११ भ्रमजनकाः प्राचीनाः प्रयोगाः

११. एकादशोऽध्यायः भ्रमजनकाः प्राचीनाः प्रयोगाः अस्माभिः लोके तादृशाः अपि प्रयोगाः दृश्यन्ते, येषु शब्दाशुद्धिः स्फुटा । तान् अनुकुर्वन्तः यदि वयं तेषां शब्दानाम् उपयोगं कुर्याम तर्हि दोषभागिनः स्याम ।

एते प्रयोगाः उच्यन्ते आर्षप्रयोगाः इति महाकविप्रयोगाः इति वा । यद्यपि ते व्याकरणनियमानुगुणाः न भवन्ति, तथापि तत्र साधुता तु अस्ति एव । तेषाम् अनुकरणं कुर्वन्तः वयम् अपि यदि प्रयोगं कुर्याम तर्हि

अस्मत्प्रयोगाणाम् असाधुता ।

‘आर्षप्रयोगः’ ‘महाकविप्रयोगः’ वा (व्याकरणाननुगुणः) यदि दृश्यते तर्हि तत्प्रयोक्तृणां विषये अल्पा अपि अनादरबुद्धिः न प्रकाशनीया । आदरपात्राणि ते । तादृशानां प्रयोगाणां पठनतः नास्माकं कापि हानिः । “यू स्त्र्याख्यौ नदी’ इति सूत्रे महाभाप्थे उद्योतकारः नागेशः वदति - “ऋषीणां तपोमाहात्म्यात्तु तदुच्चारयितृणाम् अस्माकं न प्रत्यवायः” इति । तान् एव प्रयोगान् प्रमाणभूतान् मत्वा तादृशाः एव प्रयोगाः अस्माभिः अपि न करणीयाः ।

अधः केचन आर्ष-महाकविप्रयोगाः दर्श्यन्ते । तत्प्रयोगकर्तृणां विषये तु महान् आदरः उह्यते एव । “एतान् प्रयोगान् अनुकुर्वन्तः वयं दोषभागिनः न स्याम’ इति उद्देशेन एते अत्र प्रदर्श्यन्ते । अस्मिन् अंशे दोषः अस्ति इति न ज्ञायते चेत् दोषयुक्तस्यापि अंशस्य अनुकरणं भवितुम् अर्हति कदाचित् । अतः प्रसिद्धाः केचन आर्ष-महाकवि-प्रयोगाः अत्र दर्श्यन्ते । ०१. रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ।।

  • प्रसिद्धः श्लोकः कश्चन ‘सीतायाः पत्ये’ इति, ‘सीतापतये’ इति वा वक्तव्यम् । घिसंज्ञायां सत्येव ‘पतये’ इति रूपं भवति । पतिशब्दस्य घिसंज्ञा तु ‘पतिः समास एव’ (१.४.८) इति सूत्रेण समासे एव । अतः ‘सीतापतये’ इति रूपं साधु । यदि समासः न क्रियते तर्हि पत्ये इति

रूपम् ।

246

शुद्धिकौमुदी

यद्यपि ‘सीतायाः पतये नमः’ इति मनोरमायां कथञ्चित् समर्थितम्,

सा तु अगतिकगतिः । ०२. मनो न रमते स्त्रीणां जराजीर्णेन्द्रिये पतौ ।

“पत्यौ’ इति प्रयोक्तव्यम् । पतिशब्दस्य सप्तमीविभक्तौ एकवचने “पत्यौ’ इति रूपम् । ‘पतौ’ इति तु घिसंज्ञायां सत्याम् एव । पतिशब्दस्य घिसंज्ञा भवति समासे एव । पतौ इत्यत्र न समासः ।

अतः ‘पतौ’ इति रूपं दोषाय । यदि श्लोकस्य साधुत्वं कथञ्चित् कल्पनीयं तर्हि ‘जरा जीर्णेन्द्रियेऽपतौ’ इति पाठः वक्तव्यः । ‘अपतौ’ इति तु साधु रूपम् । कुत्सितः पतिः अपतिः । अप्राशस्त्ये अत्र नञ् । नसमासत्वात् घिसंज्ञा प्राप्ता । तदा ‘अपतौ’ इति रूपम् । ‘नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ’ इत्यत्रापि ‘पत्यौ’ इति

प्रयोक्तव्ये ‘पतौ’ इति प्रयोगः कृतः दृश्यते । ०३. पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी।

शङ्खो रोदिति भिक्षार्थी फलं भाग्यानुसारतः ।।

_ - (वृद्ध)चाणक्यशतकम् ‘सहोदरी’ इति रूपं न सिध्यति । ‘सहोदरा’ इत्येव शुद्धम् । ‘सहनविद्यमानपूर्वाच्च’ (४.१.५७) इति सूत्रेण, ‘नासिकोदर…’ इति सूत्रेण विहितस्य ङीषः निषेधः क्रियते । तस्मात् न ईकारान्तता,

अपि तु आकारान्तता एव । ०४. त्यजेन्मायाविनं मित्रं धनं प्राणहरं त्यजेत् ।

‘मायावि मित्रम्’ इति प्रयोक्तव्यम् ।। सुहृत्पर्यायः मित्रशब्दः नपुंसके । तस्य विशेषणं ‘मायावि’शब्दः अपि नपुंसके एव स्यात् । तस्य द्वितीयैकवचनान्तं रूपम् अपि ‘मायावि’ इत्येव । ‘स्वमोर्नपुंसकात्’ (७.१.२३) इति सूत्रेण अमः लोपे “नलोपः प्रातिपदिकान्तस्य’ (८.२.७) इत्यनेन नकारलोपे ‘मायावि’ इति रूपम् । “मायाविनम्’ इति तु पुँल्लिङ्गे

