स्वरमञ्जरी

स्वरमञ्जरी

स्वरमञ्जरी अर्थात् अष्टविकृत्युपेता
॥ संहिता-पदपाठविमर्शसहिता वैदिकस्वरपद्धतिः ॥

विस्तारः (द्रष्टुं नोद्यम्)

(लेखकः - वे । शा । सं । गीर्वाणभूषण त्र्यम्बक बलवन्त अभ्यङ्कर, बी । ए । पुणे।)

Some portion is not translated yet, but the
the specific portion does not seem so important for the rules
of accents . It is more general and is about the grammar rules related
to accents, is usually useless for a specific document. –Avinash.

१ स्वरप्रक्रिया

॥ प्रथमगुच्छः - स्वरप्रक्रियात्मकः ॥

मङ्गलम् (Invocation)

विश्वास-प्रस्तुतिः

नाना-नाम-धरं लोके
लोकानाम् अभयङ्करम् ।
सदाशिव-स्वरूपं तं
त्र्यम्बकं प्रणमाम्य् अहम् ॥ १॥

मूलम्

नानानामधरं लोके लोकानामभयङ्करम् ।
सदाशिवस्वरूपं तं त्र्यम्बकं प्रणमाम्यहम् ॥ १॥

English

I bow before the three-eyed God Shiva with auspicious features who has many different names and
protects the people of the worlds.
स्वरमहत्त्वम् (Importance of the accents)

विश्वास-प्रस्तुतिः

श्रीर् वै स्वरश् च वेदानाम्,
अर्थबोधः सुखं स्वरात् ।
शुद्ध-पाठः स्वराद् एव,
स्वर-ज्ञो लभते परम् ॥ २॥

मूलम्

श्रीर्वै स्वरश्च वेदानामर्थबोधः सुखं स्वरात् ।
शुद्धपाठः स्वरादेव स्वरज्ञो लभते परम् ॥ २॥

English

Accents are the precious features of the Vedas, it is easy to know the meaning through the
accents, also the expert in the accents acquires the proper intonation of the Vedas through
their use.

ग्रन्थप्रयोजनम् (Purpose of this book.)

विश्वास-प्रस्तुतिः

स्वरज्ञान-प्रवेशाय
द्विजानां वेदपाठिनाम् ।
त्र्यम्बकीयाम् इमां वक्ष्ये
वैदिक-स्वरपद्धतिम् ॥ ३॥

मूलम्

स्वरज्ञानप्रवेशाय द्विजानां वेदपाठिनाम् ।
त्र्यम्बकीयामिमां वक्ष्ये वैदिकस्वरपद्धतिम् ॥ ३॥

विश्वास-प्रस्तुतिः

भगवान् पाणिनिर् वेत्ति
स्वरशास्त्र-महार्णवम् ।
उडुपं मत्-कृतिर् भूयात्
तरितुं तं सुदुस्तरम् ॥ ४॥

मूलम्

भगवान् पाणिनिर् वेत्ति स्वरशास्त्रमहार्णवम् ।
उडुपं मत्कृतिर्भूयात् तरितुं तं सुदुस्तरम् ॥ ४॥

विश्वास-प्रस्तुतिः

सु-सूक्ष्म-विषयस्यास्य
शास्त्रीय-प्रतिपादने ।
तथा ऽस्ति कृतो यत्नो
यथा बालावबोधने ॥ ५॥

मूलम्

सुसूक्ष्मविषयस्यास्य शास्त्रीयप्रतिपादने ।
न तथास्ति कृतो यत्नो यथा बालावबोधने ॥ ५॥

English

I will describe my (त्र्यम्बकीय) system of accents to introduce the Vedic students
to the science of the accents . Lord Panini knows the whole ocean of this science, let my
work serve as a boat to cross this difficult ocean! (To date) no effort like this has been
made to make the technical discussion of this subtle subject accessible to a layman.
स्वरितवाङ्मयम् (Accented literature)

विश्वास-प्रस्तुतिः

संहिताः सर्ववेदानां,
ब्राह्मणं तैत्तिरीयकम् ।
सारण्यकं शतपथं,
वाङ्मयं स्वरितं स्मृतम् ॥ ६॥

मूलम्

संहिताः सर्ववेदानां ब्राह्मणं तैत्तिरीयकम् ।
सारण्यकं शतपथं वाङ्मयं स्वरितं स्मृतम् ॥ ६॥

विश्वास-प्रस्तुतिः

भिन्नानि स्वरचिह्नानि
यदि शाखासु कासुचित् ।
समानैवास्ति सर्वेषां
वेदानां स्वरपद्धतिः ॥ ७॥

मूलम्

भिन्नानि स्वरचिह्नानि यदि शाखासु कासुचित् ।
समानैवास्ति सर्वेषां वेदानां स्वरपद्धतिः ॥ ७॥

English

The list of books which use the accent-system consists of all Vedas, TaittirIya BrAhmaNa and
AraNyaka and Shatapatha . In different branches, the notational system may be varied, but the
accent system is uniformly the same!

