य इति किम्? ‘शिवादिभ्योऽण्’ (४.१.११२), तस्माद् यूनि ‘अत इञ्’ (४.१.९५), तस्य न लुग् भवति। कौहडः पिता। कौहडिः पुत्रः। यूनीति किम्? वामरथ्यस्य छात्रा वामरथाः। ‘कुर्वादिभ्यो ण्यः’ (४.१.१५१) इति ण्यः, तस्मात् ‘कण्वादिभ्यो गोत्रे’ (४.२.१११) इति शैषिकोऽण्। तस्य लुग् न भवति। अणिञोरिति किम्? दाक्षेरपत्यं युवा दाक्षायणः॥ अब्राह्मणगोत्रमात्राद् युवप्रत्ययस्योपसंख्यानम्॥ बौधिः पिता। बौधिः पुत्रः। जाबालिः पिता। जाबालिः पुत्रः। औदुम्बरिः पिता। औदुम्बरिः पुत्रः। भाण्डीजङ्घिः पिता। भाण्डीजङ्घिः पुत्रः। साल्वावयवलक्षण इञ्। तस्मात् फक्, तस्य लुक्॥ पैलादिदर्शनात् सिद्धम्॥

पैलादिभ्यश्च ॥ २.४.५९॥

पैल इत्येवमादिभ्यश्च युवप्रत्ययस्य लुग् भवति। ‘पीलाया वा’ (४.१.११८) इत्यण्। तस्माद् ‘अणो द्व्यचः’ (४.१.१५६) इति फिञ्, तस्य लुक्। पैलः पिता। पैलः पुत्रः। अन्ये पैलादय इञन्तास्तेभ्य ‘इञःप्राचाम्’(२.४.६०)इति लुकि सिद्धेऽप्रागर्थः पाठः॥ पैल। शालङ्कि। सात्यकि। सात्यकामि। दैवि। औदमज्जि। औदव्रजि। औदमेघि। औदबुद्धि। दैवस्थानि। पैङ्गलायनि। राणायनि। रौहक्षिति। भौलिङ्गि। औद्गाहमानि। औज्जिहानि। तद्राजाच्चाणः (ग०सू० २१)। आकृतिगणोऽयम्॥

इञः प्राचाम् ॥ २.४.६०॥

गोत्रे य इञ् तदन्ताद् युवप्रत्ययस्य लुग् भवति। गोत्रविशेषणं प्राग्ग्रहणम् ,न विकल्पार्थम् । पान्नागारेरपत्यं युवा। ‘यञिञोश्च’(४.१.१०१) इति फक्, तस्य लुक्। पान्नागारिः पिता। पान्नागारिः पुत्रः। मान्थरैषणिः पिता। मान्थरैषणिः पुत्रः। प्राचामिति किम्? दाक्षिः पिता। दाक्षायणः पुत्रः॥

न तौल्वलिभ्यः ॥ २.४.६१॥

अनन्तरेण प्राप्तो लुक् प्रतिषिध्यते। तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य न लुग् भवति। तौल्वलिः पिता। तौल्वलायनः पुत्रः॥ तौल्वलि। धारणि। रावणि। पारणि। दैलीपि। दैवलि। दैवमित्रि। दैवयज्ञि। प्रावाहणि । मान्धातकि। आनुहारति। श्वाफल्कि। आनुमति। आहिंसि। आसुरि। आयुधि। नैमिषि। आसिबन्धकि। बैकि। आन्तरहाति। पौष्करसादि। वैरकि। वैलकि। वैहति। वैकर्णि। कारेणुपालि। कामालि॥

तद्राजस्य बहुषु तेनैवास्त्रियाम् ॥ २.४.६२॥

‘ते तद्राजाः’ (४.१.१७४), ‘ञ्यादयस्तद्राजाः’ (५.३.११९) इति वक्ष्यति। तस्य तद्राजसंज्ञस्य प्रत्ययस्य बहुषु वर्तमानस्यास्त्रीलिङ्गस्य लुग् भवति, तेनैव चेत् तद्राजेन कृतं बहुत्वं भवति। अङ्गाः। वङ्गाः। पुण्ड्राः। सुह्माः। मगधाः। लोहध्वजाः। व्रीहिमन्तः। तद्राजस्येति किम्? औपगवाः। बहुष्विति किम्? आङ्गः। तेनैवग्रहणं किम्? प्रियो वाङ्गो येषां त इमे प्रियवाङ्गाः। अस्त्रियामिति किम्? आङ्ग्यः स्त्रियः॥