द्वितीयैकवचनान्तम् । ०५. नातन्त्रीर्विद्यते वीणा नाचक्रो विद्यते रथः ।

  • रामायणे

प्रमजनकाः प्राचीनाः प्रयोगाः

247

‘अतन्त्रीका’ इति प्रयोक्तव्यम् ।

अविद्यमानाः तन्त्र्यः यस्याः सा इति विग्रहः । ‘नवृतश्च’ (५.४.१५३) इति सूत्रेण कप्प्रत्ययः । कपः निषेधस्तु ‘नाडीतन्त्र्योः स्वाने’ (५.४.१५९) इति सूत्रेण स्वाने एव विहितः । यथा - बहुतन्त्रीः ग्रीवा । (स्वाङ्गं नाम काचित् संज्ञा । प्रायः शरीरावयवः भवति ।) ‘अतन्त्रीका वीणा’ इत्यत्र स्वाङ्गसंज्ञा नास्ति । अतः कप्प्रत्ययः नित्यः । तस्मात् ‘अतन्त्रीका’ इत्येव रूपम् । तन्त्रीशब्दविषये किञ्चित् ज्ञातव्यम् अस्ति । सः न ड्यन्तः । ईप्रत्ययान्तः सः । ‘अवितृस्तृतन्त्रिभ्यः ईः’ इति उणादिसूत्रेण ईः । अतः सुलोपः न । (सुलोपस्तु ‘हल्याब्भ्यो …..’(६.१.६८) इति सूत्रेण) तस्मात् ‘तन्त्रीः’ इति प्रथमैकवचनान्तं रूपम् । एते सुलोपरहिताः स्त्रीलिङ्गशब्दाः सप्त सन्ति । तथा हि श्लोकः -

अवीतन्त्रीतरीलक्ष्मीधीहीश्रीणमुणादिषु । ___ सप्तस्त्रीलिङ्गशब्दानां न सुलोपः कदाचन ।। इति । एवं च ‘तन्त्री’शब्दात् प्रथमैकवचने विसर्गस्य श्रवणम् । (तन्त्रीः इति) किन्तु क्वचित् विसर्गरहितम् अपि रूपं श्रूयते । तदा तु ‘कृदिकारादक्तिनः’ इति वार्तिकेन पाक्षिकः ङीष्प्रत्ययः । डीषि, ड्यन्तत्वात् सुलोपः । तदा ‘तन्त्री’ इति विसर्गरहितं रूपम् अपि । किन्तु लोके विसर्गसहितस्यैव रूपस्य प्रसिद्धिः । अतः “तन्त्रीः’ इति प्रयोगः एव श्रेयसे ।

एते विचाराः कौमुद्याः बालमनोरमाटीकायां चर्चिता सन्ति । ०६. कृष्णमुखी न मार्जारी द्विजिह्वा न च सर्पिणी ।

पञ्चभी न पाञ्चाली यो जानाति स पण्डितः ।।

  • प्रहेलिका काचित् ‘पञ्चभर्तृका’ इति प्रयोक्तव्यम् । . पञ्च भर्तारः यस्याः सा इति विग्रहः । ऋकारान्तं पदं बहुव्रीहि समासस्य अन्ते अस्ति । तस्मात् ‘नवृतश्च’ (५.४.१५३) इति सूत्रेण कप्प्रत्ययः नित्यं प्राप्यते । तस्मात् ‘पञ्चभर्तृका’ इति रूपं

स्यात् । ०७. सा तिथिस्तदहोरात्रं स योगः स च चन्द्रमाः ।

9B

248

शुद्धिकौमुदी

लग्नं तदेव विख्यातं यत्र संस्मर्यते हरिः ।।

  • भागवतम् “सः अहोरात्रः’ इति प्रयोक्तव्यम् ।

अहश्च रात्रिश्च इति विग्रहे अहोरात्रशब्दे सिद्धे ‘रात्राहाहाः पुंसि’ (२.४.२९) इति सूत्रेण पुंस्त्वम् । ततः ‘अहोरात्रः’ इत्येव रूपम् ।

तद्विशेषणस्य तच्छब्दस्यापि पुंस्त्वं स्यात् । ०८. न विश्वसेदमित्रस्य मित्रस्यापि न विश्वसेत् । कदाचित् कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ।।

  • शार्ङ्गधरपद्धतिः “विश्वस्यात्’ इति प्रयोक्तव्यम् । “विश्वसिति’ इत्यत्र ‘वि’ इत्युपसर्गपूर्वकः प्राणनार्थकः श्वसधातुः द्वितीयगणीयः । तस्मात् विधौ लिङि “विश्वस्यात्’ इति रूपम् । “विश्वसेत्’ इति रूपं न युक्तम् । ‘गणकार्यमनित्यम्’ इति कथञ्चित्

साधितमिति तु अन्यत् । यथा - अद्यात् । ०९. दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेज्जलम् ।

शास्त्रपूतं वदेद्वाणीं मनःपूतं समाचरेत् ।।

  • मनुस्मृतिः - ६.४६ ‘न्यस्येत्’ इति प्रयोक्तव्यम् । ‘नि’ इति उपसर्गेण युक्तः क्षेपणार्थकः असुधातुः अत्र । स च दिवादौ अस्ति । विधिलिङः सार्वधातुकत्वात् विकरणप्रत्ययः श्यन्

स्यादेव । तदा च ‘न्यस्येत्’ इति रूपम् । १०. सन्ध्यायां न स्वपेत् राजन्… - महा. अनु० १०४.११८

‘सुप्यात्’ इति प्रयोक्तव्यम् । शयनार्थकः ष्वप्धातुः द्वितीयगणीयः ।

विधौ लिङि ‘सुप्यात्’ इति रूपम् । ‘स्वपेत्’ इति तु असाधु रूपम् । ११. पापोऽहं पापकर्माहं पापात्मा पापसम्भवः ।

त्राहि मां कृपया देव शरणागतवत्सल ।। ‘त्रायस्व’ इति प्रयोक्तव्यम् । पालनार्थकः त्रैधातुः भ्वादौ पठितः । धातोः ङित्वात् आत्मनेपदित्वम् ‘अनुदात्तङितः आत्मनेपदम्’ (१.३.१२) इति सूत्रेण । तस्मात् लोटि मध्यमपुरुषैकवचने ‘त्रायस्व’ इति रूपम् ।

प्रमजनकाः प्राचीनाः प्रयोगाः

249

एवमेव ‘त्राहि मामुरुदुःखितम्’ ‘त्राहि मां हि तथागतम्’ इत्यादिषु

अपि ज्ञेयम् । दुर्घटवृतत्तिकारः शरणदेवः तु - ‘त्रायत इति त्राः । अन्येभ्योऽपि दृश्यते (३.२.१७८) इति विचि आचारे क्विपि धातुत्वे लोटि रूपम् । मां त्राहि = त्रातेवाचर इत्यर्थः’ इति समाधानं वदति ।