स्वरभेदाः (Different Accents)

विश्वास-प्रस्तुतिः

उदात्तश् चानुदात्तश् च
वस्तुतश् च द्विधाः स्वराः
स्वरितः प्रचयश् चास्ते
ऽनुदात्तः स्थान-भेदतः ॥ ८॥

मूलम्

उदात्तश्चानुदात्तश्च वस्तुतश्च द्विधाः स्वराः ।
स्वरितः प्रचयश्चास्तेऽनुदात्तः स्थानभेदतः ॥ ८॥

विश्वास-प्रस्तुतिः

उदात्तम् उच्च इत्याहुर्
नीच इत्य् अनुदात्तकम् ।
समाहारस् तयोर् जात्य-
स्वरितश् च निगद्यते ॥ ९॥

मूलम्

उदात्तमुच्च इत्याहुर्नीच इत्यनुदात्तकम् ।
समाहारस्तयोर्जात्यस्वरितश्च निगद्यते ॥ ९॥

English

Their are mainly two accents UdAtta ( Acute ) and AnudAtta (Grave). Others called
Svarita (Circumflex) and Pracahya are in reality AnudAtta in special positions.
UdAtta is described as high'' and AnudAtta as low’’. Their combination
(in one syllable) is described as JAtyasvarita (Independent Svarita ).

स्वरक्रमः (List of Accents)

विश्वास-प्रस्तुतिः

अनुदात्त+उदात्तश् च
स्वरितः प्रचयः क्रमात् ।
उदात्ताद् इतरे सर्वे
निहता इति संस्मृताः ॥ १०॥

मूलम्

अनुदात्त+उदात्तश्च-स्वरितः प्रचयः क्रमात् ।
उदात्तादितरे सर्वे निहता इति संस्मृताः ॥ १०॥

English

AnudAtta, UdAtta, Svarita and Prachaya is the list of accents . All except UdAtta are known
as Nihata (lowered at the end).

उदात्तमहत्त्वम् (Importance of UdAtta)

विश्वास-प्रस्तुतिः

उदात्तो ध्रुव एतेषाम्
उदात्तालम्बिनो ऽपरे ।
उदात्त एक एवास्ति
निश्चितश् च पदे पदे ॥ ११॥

मूलम्

उदात्तो ध्रुव एतेषामुदात्तालम्बिनोऽपरे ।
उदात्त एक एवास्ति निश्चितश्च पदे पदे ॥ ११॥

English

UdAtta is central to this system, all others depend on it! Each Pada contains at most one
UdAtta.
Note: Pada पद denotes an individual word unit that the saMhitA संहिता

  • or the continuous text) is usually broken into . Several padas join to make a pAda पाद.
    Usually two pAdas make up a RichA ऋचा, the basic unit of the sUkta सूक्त.
    The version where the padas are listed separately is known as padapAtha पदपाठ and
    the accent rules for it are described below.

वेदभेदाद् उदात्तः (variation of the UdAtta symbols)

विश्वास-प्रस्तुतिः

उद्रेखित उदात्तो ऽस्ति
मैत्रायां काठके तथा ।
उद्-एकाङ्कान्वितः साम्नि
रेखितोऽधः शते पथे ॥ १२॥

मूलम्

उद्रेखित उदात्तोऽस्ति मैत्रायां काठके तथा ।
उदेकाङ्कान्वितः साम्नि रेखितोऽधः शते पथे ॥ १२॥

विश्वास-प्रस्तुतिः

शाखायां तैत्तिरीयायाम्
ऋग्वेदाथर्ववेदयोः ।
तथा वाजसनेय्यां च
चिह्नहीन उदात्तकः ॥ १३॥

मूलम्

शाखायां तैत्तिरीयायामृग्वेदाथर्ववेदयोः ।
तथा वाजसनेय्यां च चिह्नहीन उदात्तकः ॥ १३॥

English

The UdAtta is marked with a superscript bar in MaitrAyaNI and KAThaka . It
has a superscript 1 in the SAmaveda and in Shatapatha it is underlined . In TaittirIya,
Rigveda and Atharvaveda as well as VAjasaneya, it is unmarked.

विश्वास-प्रस्तुतिः

उदात्तो ऽचिह्नितो नित्यं
प्रचयश् चाप्य् अचिह्नितः
उद्रेखितश् च स्वरितो
रेखितोऽधो ऽनुदात्तकः ॥ १४॥

मूलम्

उदात्तोऽचिह्नितो नित्यं प्रचयश्चाप्यचिह्नितः ।
उद्रेखितश्च स्वरितो रेखितोऽधोऽनुदात्तकः ॥ १४॥

विश्वास-प्रस्तुतिः

कोशाद् एवावगन्तव्यं
किम् उदात्तं पदेऽक्षरम् ।
उदात्ते चैकदा ज्ञाते
ज्ञायन्ते च पदस्वराः ॥ १५॥

मूलम्

कोशादेवावगन्तव्यं किमुदात्तं पदेऽक्षरम् ।
उदात्ते चैकदा ज्ञाते ज्ञायन्ते च पदस्वराः ॥ १५॥

English

(Except as noted above,) the UdAtta is unmarked and so is the Prachaya . The svarita
has a superscripted bar and AnudAtta is underlined.
Note: This describes the main Rigveda system
and others when they correspond.
In general, the notations need to be checked for individual
books . Unless otherwise stated, the Rigveda system is described here.
To know which syllable
is UdAtta, you need to consult appropriate references . Once an UdAtta is recognized, the rest of accents
in a Pada are known.
Note: A syllable means a full letter consisting of a consonant
combination with the trailing vowel or what constitutes a full letter अक्षर.