यस्कादिभ्यो गोत्रे ॥ २.४.६३॥

बहुषु तेनैवास्त्रियामिति सर्वमनुवर्तते। यस्क इत्येवमादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु वर्तमानस्यास्त्रीलिङ्गस्य लुग् भवति, तेनैव चेद् गोत्रप्रत्ययेन कृतं बहुत्वं भवति। प्रत्ययविधेश्चान्यत्र लौकिकस्य गोत्रस्य ग्रहणमित्यनन्तरापत्येऽपि लुग् भवत्येव। यस्काः। लभ्याः। बहुष्वित्येव-यास्कः। तेनैवेत्येव-प्रिययास्काः। अस्त्रियामित्येव-यास्क्यः स्त्रियः। गोत्र इति किम्? यास्काश्छात्राः॥ यस्क। लभ्य। दुह्य। अयःस्थूण। तृणकर्ण। एते पञ्च शिवादिषु पठ्यन्ते। ततः परेभ्यः षड्भ्य इञ्। सदामत्त। कम्बलभार। बहिर्योग। कर्णाटक। पिण्डीजङ्घ। बकसक्थ। ततः परेभ्यश्चतुर्भ्यो ‘गृष्ट्यादिभ्यश्च’(४.१.१३६) इति ढञ्। बस्ति। कुद्रि। अजबस्ति। मित्रयु। ततः परेभ्यो द्वादशभ्य इञ्। रक्षोमुख। जङ्घारथ। उत्कास। कटुकमन्थक। पुष्करसत्। विषपुट। उपरिमेखल। क्रोष्टुमान। क्रोष्टुपाद। क्रोष्टुमाय। शीर्षमाय। पुष्करसच्छब्दाद् बाह्वादिपाठादिञ्। खरपशब्दो नडादिषु पठ्यते। ततःफक्। पदक। वर्मक। एताभ्याम् ‘अत इञ्’ (४.१.९५)। भलन्दनशब्दात् ‘शिवादिभ्योऽण्’ (४.१.११२)। भडिल। भण्डिल। भडित। भण्डित। एतेभ्यश्चतुर्भ्यः‘अश्वादिभ्यः फञ्’(४.१.११०)॥

यञञोश्च ॥ २.४.६४॥

बहुषु तेनैवास्त्रियां गोत्र इति चानुवर्तते। यञोऽञश्च गोत्रप्रत्ययस्य बहुषु वर्तमानस्यास्त्रीलिङ्गस्य लुग् भवति। ‘गर्गादिभ्यो यञ्’(४.१.१०५)-गर्गाः। वत्साः। अञः खल्वपि- ‘अनृष्यानन्तर्ये बिदादिभ्योऽञ्’ (४.१.१०४)- बिदाः। उर्वाः। बहुष्वित्येव-गार्ग्यः। बैदः। तेनैवेत्येव- प्रियगार्ग्याः। प्रियबैदाः। अस्त्रियामित्येव- गार्ग्यः स्त्रियः। बैद्यः स्त्रियः। गोत्र इत्येव-‘द्वीपादनुसमुद्रं यञ्’(४.३.१०)-द्वैप्याः। ‘उत्सादिभ्योऽञ्’ (४.१.८६)- औत्साश्छात्राः॥ यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानम्॥ गार्ग्यस्य कुलम्, गार्ग्यकुलम्, गर्गकुलं वा। गार्ग्ययोः कुलम्, गार्ग्यकुलम्, गर्गकुलं वा। एवं बैदस्य कुलम्, बैदकुलम्, बिदकुलं वा। बैदयोः कुलम्, बैदकुलम्, बिदकुलं वा। यञादीनामिति किम्? आङ्गकुलम्। एकद्वयोरिति किम्? गर्गाणां कुलम्, गर्गकुलम्। तत्पुरुष इति किम्? गार्ग्यस्य समीपमुपगार्ग्यम्। षष्ठ्या इति किम्? परमगार्ग्यः॥

अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ॥ २.४.६५॥

अत्र्यादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग् भवति। अत्रिशब्दाद् ‘इतश्चानिञः’ (४.१.१२२) इति ढक्। इतरेभ्य ऋष्यण् (४.१.११४)। अत्रयः। भृगवः। कुत्साः। वसिष्ठाः। गोतमाः। अङ्गिरसः। बहुष्वित्येव-आत्रेयः, भार्गवः। तेनैवेत्येव-प्रियात्रेयाः। प्रियभार्गवाः। अस्त्रियामिति किम्? आत्रेय्यः स्त्रियः॥

बह्वच इञः प्राच्यभरतेषु ॥ २.४.६६॥

बह्वचः प्रातिपदिकाद् य इञ् विहितः प्राच्यगोत्रे भरतगोत्रे च वर्तते, तस्य बहुषु लुग् भवति। पन्नागाराः। मन्थरैषणाः। भरतेषु खल्वपि-युधिष्ठिराः। अर्जुनाः। बह्वच इति किम्? बैकयः। पौष्पयः। प्राच्यभरतेष्विति किम्? बालाकयः। हास्तिदासयः। भरताः प्राच्या एव, तेषां पुनर्गर्हणं ज्ञापनार्थम्-अन्यत्र प्राग्ग्रहणे भरतग्रहणं न भवतीति। तेन ‘इञः प्राचाम्’ (२.४.६०) इति भरतानां युवप्रत्ययस्य लुग् न भवति। आर्जुनिः पिता। आर्जुनायनः पुत्रः॥

न गोपवनादिभ्यः॥ २.४.६७॥

गोपवनादिभ्यः परस्य गोत्रप्रत्ययस्य लुग् न भवति। बिदाद्यन्तर्गणोऽयम्। ततोऽञो गोत्रप्रत्ययस्य ‘यञञोश्च’ (२.४.६४) इति लुक् प्राप्तः प्रतिषिध्यते। गौपवनाः। शैग्रवाः॥ गोपवन। शिग्रु। बिन्दु। भाजन। अश्व। अवतान। श्यामाक। श्वापर्ण। एतावन्त एवाष्टौ गोपवनादयः। परिशिष्टानां हरितादीनां प्रमादपाठः। ते हि चतुर्थे बिदादिषु पठ्यन्ते। तेभ्यश्च बहुषु लुग् भवत्येव, हरिताः। किंदासा इति॥

तिककितवादिभ्यो द्वन्द्वे ॥ २.४.६८॥

तिकादिभ्यः कितवादिभ्यश्च द्वन्द्वे गोत्रप्रत्ययस्य बहुषु लुग् भवति। तैकायनयश्च कैतवायनयश्च। ‘तिकादिभ्यः फिञ्’(४.१.१५४)। तस्य लुक्। तिककितवाः। वाङ्खरयश्च भाण्डीरथयश्च। ‘अत इञ्’ (४.१.९५)। तस्य लुक्। वङ्खरभण्डीरथाः। औपकायनाश्च लामकायनाश्च। ‘नडादिभ्यःफक्’ (४.१.९९)। तस्य लुक्। उपकलमकाः। पाफकयश्च नारकयश्च। ‘अत इञ्’ (४.१.९५)। तस्य लुक्। पफकनरकाः। बाकनखयश्च श्वागुदपरिणद्धयश्च। ‘अत इञ्’(४.१.९५)। तस्य लुक्। बकनखश्वगुदपरिणद्धाः। उब्जशब्दाद् ‘अत इञ्’ (४.१.९५)। ककुभशब्दात् ‘शिवादिभ्योऽण्’ (४.१.११२)। तयोर्लुक्। औब्जयश्च काकुभाश्च उब्जककुभाः। लाङ्कयश्च शान्तमुखयश्च। ‘अत इञ्’ (४.१.९५)। तस्य लुक्। लङ्कशान्तमुखाः। उरसशब्दस्तिकादिषु पठ्यते, ततःफिञ्। लङ्कटशब्दादिञ्। तयोर्लुक्। औरसायनयश्च लाङ्कटयश्च, उरसलङ्कटाः। भ्राष्टकयश्च कापिष्ठलयश्च। ‘अत इञ्’(४.१.९५)। तस्य लुक्। भ्रष्टककपिष्ठलाः। कार्ष्णाजिनयश्च कार्ष्णसुन्दरयश्च। ‘अत इञ्’ (४.१.९५)। तस्य लुक्। कृष्णाजिनकृष्णसुन्दराः। आग्निवेश्यश्च दासेरकयश्च। अग्निवेशशब्दाद् ‘गर्गादिभ्यो यञ्’ (४.१.१०५)। दासेरकशब्दाद् ‘अत इञ्’ (४.१.९५)। तयोर्लुक्। अग्निवेशदासेरकाः॥