स्थितस्य गतेः चिन्तनम् एतत् । १२. परीक्षका यत्र न सन्ति देशे

नाहन्ति रत्नानि समुद्रजानि । आभीरदेशे किल चन्द्रकान्तं

त्रिभिर्वराटैविपणन्ति गोपाः ।।

  • पञ्चतन्त्रम् - १.८४.३ “विपणन्ते’ इति प्रयोक्तव्यम् ।।

अत्र धातुः तु - ‘पण - व्यवहारे स्तुतौ च’ इति । स च आत्मनेपदी । अतः “पणते’ इत्येव रूपम् । “वि’ इत्यस्य उपसर्गस्य योगे

परस्मैपदित्वं तु नास्ति ।। १३. अनुक्तमप्यूहति पण्डितो जनः

  • हितोपदेशः ‘ऊहते’ इति प्रयोक्तव्यम् । वितर्कार्थकः ऊहधातुः भ्वादौ पठितः । स च आत्मनेपदी । अतः

“ऊहते’ इति रूपम् ।। १४. नाकस्माच्छाण्डिली माता विक्रीणाति तिलैस्तिलान् ।

लुञ्छितानितरैर्येन हेतुरत्र भविष्यति ।।

_ - पञ्चतन्त्रम्, मित्रसम्प्राप्तिः - ७१ “विक्रीणीते’ इति प्रयोक्तव्यम् । द्रव्यविनिमयार्थकः क्रीब्धातुः यदा ‘वि’ इति उपसर्गेण युक्तः भवति तदा ‘परिव्यवेभ्यः क्रियः’ (१.३.१८) इति सूत्रेण तस्य आत्मनेपदित्वम् । अतः “विक्रीणीते’ इति रूपम् । केवलः क्रीब्धातुः तु उभयपदी । “वि’प्रभृतीनाम् उपसर्गाणां योगे तु नित्यम्

आत्मनेपदी।

250

शुद्धिकौमुदी १५. स महीमखिला भुञ्जन् राजर्षिप्रवरः पुरा ।

वर्णानां सङ्करं चक्रे कामोपहतचेतनः ।।

__- मनु. - ९.६७ ‘भुआनः’ इति प्रयोक्तव्यम् । भुजधातुः पालनार्थकः अभ्यवहारार्थकः च । पालनार्थकः सः परस्मैपदी । अभ्यवहारार्थे भोगे वा तु आत्मनेपदी । एतस्मिन् श्लोके ‘राजा महीं पालितवान्’ इति नार्थः । राज्ञः भोगः एव अत्र प्रतीयते । ‘वर्णसाङ्कर्यं जातम्’ इति कथनम् अत्र प्रमाणम् ।

अतः भोगार्थे आत्मनेपदित्वम् एव । तस्मात् ‘भुञ्जानः’ इत्येव . प्रयोक्तव्यम् । (कुल्लूकभट्टस्तु भुञ्जन् = पालयन् इति व्याचख्यौ) १६. यश्च मूढतमो लोके यश्च बुद्धेः परं गतः ।।

उभौ तौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ।। “क्लिश्यते’ इति प्रयोक्तव्यम् । उपतापार्थकः क्लिशधातुः दिवादिः । स च आत्मनेपदी । अतः ‘क्लिश्यते’ इति प्रयोक्तव्यम् । क्लिशधातुः परस्मैपदी अपि अस्ति ।

किन्तु सः क्र्यादिगणीयः । ‘क्लिनाति’ इति तस्य रूपम् । १७. यथा पृथिव्यां बीजानि रलानि निधयो यथा ।

एवमात्मनि कर्माणि तिष्ठन्ति प्रसवन्ति च ।। ‘प्रसूयन्ते’ इति प्रयोक्तव्यम् । ‘षु’धातुः भ्वादिः कश्चन अस्ति, यस्य च ‘सवति सवतः सवन्ति’ इति रूपाणि भवन्ति । षु-प्रसवैश्वर्ययोः इति धातुगणे पाठः । प्रसवः नाम अत्र गर्भविमोचनम् इति नार्थः, अपि तु अभ्यनुज्ञानम् इत्यर्थः । एतद्विषये बालमनोरमापतिः इत्थम् - ‘‘अत्र प्रसवशब्दस्य गर्भविमोचनपरत्वभ्रमं वारयति - प्रसवोऽभ्यनुज्ञानमिति” इति । अभ्यनुज्ञानम् इति अर्थः अत्र न अभिप्रेतः । उत्पादनार्थकत्वम् इह अभिप्रेतम् । अतः प्राणिप्रसवार्थकः पूधातुः अत्र प्रयोक्तव्यः । सः दिवादिः । ङित्त्वात् तस्य आत्मनेपदित्वम् । तस्मात् ‘प्रसूयन्ते’ इति

रूपम् । १८. त्याज्यं न धैर्यं विधुरेऽपि काले

धैर्यात्कदाचिद्गतिमाप्नुयात्सः ।

प्रमजनकाः प्राचीनाः प्रयोगाः

251

यथा समुद्रेऽपि च पोतभङ्गै ।

सांयान्त्रिको वाञ्छति तर्तुमेव ।। ‘तरितुम्’ इति “तरीतुम्’ इति वा प्रयोक्तव्यम् । ‘तू’धातुः सेट् । ‘वृतो वा’ (७.२.३८) इति सूत्रेण इटः विकल्पेन दीर्घः । अतः तरितुम्, तरीतुम् इति रूपद्वयम् । इड्रहितं तुमुन्नन्तरूपं

तु नास्ति । १९. न ह्येवं रमणीयेषु शाद्वलेषु तया सह ।

रमतो मे भवेच्चिन्ता न स्पृहान्येषु वा भवेत् ।।

  • रामायणम्, किष्किन्धा. - १.९७ ‘रममाणस्य’ इति प्रयोक्तव्यम् । क्रीडार्थकः ‘रम’धातुः आत्मनेपदी । आत्मनेपदिनः शानच्प्रत्ययः । शानचि च ‘रममाणः’ इति रूपम् । तस्य षष्ठीविभक्त्यन्तं रूपं