अनुदात्तः (AnudAtta)

विश्वास-प्रस्तुतिः

उदात्त-पूर्वतः सर्वे
ऽनुदात्ता रेखिता अधः । - वैश्वानरः ।

मूलम्

उदात्तपूर्वतः सर्वेऽनुदात्ता रेखिता अधः । - वैश्वानरः ।

English

All AnudAttas before an UdAtta are underlined.
स्वरितः (Svarita)

विश्वास-प्रस्तुतिः

उदात्तोत्तरतश् चाद्यो
ऽनुदात्तः स्वरितस्वरः ॥ १६॥ - पुरोहितम् ।

मूलम्

उदात्तोत्तरतश्चाद्योऽनुदात्तः स्वरितस्वरः ॥ १६॥ - पुरोहितम् ।

English

The first AnudAtta after an UdAtta is a Svarita.
प्रचयः (Prachaya)

विश्वास-प्रस्तुतिः

स्वरितोत्तरतः सर्वे
ऽनुदात्ताः प्रचयाः स्मृताः । - इमं मे गङ्गे यमुने ।

मूलम्

स्वरितोत्तरतः सर्वेऽनुदात्ताः प्रचयाः स्मृताः । - इमं मे गङ्गे यमुने ।

English

All AnudAttas (in a string) following a Svarita are known as Prachaya

सन्नतरः (Sannatara)

विश्वास-प्रस्तुतिः

प्रचयो ऽन्य-पदोदात्त-
परः सन्नतरः स्मृतः ॥ १७॥ - सरस्वति शुतुद्रि ।

मूलम्

प्रचयोऽन्यपदोदात्तपरः सन्नतरः स्मृतः ॥ १७॥ - सरस्वति शुतुद्रि ।

English

A Prachaya (in one Pada) followed by an UdAtta in the next Pada is known as Sannatara.

उदात्तः (Recognition of UdAtta)

विश्वास-प्रस्तुतिः

प्रायः स्वरित-पूर्वस्थो
ऽनुदात्तोत्तरतोऽपि वा ।
उदात्तो ऽचिह्नितो नित्यं
तद्-युक् चानिहतं पदम् ॥ १८॥ - मीढुषे ।

मूलम्

प्रायः स्वरितपूर्वस्थोऽनुदात्तोत्तरतोऽपि वा ।
उदात्तोऽचिह्नितो नित्यं तद्युक् चानिहतं पदम् ॥ १८॥ - मीढुषे ।

English

Generally, an unmarked syllable just before a Svarita or just after an AnudAtta is UdAtta.
The pada with an UdAtta is known as Anihata (not fully lowered).

जात्यः (Recognition of the JAtya)

विश्वास-प्रस्तुतिः

निर्दिष्टात् स्वरिताद् अन्यः
स्वरितो जात्य-नामकः ।
विविधं चिह्नितो वेदे
सदैवोदात्त-सदृशः ॥ १९॥

मूलम्

निर्दिष्टात् स्वरितादन्यः स्वरितो जात्यनामकः ।
विविधं चिह्नितो वेदे सदैवोदात्तसदृशः ॥ १९॥

विश्वास-प्रस्तुतिः

ऋग्वेदे तैत्तिरीयायां स
चाप्य् उद्रेखितः पुनः ।
नीचात् परः, पदादौ वा स्वरितो यः स जात्यकः ॥ २०॥ - वीर्यम् । स्वः ।

मूलम्

ऋग्वेदे तैत्तिरीयायां स चाप्युद्रेखितः पुनः ।
नीचात् परः पदादौ वा स्वरितो यः स जात्यकः ॥ २०॥ - वीर्यम् । स्वः ।

English

There is a Svarita which arises in a different manner
( i.e . without the UdAtta interaction as described above) and its is known as
JAtya (Indepndent). It is marked differently in various Vedas and appears similar
to an UdAtta (in intonation).
In Rigveda and TaittirIya, it is superscripted with a bar.
Any Svarita which appears right after a NIcha (low - or unchanged AnudAtta)
or in the beginning of a Pada (must be) a JAtya Svarita.

स्वरपरिवर्तनम् (Special transformations of accents)

विश्वास-प्रस्तुतिः

नित्यं यात्य् अनुदात्तत्त्वं
यद्-अन्योदात्त-पूर्वतः ।
स्वरितः प्रचयश् चैव,
यश् च सन्नतरस् ततः ॥ २१॥ - नमो हिरण्यबाहवे । पतये नमः ।

मूलम्

नित्यं यात्यनुदात्तत्त्वं यदन्योदात्तपूर्वतः ।
स्वरितः प्रचयश्चैव यश्च सन्नतरस्ततः ॥ २१॥ - नमो हिरण्यबाहवे । पतये नमः ।

English

A Prachaya or a Svarita which appears just before an UdAtta becomes an AnudAtta and
hence is a Sannatara.

स्वरसन्धयः (Vowel joins across Padas)

विश्वास-प्रस्तुतिः

उच्चेन परभूतेन
सन्धिर् नित्यम् उदात्तकः
तथैव पूर्वभूतेन,
यदि जात्यो न सम्भवेत् ॥ २२॥ - त्रीणि+एकः = त्रीण्येकः । नावा+इव=नावेव ।

मूलम्

उच्चेन परभूतेन सन्धिर्नित्यमुदात्तकः ।
तथैव पूर्वभूतेन यदि जात्यो न सम्भवेत् ॥ २२॥ - त्रीणि+एकः = त्रीण्येकः । नावा+इव=नावेव ।

English

If an UdAtta or AnudAtta syllable joines with the following UdAtta (vowel), then
the joined syllable becomes UdAtta.
If an UdAtta syllable joins with the following UdAtta or AnudAtta (vowel), then
the joined syllable becomes UdAtta, unless it becomes a JAtya Svarita (as described below).
जात्योत्पत्तिः (Creation of the JAtya)

विश्वास-प्रस्तुतिः

उदात्त-पूर्वकः सन्धिर्
यद्य् उदात्तानुदात्तयोः ।
स चाभिनिहित-क्षैप्र-
प्रश्लिष्टात्मक एव चेत् ॥ २३॥

मूलम्

उदात्तपूर्वकः सन्धिर्यद्युदात्तानुदात्तयोः ।
स चाभिनिहित-क्षैप्र-प्रश्लिष्टात्मक एव चेत् ॥ २३॥

विश्वास-प्रस्तुतिः

उदात्तसदृशो जात्यस्तदैवोत्पद्यते सदा ।
अत्युच्चं तस्य पूर्वार्धं परार्धं प्रचयात्मकम् ॥ २४॥

मूलम्

उदात्तसदृशो जात्यस्तदैवोत्पद्यते सदा ।
अत्युच्चं तस्य पूर्वार्धं परार्धं प्रचयात्मकम् ॥ २४॥

English

A join as discussed above becomes a JAtya if the corresponding join is one of the
three types known as Abhinihita, Kshaipra, or PrashliShTa described below . the JAtya
which is thus created has the first part much higher and the second like a Prachaya and
generally sounds UdAtta.

