१४५ सु

  • {स्वि}
  • इ (इण् गतौ)।
  • ‘स्विते मा धाः’ (वा० सं० ५।५)। स्वितमिति दुरितप्रतिद्वन्द्वि। स्वितमिष्टा गतिः, पुण्यम्।
  • ‘ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद् वर्षाः स्विते नो दधात’ (अथर्व० ६।५५।२)। उक्तोऽर्थः।
  • ‘प्र यद् भरध्वे सुविताय दावने’ (ऋ० ५।५९।४)। सुविताय सुप्राप्तव्याय। उकारस्य उवङादेशश्छान्दसः।
  • ‘नास्माल्लोकात् स्वेतव्यम् (तै० सं० ६।१।१)। स्वेतव्यं शोभनमेतव्यम्।

क्लृप्

  • {सुक्लृप्}
  • क्लृप् (कूपू सामर्थ्ये)।
  • ‘सुकल्पितः संयति दृष्टमार्गः’ (हस्ती) (का० नी० सा० १६।११)। सुकल्पितः सुशोभितः। कल्पना सज्जा समे इत्यमरः।

गम्

  • {सुगम्}
  • गम् (गम्लृ गतौ)।
  • ‘सुगा वो देवाः सदना अकर्म’ (अथर्व० ७।१०२।४)। सुगा=सुगानि। सुखेन गम्यतेऽत्रेति। सुदुरोरधिकरण इति वार्तिकेन डः।

जागृ

  • {सुजागृ}
  • जागृ (जागृ निद्राक्षये)।
  • ‘अग्ने त्वं सु जागृहि वयं सु मन्दिषीमहि’ (वा० सं० ४।१४, तै० सं० ६।१।४।३०)। सुष्ठु निद्रारहितो भवेत्यर्थः।

डी

  • {सुडी}
  • डी (डीङ् विहायसा गतौ)।
  • ‘स्वर्गगं तु सुडीनकम्’ (भा० कर्ण० ४१।२७)। निगदव्याख्यातम्।

धा

  • {सुधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘केशश्मश्रु वापयित्वा मांसमाषलवणवर्जमश्नीतो यजमानः पत्नी चासुहितौ’ (वाराहश्रौ० १।१।२।२)। असुहितौ=अतृप्तौ। सुह चक्यर्थ इति धातो र्वा निष्ठायां रूपम्।

मन्द्

  • {सुमन्द्}
  • मन्द् (मदि स्तुतिमोदमद-स्वप्नकान्तिगतिषु)।
  • ‘वयं सु मन्दिषीमहि।’ सुखं स्वप्यामेत्यर्थः।

यज्

  • {सुयज्}
  • यज् (यज देवपूजासङ्गतिकरणदानेषु)।
  • ‘विष्णु र्वै यज्ञस्य दुरिष्टं पाति वरुणः स्विष्टम्’ (ऐ० ब्रा० ३।३८)। निगदव्याख्यातम्

सद्

  • {सुसद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘सुषदा (आसम्दी)।’ सुष्ठूपवेशनयोग्या।

स्था

  • {सुस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु’ (अथर्व० १८।३।५१)। सुतिष्ठतु सुस्थिरा भवतु।

हा

  • {सुहा}
  • हा (ओहाङ् गतौ)।
  • ‘परातरं सु निर्ऋतिर्जिहीताम्’ (ऋ० १०।५९।१)। सुजिहीतां सुतरां गच्छतु अपैतु।