‘रममाणस्य’ इति । २०. न च सङ्कुचितः पन्था येन वाली हतो गतः ।

समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ।।

____- रामायणम्, किष्किन्धा. - ३४.१८ ‘अनुगाः’ इति प्रयोक्तव्यम् । माल्योगे अडागमः निषिध्यते - ‘न माङ्योगे’ (६.४.७४) इति सूत्रेण । अडागमाभावे ‘अनुगाः’ इति रूपम् । अडागमे सत्येव ‘अन्वगाः’ इति रूपं भवति । माङ्योगे अडागमसहितं रूपं न

भवति । २१. ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् ।

सञ्चोदयित्वा त्वरिता यूथानां जग्मुरग्रतः ।।

_- रामायणम्, किष्किन्धा. ३७.३३ ‘सञ्चोध’ इति प्रयोक्तव्यम् । ‘सम्’ इति उपसर्गः अत्र । उपसर्गयोगे क्त्वाप्रत्ययस्य ल्यबादेशः ‘समासेऽनपूर्वे क्त्वो ल्यप् (७.१.३७) इति सूत्रेण । ल्यपि च

‘सञ्चोध’ इति रूपम् । २२. तेनाभिघातरभसस्य…

तं पातयां प्रथममास पपात पश्चात् ।।

  • रघुवंशः - ९.६१

252

शुद्धिकौमुदी

“तं पातयामास’ इति प्रयोक्तव्यम् । ‘पत्ल’धातोः ण्यन्तात् लिटि प्रथमैकवचने ‘पातयामास’ इति रूपम् । अत्र आसधातोः (आस) अनुप्रयोगः अस्ति । अनुप्रयोगः नाम व्यवधानं विना प्रयोगः । एतस्मिन् श्लोके तु पातयाम् + आस इत्यनयोः मध्ये प्रथमम् इति पदं प्रयुक्तम् । एतत् तु शास्त्रविरुद्धम् । एतद्विषये मल्लिनाथः लिखति -

“कृञ्चानुप्रयुज्यते लिटि’ इत्यत्र अनुशब्दस्य व्यवहितविपर्यस्त निवृत्त्यर्थत्वात् ‘पातयां प्रथममास’ इति अपप्रयोगः इति

पाणिनीयाः । यथाह - वार्तिककारः - ‘विपर्यासनिवृत्त्यर्थ व्यवहितनिवृत्त्यर्थं च’ इति” इति । अतः ‘पातयामास’ इत्येव प्रयोक्तव्यम् । मध्ये अन्यः शब्दः न

प्रयोक्तव्यः । २३. वारुणीमदविशङ्कमथाविश्चक्षुषोऽभवदसाविव रागः ।

‘आविरभवत्’ इति प्रयोक्तव्यम् ।

आविश्शब्दः ऊर्यादिषु पठितः । ‘ऊर्यादिच्चिडाचश्च’ (१.४.६१) इति सूत्रेण ऊर्यादीनां गतिसंज्ञा । गतिसंज्ञायुक्ताः धातोः पूर्वम् एव प्रयोक्तव्याः इति वदति ‘ते प्राग्धातोः’ (१.४.८०) इति सूत्रम् । अतः गतिसंज्ञायुक्तः आविश्शब्दः धातोः प्राक् एव प्रयोक्तव्यः । मध्ये अन्यशब्दस्य स्थितिः न सह्यते । प्रकृतश्लोके ‘आविः चक्षुषः अभवत्’ इति प्रयुक्तम् । ‘चक्षुषः’ इत्यस्य मध्ये स्थितिः अस्ति । एवं न स्यात । ‘आविरभवत’ इति प्रयोक्तव्यम । मल्लिनाथः एतद्विषये वदति - ‘आविर्भुवोः व्यवधानं कविस्वातन्त्र्यात्’ इति । तत्त्वबोधिनीकारः तु ‘ते प्राग्धातोः’ इत्यस्य सूत्रस्य पक्षान्तरम्

आश्रित्य कथञ्चित् समाधानं वदति । २४. वर्धनं वाथ सम्मानं खलानां प्रीतये कुतः । फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः ।।

  • हितोपदेशः - २.१३९ “सम्मानः’ इति प्रयोक्तव्यम् । सम्मानशब्दः पुंसि अस्ति । नपुंसकत्वं नास्ति तस्य ।

प्रमजनकाः प्राचीनाः प्रयोगाः

253

२५. तान् सावित्रीपरिभ्रष्टान् व्रात्यानिति विनिर्दिशेत् ।

  • मनुस्मृतिः - १०.२० ‘व्रात्याः इति’ इति प्रयोक्तव्यम् ।

अत्र ‘इति’ शब्दः कर्मार्थं बोधयति । इतिशब्देन कर्मार्थे उक्ते पुनः कर्मार्थबोधनार्थम् अन्यस्य विभक्तिप्रत्ययस्य उपयोगः न करणीयः । ‘निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः’ इति हि वामनवचनम् । अतः अत्र व्रात्यः कर्म । तद्गतं कर्मत्वम् इतिशब्देन बोधितम् इति

कारणतः व्रात्यशब्दोत्तरं न द्वितीया । प्रातिपदिकार्थे प्रथमा एव । २६. हरीतकी भुंक्ष्व राजन् मातेव हितकारिणीम् ।

  • बालमनोरमायाम् उदाहृतम् (‘सुपो धातु…. ‘सूत्रे) ‘मातरमिव’ इति प्रयोक्तव्यम् । ‘हरीतकी’ अत्र उपमेयम् । ‘माता’ उपमानम् । उपमानोपमेययोः समाना विभक्तिः स्यादिति नियमः । हरीतकीशब्दात् द्वितीया अस्ति अत्र । अतः मातशब्दादपि द्वितीया एव उचिता । अतः ‘मातरम् इव’

इति प्रयोगः युक्तः । २७. स मृण्मये वीतहिरण्मयत्वात् …. आतिथेयः ।।

  • रघुवंशः - ५.२

• मृण्मये दहनाच्छुद्धिः - पराशरस्मृतिः - ७.२९ * पुनः पाकेन मृन्मयम् - मनु. - ५.१२ । * पुनः पाकेन मृण्मयम् - वसिष्ठस्मृतिः - ३.५५ * मृण्मयं भाजनं सर्वम् - शङ्खस्मृतिः - १६.१ ‘मुन्मये’ इति प्रयोक्तव्यम् । मृद् + मय इति स्थिते ‘प्रत्यये भाषायां नित्यम्’ इति वार्तिकेन दकारस्य नकारः । एतच्च वार्तिकम् अष्टमाध्यायस्य चतुर्थे पादे अन्ते अस्ति । णत्वविधायकसूत्रं प्रति तस्य असिद्धत्वात् णत्वम् अत्र न

प्रवर्तते । तस्मात् ‘मृन्मयम्’ इति रूपम् । २८. तस्य पाण्डुवदनाल्पभूषणा……..