जात्यभेदः (Classes of JAtya)

विश्वास-प्रस्तुतिः

स जात्यस्वरितश्चास्ति भेद्योऽभेद्य इति द्विधा ।
अभेद्यः पदसम्भूतो भेद्यश्च द्विपदोत्थितः ॥ २५॥ - राजन्यः । सोऽकामयत ।

मूलम्

स जात्यस्वरितश्चास्ति भेद्योऽभेद्य इति द्विधा ।
अभेद्यः पदसम्भूतो भेद्यश्च द्विपदोत्थितः ॥ २५॥ - राजन्यः । सोऽकामयत ।

English

This JAtya is called indivisible, if it arises within a Pada, while it is divisible if it
comes due to joining two Padas.

क्षैप्रः (Kshaipra)

विश्वास-प्रस्तुतिः

उदात्तस्यानुदात्तस्य यदा सन्धिर्यणात्मकः ।
क्षैप्रनामा तदा जात्यस्वरितः सर्वदा भवेत् ॥ २६॥ - त्रि+अम्बकम्=त्र्यम्बकम् ।

मूलम्

उदात्तस्यानुदात्तस्य यदा सन्धिर्यणात्मकः ।
क्षैप्रनामा तदा जात्यस्वरितः सर्वदा भवेत् ॥ २६॥ - त्रि+अम्बकम्=त्र्यम्बकम् ।

English

If an UdAtta and AnudAtta join creats YaN (the consonants y, v, r, l), then the resulting
JAtya is known as Kshaipra.

प्रश्लिष्टः (PrashliShTa)

विश्वास-प्रस्तुतिः

स सन्धिस्तु यदा भूयात् ह्रस्वेकारद्वयोत्थितः ।
प्रश्लिष्टसञ्ज्ञको जात्यः शाकल्यमततो भवेत् ॥ २७॥ - दिवि+इव = दिवीव ।

मूलम्

स सन्धिस्तु यदा भूयात् ह्रस्वेकारद्वयोत्थितः ।
प्रश्लिष्टसञ्ज्ञको जात्यः शाकल्यमततो भवेत् ॥ २७॥ - दिवि+इव = दिवीव ।

English

If the join comes from two short i, then according to ShAkalya, it is called PrashliShTa.

अभिनिहितः (Abhinihita)

विश्वास-प्रस्तुतिः

ए-अ-स्वरात्मकः स्याच्चेत् सन्धिः सोऽवग्रहान्वितः ।
तदाभिनिहितो नाम जात्यस्वरित उच्यते ॥ २८॥ - ये+अन्तरिक्षे = येंऽतरिक्षे । यः+अस्मान्=योऽस्मान् ।

मूलम्

ए-अ-स्वरात्मकः स्याच्चेत् सन्धिः सोऽवग्रहान्वितः ।
तदाभिनिहितो नाम जात्यस्वरित उच्यते ॥ २८॥ - ये+अन्तरिक्षे = येंऽतरिक्षे । यः+अस्मान्=योऽस्मान् ।

English

If the join is a combination of e and a resulting in an Avagraha, then it is known as Abhinihita.

कम्पः (Kampa)

विश्वास-प्रस्तुतिः

जात्यश्च कम्पते नित्यं जात्योच्चौ परतो यदि ।
जात्यश्चेतद् ह्रस्ववर्णान्तस्तन्मध्यैकाङ्कमालिखेत् ॥ २९॥ - अप्स्व kप् न्तः ।

मूलम्

जात्यश्च कम्पते नित्यं जात्योच्चौ परतो यदि ।
जात्यश्चेतद् ह्रस्ववर्णान्तस्तन्मध्यैकाङ्कमालिखेत् ॥ २९॥ - अप्स्व kप् न्तः ।

विश्वास-प्रस्तुतिः

जात्यश्चेद्दीर्घवर्णान्तस्तन्मध्ये त्र्यङ्कमालिखेत् ।
उदधोरेखितं कार्यं सदैतच्चाकृतिद्वयम् ॥ ३०॥ - ओक्येKप् सोमम् ।

मूलम्

जात्यश्चेद्दीर्घवर्णान्तस्तन्मध्ये त्र्यङ्कमालिखेत् ।
उदधोरेखितं कार्यं सदैतच्चाकृतिद्वयम् ॥ ३०॥ - ओक्येKप् सोमम् ।

विश्वास-प्रस्तुतिः

कम्पो विलिख्यते चैवमृग्वेदाथर्ववेदयोः ।
विविधं चिह्न्यतेऽन्यत्र तत्रतत्रावलोकयेत् ॥ ३१॥

मूलम्

कम्पो विलिख्यते चैवमृग्वेदाथर्ववेदयोः ।
विविधं चिह्न्यतेऽन्यत्र तत्रतत्रावलोकयेत् ॥ ३१॥