उपकादिभ्योऽन्यतरस्यामद्वन्द्वे ॥ २.४.६९॥

उपक इत्येवमादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग् भवत्यन्यतरस्यां द्वन्द्वे चाद्वन्द्वे च। अद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्त्यर्थम्। एतेषां च मध्ये त्रयो द्वन्द्वास्तिककितवादिषु पठ्यन्ते- उपकलमकाः, भ्रष्टककपिष्ठलाः, कृष्णाजिनकृष्णसुन्दरा इति। तेषां पूर्वेण नित्यमेव लुग् भवति। अद्वन्द्वे त्वनेन विकल्पः। उपकाः, औपकायनाः। लमकाः, लामकायनाः। भ्रष्टकाः, भ्राष्टकयः। कपिष्ठलाः,कापिष्ठलयः। कृष्णाजिनाः, कार्ष्णाजिनयः। कृष्णसुन्दराः, कार्ष्णसुन्दरय इति। परिशिष्टानां च द्वन्द्वेऽद्वन्द्वे च विकल्प इति। पण्डारक। अण्डारक। गडुक। सुपर्यक। सुपिष्ठ। मयूरकर्ण। खारीजङ्घ। शलावल। पतञ्जल। कठेरणि। कुषीतक। काशकृत्स्न। निदाघ। कलशीकण्ठ। दामकण्ठ। कृष्णपिङ्गल। कर्णक। पर्णक। जटिलक। बधिरक। जन्तुक। अनुलोम। अर्धपिङ्गलक। प्रतिलोम। प्रतान। अनभिहित॥

आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ॥ २.४.७०॥

आगस्त्यकौण्डिन्ययोर्गोत्रप्रत्यययोरणो यञश्च बहुषु लुग् भवति, परिशिष्टस्य च प्रकृतिभागस्य यथासंख्यमगस्ति कुण्डिनच् इत्येतावादेशौ भवतः। अगस्तयः। कुण्डिनाः। चकारःस्वरार्थः। मध्योदात्तो हि कुण्डिनीशब्दस्तदादेशोऽपि तथा स्यात्। अगस्त्यशब्दादृष्यण्। कुण्डिनीशब्दाद् गर्गादित्वाद् यञ्। तयोः ‘गोत्रेऽलुगचि’(४.१.८९) इति लुकि प्रतिषिद्ध आगस्तीयाश्छात्रा इति वृद्धलक्षणश्छो भवति। कौण्डिन्ये त्वणैव भवितव्यं ‘कण्वादिभ्यो गोत्रे’(४.२.१११) इति। तत्र विशेषो नास्ति। कौण्डिनाश्छात्राः॥

सुपो धातुप्रातिपदिकयोः॥ २.४.७१॥

सुपो विभक्तेर्धातुसंज्ञायाः प्रातिपदिकसंज्ञायाश्च लुग् भवति। तदन्तर्गतास्तद्ग्रहणेन गृह्यन्ते। धातोस्तावत्-पुत्रीयति। घटीयति। प्रातिपदिकस्य-कष्टश्रितः। राजपुरुषः। धातुप्रातिपदिकयोरिति किम्? वृक्षः। प्लक्षः॥