………… कामयानसमवस्थया तुलाम्

  • रघुवंशे - १९.५०

254

शुद्धिकौमुदी

‘कामयमानः’ इति प्रयोक्तव्यम् । कान्त्यर्थकः कमुधातुः

आत्मनेपदी, “कमेर्णिङ्’ (३.१.३०) इति सूत्रेण स्वार्थे णिङः विधानात् । तस्य ङित्वात् तङ् स्यात् । अतः लटि ‘कामयते’ इति रूपम् । अदन्ताङ्गत्वात् ‘आने मुक्’ (७.१.९२) इति सूत्रेण शानचि मुगागमः स्यात् । मुगागमे सति ‘कामयमानः’ इत रूपम् । कविना तु ‘कामयानः’ इति मुगागमरहितं रूपं प्रयुक्तम् । तत् तु दोषाय । शाकुन्तले अपि एतादृशः प्रयोगः दृश्यते - “ततः प्रविशति कामयानावस्थो राजा’ (३.२१) इति । तथैव भागवते, महा भारते चापि एतादृशाः प्रयोगाः दृश्यन्ते । दुर्घटवृत्तौ शरणदेवः ‘अपि शाकं पचानस्य’ इति उदाहरणं प्रदर्श्य ‘आगमशास्त्रस्य अनित्यत्वात् न मुक्’ इति समाधानं वदति । वामनेन अपि एतद्विषये चिन्तनं कृतं दृश्यते । सः वदति - “कामयानशब्दः सिद्धः अनादिश्चेत् ‘(का. सू. वृ. - ५.२.९२) इति । ‘प्राचीनकालात् अपि एतस्य प्रयोगः क्रियमाणः दृश्यते इत्यतः एषः साधुः’ इति तस्य तात्पर्यम् । तन्नाम आर्षप्रयोगत्वात् महाकवि प्रयोगत्वात् च साधुः इति उक्तं भवति एव । किन्तु तस्य अनुकरणम्

अस्माभिः कृतं चेत् असाधुतापत्तिः । २९. * सभा वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम्

  • (दुर्घटवृत्तौ उदाहृतम्) * कां दिशं गन्तव्यम् ।

. - कादम्बरी ‘सभा न प्रवेष्टव्या’ ‘का दिक् गन्तव्या’ इति प्रयोगः भवेत् । विशधातोः गम्धातोः च सकर्मकत्वात् तव्यत्प्रत्ययः कर्मणि भवति । कर्मणि तव्यतः विधानात्, तेन कर्मणः उक्तवात् ‘सभा’ शब्दस्य “दिक्’शब्दस्य वा द्वितीया न स्यात् । अत्र तु द्वितीया प्रयुक्ता । तत् अयुक्तम् । ०. कर्णपुच्छं मया त्यक्तं भग्नो दन्तस्तथैव च ।

एष कालः समुत्पन्नो यः पलाति स जीवति ।

(दुर्घटवृत्तौ उदाहृतम् ) गत्यर्थकस्य ‘अय’धातोः “परा’ इत्यस्य उपसर्गस्य योगे,भ्रमजनकाः प्राचीनाः प्रयोगाः

255

‘उपसर्गस्यायतौ’ (८.२.१९) इति रेफस्य लत्वे ‘पलायते’ इति रूपम् । अयधातुः आत्मनेपदी । अतः पलायते इत्येव प्रयोक्तव्यम् । अयधातुस्थः यकारः अपि श्रूयेत एव । दुर्घटवृत्तौ शरणदेवः तु - ‘पल गतौ इत्यस्य लेटि आडागमे पलाति इति रूपम् । छान्दसाः अपि भाषायां क्वचित् प्रयुज्यन्ते’ इति लिखति । लेट् तु छन्दसि । छान्दसरूपस्य लोके प्रयोगः इति कथनं

प्रबलयुक्तिसमेतं वचनं न । अतः ‘पलायते’ इति प्रयोगः एव साधुः । ३१. दुर्घटवृत्तौ कानिचन उदाहरणानि दर्शितानि, येषु आत्मनेपदित्वं न

कृतम् । यथा - १. नीचं समृद्धमपि सेवति नीच एव

दूरेण तं परिहरन्ति पुनर्महान्तः । २. लभन्ति पुनरुत्थानम् ।। ३. तवोपशायिका यावत् राक्षसाश्चेतयन्ति नः । ४. मण्डपे शयामि किमतः परम् ।। ५. आदद्यादन्धकारे रतिमतिशयिनीमावहन् वीक्षणानाम् ।

  • मयूरः ६. प्रत्यूषकाले जगदङ्गनानां मुखेषु कामः प्रतिजम्भति । . ७. अरिं मित्रमुदासीनं मध्यस्थं स्थविरं गुरुम् ।

यो न बुध्यति मूढात्मा सर्वथाऽसौ विनश्यति । ८. परिष्वजति पाञ्चाली मध्यमं पाण्डुनन्दनम् । ९. स सहेन्न कथं तुषारम् । १०. ग्रसति तव मुखेन्दं चन्द्रबिम्बं विहाय । ११. काशे स्यन्द कुशे स्यन्द स्यन्द त्वं शत्रुमस्तके । …..