विश्वास-प्रस्तुतिः

शाखायां तैत्तिरीयायां जात्यो जात्यात्परो यदि ।
अधोरेखं तयोर्मध्ये नित्यमेकाङ्कमालिखेत् ॥ ३२॥ - वीर्यं १ व्यभजत् ।

मूलम्

शाखायां तैत्तिरीयायां जात्यो जात्यात्परो यदि ।
अधोरेखं तयोर्मध्ये नित्यमेकाङ्कमालिखेत् ॥ ३२॥ - वीर्यं १ व्यभजत् ।

English

Any JAtya followed by another JAtya or UdAtta vibrates or acquires a Kampa.
If the JAtya is a short vowel, then insert a number 1 between them (it and the following
JAtya or UdAtta) and in case it is long, insert the number 3. These numbers are to be
marked with the superscript bar as well as the underline . In Rigveda and Atharvaveda,
Kampa is denoted thus . For variations in other books, look therein . In TaittirIya,
an underlined
1 is written between two JAtya Svaritas.

स्वरितो द्विविधः (Svarita Types)

विश्वास-प्रस्तुतिः

एवं च स्वरितश्चास्ते शुद्धो जात्य इति द्विधा ।
उदात्ताच्च परः शुद्धः स्वरूपेणानुदात्तकः ॥ ३३॥ - मानोऽवधीः ।

मूलम्

एवं च स्वरितश्चास्ते शुद्धो जात्य इति द्विधा ।
उदात्ताच्च परः शुद्धः स्वरूपेणानुदात्तकः ॥ ३३॥ - मानोऽवधीः ।

स्वरितत्वं चलं तस्य पूर्वोदात्तवशं यतः । नीचत्वं च पुनर्गच्छेत् परतश्चेदुदात्तकः ॥ ३४॥ - मानो गोषु ।
English

Svarita is classified as Shuddha (Pure or depenedent) or JAtya (Independent).
The Pure or dependent Svarita is naturally an AnudAtta occuring after an UdAtta.
Its property of being a Svarita is thus unstable since it depends on the prior UdAtta.
Moreover,
it becomes NIcha (AnudAtta) if it is further followed by an UdAtta.
जात्यस्वरितः (Independent Svarita)

विश्वास-प्रस्तुतिः

नीचात्परः पदादौ वा स्वरूपेणोभयात्मकः ।
स्वयं च स्वरितो जात्य उच्चतुल्यश्च कम्पवान् ॥ ३५॥ - राजन्यः । क्व ।

मूलम्

नीचात्परः पदादौ वा स्वरूपेणोभयात्मकः ।
स्वयं च स्वरितो जात्य उच्चतुल्यश्च कम्पवान् ॥ ३५॥ - राजन्यः । क्व ।

English

The JAtya Svarita is naturally created (as described) in the beginning of a Pada or after
a NIcha (AnudAtta), is similar to an UdAtta in sound and has Kampa (following it).

उदात्तप्रचययोर्विशेषः (Distinguishing UdAtta and Prachaya)

विश्वास-प्रस्तुतिः

उदात्तः स्वरितात्पूर्वः प्रचयः स्वरितात्परः ।
प्रचयो याति नीचत्वं परतश्चेदुदात्तकः ॥ ३६॥ - नमस्ते । धृतव्रतो वरुणः ।

मूलम्

उदात्तः स्वरितात्पूर्वः प्रचयः स्वरितात्परः ।
प्रचयो याति नीचत्वं परतश्चेदुदात्तकः ॥ ३६॥ - नमस्ते । धृतव्रतो वरुणः ।

English

UdAtta occurs before a Svarita, while Prachaya occurs after it . Prachaya followed by
an UdAtta becomes NIcha.

स्वरोच्चारः (Pronunciation)

विश्वास-प्रस्तुतिः

उदात्तश्चानुदात्तश्च स्वरितश्च त्रयः स्वराः ।
उच्चैर्नीचैस्तथा तिर्यक् त उच्यन्तेऽक्षराश्रयाः ॥ ३७॥

मूलम्

उदात्तश्चानुदात्तश्च स्वरितश्च त्रयः स्वराः ।
उच्चैर्नीचैस्तथा तिर्यक् त उच्यन्तेऽक्षराश्रयाः ॥ ३७॥

विश्वास-प्रस्तुतिः

स्वरानुच्चारयेत् स्पष्टं नातिदूरं च तान् नयेत् ।
स्वरोच्चारः कथं कार्यः श्रोतव्यं तद्गुरोर्मुखात् ॥ ३८॥

मूलम्

स्वरानुच्चारयेत् स्पष्टं नातिदूरं च तान् नयेत् ।
स्वरोच्चारः कथं कार्यः श्रोतव्यं तद्गुरोर्मुखात् ॥ ३८॥

English

The three accents UdAtta, AnudAtta and Svarita can be (roughly) described as High, Low and
Across (High-low) and are attached to the whole syllables.
The accents should be clearly enunciated and should not be stretched too much (should not
be made too high or too low). The actual method must be learned from the Guru directly!