अदिप्रभृतिभ्यः शपः॥ २.४.७२॥

अदिप्रभृतिभ्य उत्तरस्य शपो लुग् भवति। अत्ति। हन्ति। द्वेष्टि॥

बहुलं छन्दसि॥ २.४.७३॥

छन्दसि विषये शपो बहुलं लुग् भवति। अदिप्रभृतिभ्य उक्तस्ततो न भवत्यपि। वृ॒त्रं ह॑॑॑नति (ऋ० ८.८९.३)। अहि॑॑ः॑ शयते (ऋ०१.३२.५)। अन्येभ्यश्च भवति-त्राध्वं॑ नो देवाः(ऋ०२.२९.६)॥

यङोऽचि च॥ २.४.७४॥

यङो लुग् भवत्यचि प्रत्यये परतः। चकारेण बहुलग्रहणमनुकृष्यते, न तु छन्दसीति। तेन छन्दसि भाषायां च यङो लुग् भवति। लोलुवः। पोपुवः। सनीस्रंसः। दनीध्वंसः। बहुलग्रहणादनच्यपि भवति। शाकुनिको लालपीति। दुन्दुभिर्वावदीति॥

जुहोत्यादिभ्यःश्लुः॥ २.४.७५॥

शबनुवर्तते, न यङ्। जुहोत्यादिभ्य उत्तरस्य शपः श्लुर्भवति। लुकि प्रकृते श्लुविधानं द्विर्वचनार्थम्। जुहोति। बिभर्ति। नेनेक्ति॥

बहुलं छन्दसि॥ २.४.७६॥

छन्दसि विषये बहुलं शपः श्लुर्भवति। यत्रोक्तं तत्र न भवति, अन्यत्रापि भवति। जुहोत्यादिभ्यस्तावद् न भवति। दाति॑॑॑ पि्॒रयाण्ि॑ा॑ (ऋ०४.८.३)। धाति दे॒वम् (ऋ०७.९०.३)। अन्येभ्यश्च भवति। पू॒र्णां वि॑॑वष्टि (ऋ०७.१६.११)। जनि॑॑मा विवक्ति(ऋ०९.९७.७)॥

गातिस्थाघुपाभूभ्यः सिचःपरस्मैपदेषु॥ २.४.७७॥

लुगनुवर्तते, न श्लुः। गाति स्था घु पा भू इत्येतेभ्यः परस्य सिचो लुग् भवति परस्मैपदेषु परतः। अगात्। अस्थात्। अदात्। अधात्। अपात्। अभूत्॥ गापोर्गर्हणे इण्पिबत्योर्ग्रहणम्॥ गायतेः पातेश्च न भवति। अगासीन् नटः। अपासीन् नृपः। परस्मैपदेष्विति किम्? अगासातां ग्रामौ देवदत्तेन॥

विभाषा घ्राधेट्शाच्छासः॥ २.४.७८॥

घ्रा धेट् शा छा सा इत्येतेभ्य उत्तरस्य सिचः परस्मैपदेषु विभाषा लुग् भवति। धेटः पूर्वेण नित्ये प्राप्ते विभाषार्थं वचनम्। परिशिष्टानामप्राप्ते। अघ्रात्, अघ्रासीत्। अधात्, अधासीत्। अशात् अशासीत्। अच्छात्, अच्छासीत्। असात्, असासीत्। परस्मैपदेष्वित्येव-अघ्रासातां सुमनसौ देवदत्तेन॥

तनादिभ्यस्तथासोः॥ २.४.७९॥

तनादिभ्य उत्तरस्य सिचस्तथासोः परतो विभाषा लुग् भवति। अतत। अतथाः। अतनिष्ट। अतनिष्ठाः। असात। असाथाः। असनिष्ट। असनिष्ठाः। ‘जनसनखनाम्०’(६.४.४२) इत्यात्वम्। थासा साहचर्यादात्मनेपदस्य तशब्दस्य ग्रहणम्, परस्मैपदे न भवति-अतनिष्ट यूयम्॥

मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः॥ २.४.८०॥

मन्त्रविषये घस ह्वर णश वृ दह आत् वृच् कृ गमि जनि इत्येतेभ्य उत्तरस्य लेर्लुग् भवति। घस-अक्ष्॑ा॑न् पि॒तरोऽमी॑मदन्त पि॒तरः(तै०सं० १.८.५.३.)। ह्वर इति ‘ह्वृ कौटिल्ये’। मा ह्वा॑र्मि॒त्रस्य॑॑ त्वा॒ (तै०सं० १.१.४.१)। णश-धू॒र्तिः प्रण्ा॒ङ् मत्॑॑र्यस्य (ऋ० १.१८.३)। वृ इति वृङ्वृञोः सामान्येन ग्रहणम्। सु॒रुचो॑॑ वे॒न अ॑ा॑वः (मा०सं० १३.३)। दह-मा न॒ आ ध॑॑क् (ऋ० ६.६१.१४)। आदिति आकारान्तग्रहणम्। ‘प्रा पूरणे’-आप्॒रा द्याव॑ा॑पृथि॒वी अ॒न्तरि॑॑क्ष॒म् (ऋ० १.११५.१)। वृच्-मा नो॑॑॑ अ॒स्मिन् म॑॑हाध॒ने पर॑ा॑ वर्क(ऋ०८.७५.१२)। कृ-अक्॒रन् कर्म॑ कर्म॒कृतः॑ (तै०सं० १.८.३.५)। गमि-अग्मन् (ऋ० १.१२२.७)। जनि-अज्ञत वा अस्य दन्ताः (ऐ०ब्रा० ७.१४.८)। ब्राह्मणे प्रयोगोऽयम्। मन्त्रग्रहणं तु छन्दस उपलक्षणार्थम्॥

आमः॥ २.४.८१॥

आमः परस्य लेर्लुग् भवति। ईहांचक्रे। ऊहांचक्रे। ईक्षांचक्रे॥

अव्ययादाप्सुपः॥ २.४.८२॥

अव्ययादुत्तरस्यापः सुपश्च लुग् भवति। तत्र शालायाम्। यत्र शालायाम्। सुपः खल्वपि-कृत्वा। हृत्वा॥

नाव्ययीभावादतोऽम् त्वपञ्चम्याः॥ २.४.८३॥

पूर्वेण लुक् प्राप्तः प्रतिषिध्यते। अदन्तादव्ययीभावादुत्तरस्य सुपो न लुग् भवति, अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः। एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति। उपकुम्भं तिष्ठति। उपकुम्भं पश्य। उपमणिकं तिष्ठति। उपमणिकं पश्य। अत इति किम्? अधिस्त्रि। अधिकुमारि। अपञ्चम्या इति किम्? उपकुम्भादानय॥

तृतीयासप्तम्योर्बहुलम्॥ २.४.८४॥

पूर्वेण नित्यमम्भावे प्राप्ते वचनमिदम्। तृतीयासप्तम्योर्विभक्त्योर्बहुलमम्भावो भवत्यव्ययीभावे। उपकुम्भेन कृतम्। उपकुम्भं कृतम्। उपकुम्भे निधेहि। उपकुम्भं निधेहि॥ सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यममिति वक्तव्यम्॥ सुमद्रम्। सुमगधम्। उन्मत्तगङ्गम्। लोहितगङ्गम्। एकविंशतिभारद्वाजम्। बहुलवचनात् सिद्धम्॥

लुटः प्रथमस्य डारौरसः॥ २.४.८५॥

लुडादेशस्य प्रथमपुरुषस्य परस्मैपदस्यात्मनेपदस्य च यथाक्रमं डा रौ रस् इत्येत आदेशा भवन्ति। कर्ता, कर्तारौ, कर्तारः। आत्मनेपदस्य-अध्येता, अध्येतारौ, अध्येतारः। प्रथमस्येति किम्? श्वः कर्तासि। श्वोऽध्येतासे॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः॥