एतेषु सर्वेषु अपि उदाहरणेषु स्थूलाक्षरैः निर्दिष्टानि क्रियापदरूपाणि आत्मनेपदीनि एव स्युः । यथा - १. षेवृ (सेवने) इति धातुः आत्मनेपदी । अतः ‘सेवते’ इति रूपं

. स्यात् । २. (टु) लभष् (प्राप्तौ) इति धातुः आत्मनेपदी । अतः ‘लभते’

इति प्रयोक्तव्यम् । ३. चित (सञ्चेतने) इत्येषः धातुः आकुस्मीयः । तस्मात् नित्यम्

256

शुद्धिकौमुदी आत्मनेपदित्वम् । अतः ‘चेतयते’ इति प्रयोक्तव्यम् । ४. स्वप्नार्थकः शीधातुः ङित्त्वात् आत्मनेपदी एव । अतः शये’

इति प्रयोक्तव्यम् । ५. आङ्पूर्वकः ददातिः आत्मनेपदी - ‘आङो दोऽनास्यविहरणे’

(१.३.२०) इति सूत्रेण । अतः ‘आदत्ते’ इति लटि

प्रथमैकवचनान्तं रूपम् । ६. गात्रविनामार्थकः भीधातुः आत्मनेपदी । अतः (प्रतिजम्भते

इति प्रयोक्तव्यम् । ७. अवगमनार्थकः बुधधातुः चतुर्थगणीयः आत्मनेपदी । तस्मात्

‘बुध्यते’ इति रूपम् । (प्रथमगणीयः तु परस्मैपदी । बोधति इति रूपम् । ‘बुधिर् (बोधने)’ इत्यपि कश्चन प्रथमगणीयः

धातुः अस्ति । सः उभयमदी । बोधति / बोधते इति रूपम् ) ८. परिष्वङ्गार्थकः स्वअधातुः आत्मनेपदी । अतः “परिष्वजते’

इति प्रयोक्तव्यम् । ९. ‘वह (मर्षणे)’ इत्येषः आत्मनेपदी । अतः ‘सहेत’ इति

प्रयोक्तव्यम् । १०. ग्रसु (अदने) इत्येषः आत्मनेपदी । अतः ‘ग्रसते’ इति प्रयोगः

स्यात् । ११. ‘स्यन्दू (प्रस्रवणे)’ इत्येषः आत्मनेपदी । तस्मात् ‘स्यन्दस्व’ - इति रूपं स्यात् । दुर्घटवृत्तौ तु ‘आनुदात्तङित आत्मनेपदम्’ इत्यस्य अनित्यत्वम् उक्त्वा, ‘गणकार्यम् अनित्यम्’ इति उक्त्वा, मार्गान्तरेण वा एते

प्रयोगाः कथञ्चित् समर्थिताः । . क्वचित् परस्मैपदिक्रियापदे प्रयोक्तव्ये आत्मनेपदिनः प्रयोगः कृतः

दृश्यते । दुर्घटवृत्तौ एतादृशानि कानिचन सङ्ग्रहीतानि । तानि यथा - १. दासत्वं गच्छते नार्या वृद्धस्तु पुरुषोत्तमः । २. रजसा शुध्यते नारी । . ३. कदाचित् कुप्यते माता नोदरस्था हरीतकी । ४. प्रियामुखं किम्पुरुषश्चचुम्बे ।

  • कुमारसम्भवे

३२.

भ्रमजनकाः प्राचीनाः प्रयोगाः

257

५. नन्दते च कुलं पुंसाम् । ६. ततः स ददृशे च तौ । ७. तच्छुणुष्व मया ख्यातं यथावत् कथयामि ते । ९. स्वराज्यं प्राप्स्यते भवान् । गम्ल (गतौ), शुध (शौचे), कुप (क्रोधे), चुबि (वक्त्रसंयोगे), नदि (समृद्धौ), दृशिर् (प्रेक्षणे), श्रु (श्रवणे), आप्ल (व्याप्तौ) इत्येते धातवः परस्मैपदिनः । तस्मात् गच्छति, शुध्यति, कुप्यति, चुचुम्ब, नन्दति, ददर्श, शृणु, प्राप्स्यति इत्येतानि रूपाणि पूर्वोक्तेषु उदाहरणेषु क्रमेण प्रयोक्तव्यानि । दुर्घटवृत्तिकारः स्थितस्य गतेः चिन्तनाय प्रयासान् तु करोति । किन्तु

ते सर्वे न तृप्तिदायकाः । ३३. वासुदेवं परित्यज्य योऽन्यं देवमुपासते ।

तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः ।। ‘उपास्ते’ इति प्रयोक्तव्यम् । यतः कर्तृपदम् ‘यः’ इत्येतत् एकवचनान्तम् अस्ति । तदनुगुणं क्रियापदम् अपि एकवचनान्तम् एव स्यात् । (उप)आसते इत्येतत् तु बहुवचनान्तं रूपम् । आस (उपवेशने) इति धातुः । द्वितीयगणीयः सः । तस्य एकवचनान्तं रूपम् (उप)आस्ते इति ।

३४. गीतायाम् आर्षप्रयोगाः भगवद्गीतायाम् अपि केचन आर्षप्रयोगाः परिलक्ष्यन्ते । गीतापारायणं तु प्रतिदिनं क्रियते बहुभिः । गीतास्थाः के प्रयोगाः अनुकरणार्हाः न इति ज्ञानं यदि भवेत् तर्हि लाभः स्यात् इति उद्देशेन ते अत्र सङ्ग्रहीताः। न काले विजयं कृष्ण न च राज्यं सुखानि च । - १.३२ " मि’ इति प्रयोगः स्यात् । काङ्क्षार्थकः काक्षिधातुः परस्मैपदी । प्रथमगणीयः सः । तस्य लटि उत्तमपुरुपैकवचनान्तं रूपं ‘काङ्क्षामि’

इति । २. स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् । - २.५४

‘वजेत्’ इति स्यात् । गत्यर्थकः व्रजधातुः परस्मैपदी । विधौ लिडि

258

शुद्धिकौमुदी

४.