॥ स्वरमञ्जर्यां द्वितीयगुच्छः ॥

क्रियापदस्वराः

विश्वास-प्रस्तुतिः

आदौ वाक्यस्य पादस्य क्रियापदमुदात्तकम् ।
मध्ये सहेतुकं हन्तचनेद्धिकुविदन्वितम् ॥ ३९॥

मूलम्

आदौ वाक्यस्य पादस्य क्रियापदमुदात्तकम् ।
मध्ये सहेतुकं हन्तचनेद्धिकुविदन्वितम् ॥ ३९॥

विश्वास-प्रस्तुतिः

यस्मादामन्त्रितं वाक्ये नान्तर्भवितुमर्हति ।
उच्चं क्रियापदं वाक्यादिस्थसम्बोधनात्परम् ॥ ४०॥ - अग्ने नय ।

मूलम्

यस्मादामन्त्रितं वाक्ये नान्तर्भवितुमर्हति ।
उच्चं क्रियापदं वाक्यादिस्थसम्बोधनात्परम् ॥ ४०॥ - अग्ने नय ।

विश्वास-प्रस्तुतिः

निरुदात्तमनादिस्थं मुख्यवाक्यक्रियापदम् ।
उपसर्गः पदं भिन्नं चोपसर्ग उदात्तकः ॥ ४१॥ त्र्यम्बकं यजामहे । इदं विष्णुर्विचक्रमे ।

मूलम्

निरुदात्तमनादिस्थं मुख्यवाक्यक्रियापदम् ।
उपसर्गः पदं भिन्नं चोपसर्ग उदात्तकः ॥ ४१॥ त्र्यम्बकं यजामहे । इदं विष्णुर्विचक्रमे ।

विश्वास-प्रस्तुतिः

उदात्तकं सदैवास्ते गौणवाक्यक्रियापदम् ।
क्रियापदपदाङ्गश्चेदुपसर्गोऽनुदात्तकः ॥ ४२॥ - य ईशे अस्य । यतो विष्णुर्विचक्रमे ।

मूलम्

उदात्तकं सदैवास्ते गौणवाक्यक्रियापदम् ।
क्रियापदपदाङ्गश्चेदुपसर्गोऽनुदात्तकः ॥ ४२॥ - य ईशे अस्य । यतो विष्णुर्विचक्रमे ।

यदि तौलनिकोक्तिश्चेदाद्यवाक्यक्रियापदम् । उदात्तकं भवेद्यस्मात्तद्वाक्यं गौणमुच्यते ॥ ४३॥

उदा । अजोह्येकोजुषमाणोऽतु शेते जहात्येनां भुक्तभोगाभजोऽन्यः ॥
तयोरन्यः पिप्पलं स्वाद्वत्ति ॥

विश्वास-प्रस्तुतिः

यद्येककर्तृकाः सन्ति वाक्ये च बहुलाः क्रियाः ।
विनाद्यामुच्चकाः शेषास्ताभ्यो वाक्यं नवं यतः ॥ ४४॥ तरणिरिज्जयति क्षेति पुष्यति ।

मूलम्

यद्येककर्तृकाः सन्ति वाक्ये च बहुलाः क्रियाः ।
विनाद्यामुच्चकाः शेषास्ताभ्यो वाक्यं नवं यतः ॥ ४४॥ तरणिरिज्जयति क्षेति पुष्यति ।

सम्बोधनस्वराः

विश्वास-प्रस्तुतिः

सम्बोधनमनादिस्थं निहतं चेदहेतुकम् ।
वाक्यारम्भे च पादादौ त्वाद्यवर्ण उदात्तकम् ॥ ४५॥ - नमस्ते रुद्र । प्रजापते न त्वदेतान्यन्यो ।

मूलम्

सम्बोधनमनादिस्थं निहतं चेदहेतुकम् ।
वाक्यारम्भे च पादादौ त्वाद्यवर्ण उदात्तकम् ॥ ४५॥ - नमस्ते रुद्र । प्रजापते न त्वदेतान्यन्यो ।

विश्वास-प्रस्तुतिः

वाक्यारम्भस्थितानेकसम्बुद्धय उदात्तकाः ।
प्रायोऽनुदात्तकं विद्यात् सम्बोधनविशेषणम् ॥ ४६॥ - द्रापेअन्धसस्पते दरिद्रत् । पृथिवि मातः ।

मूलम्

वाक्यारम्भस्थितानेकसम्बुद्धय उदात्तकाः ।
प्रायोऽनुदात्तकं विद्यात् सम्बोधनविशेषणम् ॥ ४६॥ - द्रापेअन्धसस्पते दरिद्रत् । पृथिवि मातः ।

समासस्वराः

प्रधानं यत्पदं चास्ते समासे तदुदात्तकम् ।
पदद्वयं प्रधानं चेत् पदद्वयमुदात्तकम् ॥ ४७॥

विश्वास-प्रस्तुतिः

उदात्तकं पदं चान्त्यं प्रायस्तत्पुरुषादिषु । - इन्द्र-शत्रुः ।
आम्रेडितसमासे च पदमाद्यमुदात्तकम् ॥ ४८॥ द्यविद्यवि ।

मूलम्

उदात्तकं पदं चान्त्यं प्रायस्तत्पुरुषादिषु । - इन्द्र-शत्रुः ।
आम्रेडितसमासे च पदमाद्यमुदात्तकम् ॥ ४८॥ द्यविद्यवि ।

विश्वास-प्रस्तुतिः

बहुव्रीहिसमास्य पूर्वं पदमुदात्तकम् ।
पुरु-द्वि-त्रि-सु-नञ्-तुव्यन्वितस्यान्त्यमुदात्तकम् ॥ ४९॥ - वज्रबाहुः । इन्द्रशत्रुः । त्रिनाभि ।

मूलम्

बहुव्रीहिसमास्य पूर्वं पदमुदात्तकम् ।
पुरु-द्वि-त्रि-सु-नञ्-तुव्यन्वितस्यान्त्यमुदात्तकम् ॥ ४९॥ - वज्रबाहुः । इन्द्रशत्रुः । त्रिनाभि ।

द्व्यु दात्तकाः

प्रायेण देवताद्वन्द्वे पदद्वयमुदात्तकम् । - द्यावापृथिवी ।
परन्तु चाव्ययद्वन्द्वे पूर्वं पदमुदात्तकम् ॥ ५०॥ - सायम्प्रातः ।

विश्वास-प्रस्तुतिः

यदि षष्ठीविभक्त्यङ्गं समासप्रथमं पदम् ।
उदात्तकं तदा भूयात् तत्समासपदद्वयम् ॥ ५१॥- बृहस्पतिः । शुनः शेपः । ब्रह्मणस्पतिः ।

मूलम्

यदि षष्ठीविभक्त्यङ्गं समासप्रथमं पदम् ।
उदात्तकं तदा भूयात् तत्समासपदद्वयम् ॥ ५१॥- बृहस्पतिः । शुनः शेपः । ब्रह्मणस्पतिः ।

विश्वास-प्रस्तुतिः

तवै-प्रत्ययुक्षब्दस्यादिश्चान्त उदात्तकः । - एतवै ।
नराशंसो द्व्यु दात्तः स्यात्तद्वदेव शचीपतिः ॥ ५२॥ - शचीपतिः ।

मूलम्

तवै-प्रत्ययुक्षब्दस्यादिश्चान्त उदात्तकः । - एतवै ।
नराशंसो द्व्यु दात्तः स्यात्तद्वदेव शचीपतिः ॥ ५२॥ - शचीपतिः ।

उपसर्गस्वराः

विश्वास-प्रस्तुतिः

विंशतेरुपसर्गाणामुच्चा एकाक्षरा नव ।
अन्तोदातः स्मृतोऽभीति दशान्ये चाद्युदात्तकाः ॥ ५३॥

मूलम्

विंशतेरुपसर्गाणामुच्चा एकाक्षरा नव ।
अन्तोदातः स्मृतोऽभीति दशान्ये चाद्युदात्तकाः ॥ ५३॥

सर्वदानुदात्तकाः

विश्वास-प्रस्तुतिः

सम्बोधनं तथा नित्यं मुख्यवाक्यक्रियापदम् ।
यदा न वाक्यपादादौ तदा तन्निरुदात्तकम् ॥ ५४॥ - इमं मे गङ्गे यमुने । गणपतिं हवामहे ।

मूलम्

सम्बोधनं तथा नित्यं मुख्यवाक्यक्रियापदम् ।
यदा न वाक्यपादादौ तदा तन्निरुदात्तकम् ॥ ५४॥ - इमं मे गङ्गे यमुने । गणपतिं हवामहे ।

विश्वास-प्रस्तुतिः

सर्वनाम्नां च रूपाणि यानि वैकल्पिकानि तु ।
ईम्-सीम्-यथा च वाक्यान्ते निपाता निरुदात्तकाः ॥ ५४ अ ॥ - या त इषुः । विशो यथा ।

मूलम्

सर्वनाम्नां च रूपाणि यानि वैकल्पिकानि तु ।
ईम्-सीम्-यथा च वाक्यान्ते निपाता निरुदात्तकाः ॥ ५४ अ ॥ - या त इषुः । विशो यथा ।

विश्वास-प्रस्तुतिः

उदात्तका निपातेषु नूनं ह्येवं किलादयः ।
नु-सु-हीति पदेभ्यश्च कम् शब्दो निहतः परः ॥ ५५॥

मूलम्

उदात्तका निपातेषु नूनं ह्येवं किलादयः ।
नु-सु-हीति पदेभ्यश्च कम् शब्दो निहतः परः ॥ ५५॥

विश्वास-प्रस्तुतिः

अस्येति प्रथमादेश उदात्तं स्मर्यते पदम् ।
अन्वादेशेऽनुदात्तं तद्यदि चेद्वाक्यमध्यगम् ॥ ५६॥ - य ईशे अस्य द्विपदः । अथो ये अस्य सत्वानः ।

मूलम्

अस्येति प्रथमादेश उदात्तं स्मर्यते पदम् ।
अन्वादेशेऽनुदात्तं तद्यदि चेद्वाक्यमध्यगम् ॥ ५६॥ - य ईशे अस्य द्विपदः । अथो ये अस्य सत्वानः ।

३ इतरवेदस्वराः

॥ स्वरमञ्जर्यां तृतीयो गुच्छः । इतरवेदस्वराः ॥

मैत्रायणीकाठकस्वराः

विश्वास-प्रस्तुतिः

मैत्रायणीकाठकयोरुदात्तस्तूर्ध्वरेखितः ।
उदात्ते चैकदा ज्ञाते ज्ञायन्त इतरस्वराः ॥ ५७॥
ते देवा रात्रिमसृजन्त । (ते देवा रात्रिमसृजन्त ।)

मूलम्

मैत्रायणीकाठकयोरुदात्तस्तूर्ध्वरेखितः ।
उदात्ते चैकदा ज्ञाते ज्ञायन्त इतरस्वराः ॥ ५७॥
ते देवा रात्रिमसृजन्त । (ते देवा रात्रिमसृजन्त ।)

विश्वास-प्रस्तुतिः

अधोऽर्धवक्रितो जात्योऽनुदात्तः परतो यदि ।
अचिह्नितस्त्र्यङ्कपूर्वः परतश्चेदुदात्तकः ॥ ५८॥

मूलम्

अधोऽर्धवक्रितो जात्योऽनुदात्तः परतो यदि ।
अचिह्नितस्त्र्यङ्कपूर्वः परतश्चेदुदात्तकः ॥ ५८॥

विश्वास-प्रस्तुतिः

अधोबिन्दुयुतश्चास्ते काठके स्वरितः पुनः ।
अधःकीलाङ्कितो जात्यः परतश्चेदुदात्तकः ॥ ५९॥