प्रथमैकवनान्तं रूपं ‘व्रजेत्’ इति । ३. कस्माच्च ते न नमेरन् महात्मन् । - ११.३७

‘नमेयुः’ इति स्यात् ।

णम - प्रह्वत्वे शब्दे च इत्येषः धातुः परस्मैपदी । विधौ लिडि

प्रथमपुरुषबहुवचनान्तं रूपं ‘नमेयुः’ इति । ___ ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् । - १८.५५

“विशति’ इति स्यात् ।। प्रवेशनार्थकः विशधातुः (षष्ठगणीयः) परस्मैपदी । तस्य लटि प्रथम

पुरुषैकवचनान्तं रूपं “विशति’ इति । ५. । यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । - २.६०

, वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः । - ६.३६ . मनुष्याणां सहस्त्रेषु कश्चिद्यतति सिद्धये । - ७.३ . यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः । - ७.३

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । - ७.२९ . सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । - ९.१४ . । यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।

यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ।। - १५.११ . एतेषु सर्वेषु उदाहरणेषु प्रयत्नार्थकः ‘यत’धातुः परस्मैपदित्वेन एव प्रयुक्तः । किन्तु स च धातुः तु आत्मनेपदी । अतः ‘यतमानस्य’

‘यतते’ इत्यादीनि रूपाणि अत्र प्रयोगार्हाणि भवन्ति । ६. यथा दीपो निवाषपस्थो नेङ्गते सोपमा मता । - ६.१९

‘इङ्गति’ इति प्रयोक्तव्यम् । गत्यर्थकः भ्वादौ पठितः ‘इगि’धातुः

परस्मैपदी । अतः ‘इङ्गति’ इति रूपं प्रयोक्तव्यम् । न तु मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा । – ११.८ ‘शक्नोषि’ इति प्रयोक्तव्यम् । शक्लधातुः स्वादिगणीयः परस्मैपदी च । तस्य विकरणप्रत्ययः - ‘नु’ (न तु ‘य’)। अतः अत्र आत्मनेपदित्वं चतुर्थगणीयत्वं च अयुक्तम् एव । ‘शक्नोषि’ इति प्रयोगः स्यात् । मर्षणार्थकः शकधातुः कश्चन अस्ति चतुर्थगणीयः । सः उभयपदी ।

तस्मात् ‘शक्यते’ इति कर्तरि रूपं साधु एव इति केचन अभिप्रयन्ति । ८.. इषुभिः प्रतियोत्स्यामि पूजास्वरिसूदन । - २.४

७.

प्रमजनकाः प्राचीनाः प्रयोगाः

259

। तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । - ८.७ ‘प्रतियोत्स्ये’ ‘युध्यस्व’ इति च प्रयोगः स्यात् । सम्प्रहारार्थकः ‘युध’धातुः (चतुर्थगणीयः) आत्मनेपदी । अतः लटिः लोटि च

तदनुगुणः एव प्रयोगः स्यात् ।। ९. यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । - ३.२३

“वर्तेय’ इति स्यात् । वर्तनार्थकः ‘वृतु’धातुः आत्मनेपदी । तस्य विधौ लिङि उत्तमपुरुषैकवचनान्तं रूपं ‘वर्तेय’ इति । लिङि तु

परस्मैपदित्वविकल्पः न उक्तः । १०. न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् । - ५.२०

‘उद्जेित’ इति प्रयोगः स्यात् । षष्ठगणीयः भयसञ्चलनात्मकः विजीधातुः (प्रायः उत्पूर्वः) आत्मनेपदी । विधौ लिङि प्रथमपुरुषैक

वचनान्तं रूपम् ‘उद्विजेत’ इति । ११: कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति । - १०.३१

‘प्रतिजानीष्व’ इति प्रयोगः स्यात् ।

अवबोधनार्थकः क्र्यादिगणीयः ज्ञाधातुः परस्मैपदी । किन्तु तस्य प्रतिपूर्वकत्वे ‘सम्प्रतिभ्यामनाध्याने’ (१.३.४६) इति सूत्रेण आत्मनेपदित्वं विहितम् । ‘प्रतिजानीते’ इत्यस्य लोटि मध्यमपुरुषैक

वचनान्तं रूपं ‘प्रतिजानीष्व’ इति । १२. कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च । - १०.९

‘रमन्ते’ इति प्रयोगः स्यात् । क्रीडार्थकः रम्धातुः आत्मनेपदी । तस्य लटि प्रथमपुरुषबहुवचनान्तं

रूपं ‘रमन्ते’ इति । १३. सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च । - १४.२

‘व्यथन्ते’ इति स्यात् । भयसञ्चलनार्थकः ‘व्यथ’धातुः (भ्वादिः) आत्मनेपदी । लटि तस्य प्रथमपुरुषबहुवचनान्तं रूपं स्यात् ‘व्यथन्ते’

इति । १४. गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते । - १४.२३

‘अवतिष्ठते’ इति प्रयोगः स्यात् । गतिनिवृत्त्यर्थकः ष्ठाधातुः यद्यपि परस्मैपदी, तथापि अवपूर्वकत्वे तु आत्मनेपदित्वं ‘समविप्रविभ्यः स्थः’ (१.३.२२) इति सूत्रेण । लटि प्रथमपुरुषे एकवचने ‘अव

260

शुद्धिकौमुदी तिष्ठते’ इति रूपम् । १५. यस्मिन् गता न निवर्तन्ति भूयः । - १५.४

“निवर्तन्ते’ इति प्रयोक्तव्यम् । वर्तनार्थकः वृतुधातुः आत्मनेपदी ।

लटि प्रथमपुरुषबहुवचनान्तं रूपं ‘निवर्तन्ते’ इति । १६. स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् । - १८.८

‘लभेत’ इति प्रयोगः स्यात् । प्राप्त्यर्थकः लभधातुः आत्मनेपदी ।

विधौ लिङि प्रथमपुरुषे एकवचने तस्य रूपं - ‘लभेत’ इति । १७. निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः । - १२.८

‘निवत्स्यसि’ इति स्यात् । वसधातोः लटि अनिट्त्वात् न इडागमः । “सः स्यार्धधातुके’ इति तकारः । मध्यमपुरुषे एकवचने ‘निवत्स्यसि’

इति रूपं स्यात् । १८. सेनानीनामहं स्कन्दः सरसामस्मि सागरः । - १०.२४

‘सेनान्याम्’ इति प्रयोगः स्यात् । सेनानीशब्दात् आमि यण् ।

‘सेनान्याम्’ इति रूपम् । नुटः तु अप्राप्तिः निमित्ताभावात् । १९. अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः । - १८.६६

‘मा शोचीः’ इति स्यात् ।। ‘शुच’धातोः लुङि मध्यमपुरुषे एकवचने ‘अशोचीः’ इति रूपम् । माङः योगे ‘न माङ्योगे’ (६.४.७४) इति सूत्रेण अडागमनिषेधः । अतः ‘मा शोचीः’ इति रूपम् । लोटि तु ‘मा शोच’ इति रूपम् । शुचधातुः भ्वादिः । लुङि ‘पुंगन्तलघूपधस्य च’ इति गुणः स्यादेव ।

अतः ‘अशुचः’ इति रूपं न सिध्यति । २०. पवनः पवतामस्मि रामः शस्त्रभृतामहम् । - १०.३१

‘पुनतां’ ‘पुनानानां’ ‘पवमानानाम्’ इत्येतेषु किमपि एकं रूपं साधु स्यात् । पवनार्थको उभौ धातू स्तः । एकः पूङ् (भ्वादिः), अपरः पूञ् (क्र्यादिः)। भ्वादिः आत्मनेपदी । लटि ‘पवते’ इति रूपम् । तस्य शानजन्तं रूपं (प.ब.) “पवमानानाम्’ इति । क्र्यादिः उभयपदी । तस्य शतरि ‘पुनताम्’ इति । शानचि च ‘पुनानानाम्’ इति । ‘पुनताम्’

इति प्रयोगे तु छन्दसः अपि आनुगुण्यम् । २१. अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् । - ३.१०

प्रमजनकाः प्राचीनाः प्रयोगाः

•261

‘प्रसुवीध्वम्’ इति, ‘प्रसूध्वम्’ इति वा स्यात् । प्राणिगर्भविमोचनार्थकः धुञ्धातुः अदादिः । (द्वितीयगणीयः) तस्य विधौ लिङि (म.पु.ब.व.) ‘प्रसुवीध्वम्’ इति रूपम् । लोटि

(म.पु.ब.व.) ‘प्रसूध्वम्’ इति रूपम् ।। २२. शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । - ८.२६

‘शाश्वत्यौ’ इति स्यात् ।

शश्वत् इति अव्युत्पन्नं प्रातिपदिकम् । तस्मात् ‘अण्’ भवार्थे । अणः णित्त्वात् स्त्रियां ‘डीप्’ । अतः ‘शाश्वती’ इति रूपम् । तस्य द्विवचनान्तं (प्र.वि.) रूपं ‘शाश्वत्यौ’ इति । अत्र रामायणप्रयोगे यथा - ‘मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । ‘(‘समा’शब्दः वर्षार्थकः ।

स च स्त्रियाम्) २३. अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । - ७.२३

‘अल्पमेधसाम्’ इत्यत्र किञ्चित् ज्ञातव्यम् अस्ति । नब्दुस्सुभ्यः पराभ्यां प्रजामेधाभ्यां नित्यम् असिच् विधीयते - ‘नित्यमसिच् प्रजामेधयोः’ (५.४.१२२) इति सूत्रेण । अतः अप्रजाः, सुप्रजाः, दुष्प्रजाः इत्यादीनि रूपाणि सिद्धानि भवन्ति । अन्येभ्यः शब्देभ्यः परात् मेधाशब्दात् असिच् न विहितः । अतः ‘अल्पमेधसाम्’ इति रूपं कथम् इति जिज्ञासा भवति । केचन असाधुत्वम् एव मन्यन्ते तस्य रूपस्य । कौमुदीव्याख्याने (तत्त्वबोधिन्यां) लिख्यते - ‘अस्वरितत्त्वादेव अन्यतरस्यां ग्रहणाननुवृत्तिसिद्धौ नित्यग्रहणमन्यतो विधानार्थम् । तेन ‘अल्पमेधस’ इति सिद्ध्यतीति वृत्तिकारादयः’

इति । अतः ‘अल्पमेधसाम्’ इति प्रयोगस्य न असाधुता इति भाति । २४. छन्दोभङ्गादिनिवारणाय गीतायां क्वचित् सन्धिः न कृतः ।

तादृशानि कानिचन स्थलानि यथा -

प्रियायाहसि - ११.४४ - “प्रियाया अर्हसि’ इति स्यात् । प्रियायाः + अर्हसि इत्यत्र विसर्गलोपः । विसर्गलोपानन्तरं

सवर्णदीर्घसन्धिः न स्यात् ।। तस्याराधनम् - ७.२२ - ‘तस्या आराधनम्’ इति स्यात् । तस्याः + आराधनम् इत्यत्रापि विसर्गलोपः । विसर्गलोपानन्तरं न सवर्णदीर्घः ।

262

शुद्धिकौमुदी

. शक्य अहम् - ११.४८ ‘शक्योऽहम्’ इति स्यात् । शक्यः +

अहम् इति स्थिते विसर्गस्य उत्वं, गुणः, पूर्वरूपं च वा स्यात् ।

• शक्य अहम् - ११.५४ (विवरणं पूर्वोक्तम्)

हे सखेति - ११.४१ - हे सख इति / हे सखयिति वा स्यात् । इकारान्तस्य सखिशब्दस्य सम्बुद्धौ एकवचने ‘हे सखे’ इति रूपम् । ‘हे सखे + इति’ इति स्थिते अयादेशे यकारलोपे ‘हे सख इति’

इति रूपम् । (यलोपानन्तरं न गुणः)

• इह + उभे (२.५०) इत्यत्र गुणसन्धिः , एव + अत (१२.८)

इत्यत्र सवर्णदीर्घसन्धिः च न कृतः छन्दोभङ्गनिवारणाय । नायं व्याकरणदोषः । आलङ्कारिकाः तु एतादृशे स्थले ‘विसन्धि’दोषं पश्यन्ति । इदमवधेयम् - ऋषिभिः कृतः अपाणिनीयः प्रयोगः आर्षः इत्युच्यते । तेषां प्रयोगाणां तस्मिन् स्थले साधुता अस्ति । अतः गीतादीनां पारायणे तथैव उच्चारणीयम् । ते शब्दाः अस्माभिः विरच्यमाने वाक्ये न प्रयोक्तव्याः ।