मूलम्

अधोबिन्दुयुतश्चास्ते काठके स्वरितः पुनः ।
अधःकीलाङ्कितो जात्यः परतश्चेदुदात्तकः ॥ ५९॥

शतपथस्वराः

विश्वास-प्रस्तुतिः

नूनं शतपथे भूयात् केवलोदात्तदर्शनम् ।
उदात्तः स्यादधोरेखाङ्कितः शतपथे सदा ॥ ६०॥- अथ तृणैः परिस्तृणाति ।

मूलम्

नूनं शतपथे भूयात् केवलोदात्तदर्शनम् ।
उदात्तः स्यादधोरेखाङ्कितः शतपथे सदा ॥ ६०॥- अथ तृणैः परिस्तृणाति ।

विश्वास-प्रस्तुतिः

क्रमेण चेद् बहूदात्तास्तेषामन्त्यस्तु चिह्न्यते ।
उदात्तचिह्नमाप्नोति वर्णो जात्यपरोऽपि च ॥ ६१॥ - स तपोऽतप्यत । मनुष्यः ।

मूलम्

क्रमेण चेद् बहूदात्तास्तेषामन्त्यस्तु चिह्न्यते ।
उदात्तचिह्नमाप्नोति वर्णो जात्यपरोऽपि च ॥ ६१॥ - स तपोऽतप्यत । मनुष्यः ।

सामवेदस्वराः

विश्वास-प्रस्तुतिः

सामवेदे स्वराः सर्वे वर्णोपर्यङ्कदर्शिताः ।
एकाङ्कचिह्नितो वर्णः सामवेद उदात्तकः ॥ ६२॥

मूलम्

सामवेदे स्वराः सर्वे वर्णोपर्यङ्कदर्शिताः ।
एकाङ्कचिह्नितो वर्णः सामवेद उदात्तकः ॥ ६२॥

विश्वास-प्रस्तुतिः

त्र्यङ्काङ्कितोऽनुदात्तश्च स्वरितो द्व्य ङ्कचिह्नितः ।
द्व्यङ्काङ्कित उदात्तोऽपि परतः स्वरितो न चेत् ॥ ६३॥

मूलम्

त्र्यङ्काङ्कितोऽनुदात्तश्च स्वरितो द्व्य ङ्कचिह्नितः ।
द्व्यङ्काङ्कित उदात्तोऽपि परतः स्वरितो न चेत् ॥ ६३॥

विश्वास-प्रस्तुतिः

द्व्युदात्तपूर्वः स्वरितो रकारद्व्य ङ्कचिह्नितः ।
एकाङ्कयुक्तयोराद्यश्चिह्नहीनो द्वितीयकः ॥ ६४॥

मूलम्

द्व्युदात्तपूर्वः स्वरितो रकारद्व्य ङ्कचिह्नितः ।
एकाङ्कयुक्तयोराद्यश्चिह्नहीनो द्वितीयकः ॥ ६४॥

विश्वास-प्रस्तुतिः

यदि द्वाभ्यामुदात्ताभ्यामनुदात्तः परस्तदा ।
उकारद्व्य ङ्कयुक् चाद्यो द्वितीयः स्यादचिह्नितः ॥ ६५॥

मूलम्

यदि द्वाभ्यामुदात्ताभ्यामनुदात्तः परस्तदा ।
उकारद्व्य ङ्कयुक् चाद्यो द्वितीयः स्यादचिह्नितः ॥ ६५॥

विश्वास-प्रस्तुतिः

जात्यस्वरित एवापि रकारद्व्य ङ्कचिह्नितः ।
जात्यात्पूर्वोऽनुदात्तस्तु ककारत्र्यङ्कचिह्नितः ॥ ६६॥

मूलम्

जात्यस्वरित एवापि रकारद्व्य ङ्कचिह्नितः ।
जात्यात्पूर्वोऽनुदात्तस्तु ककारत्र्यङ्कचिह्नितः ॥ ६६॥

विश्वास-प्रस्तुतिः

त्र्यङ्कोत्तरो द्व्यङ्कयुक्तो जात्य उच्चपरो यदि ।
प्रचयोऽचिह्नितश्चास्ते सामवेदेऽपि सर्वदा ॥ ६७॥

मूलम्

त्र्यङ्कोत्तरो द्व्यङ्कयुक्तो जात्य उच्चपरो यदि ।
प्रचयोऽचिह्नितश्चास्ते सामवेदेऽपि सर्वदा ॥ ६७॥

४ संहितापदपाठविमर्शः

॥ चतुर्थो गुच्छः । संहितापदपाठविमर्शः ॥

पदपाठः (On PadapATha)

विश्वास-प्रस्तुतिः

पादो मानं संहितायां पदं मानं पदेषु च ।
एकत्र्यङ्कात्मकः कम्पः पदपाठे न चास्त्यतः ॥ ६८॥

मूलम्

पादो मानं संहितायां पदं मानं पदेषु च ।
एकत्र्यङ्कात्मकः कम्पः पदपाठे न चास्त्यतः ॥ ६८॥

English

The unit in the SaMhitA (continuous text) is PAda, while it is Pada in the PadapATha.
The Kampa with the numbers 1,3 does not exist in the PadapATha, because of this.

संहितापाठात् पदपाठः (Conversion to PadapATha)

विश्वास-प्रस्तुतिः

अधोरेखाङ्कितान् कुर्यात् स्वरितान् प्रचयानपि ।
ततः पदानि विगृह्य सर्वाणि च पृथक् लिखेत् ॥ ६९॥

मूलम्

अधोरेखाङ्कितान् कुर्यात् स्वरितान् प्रचयानपि ।
ततः पदानि विगृह्य सर्वाणि च पृथक् लिखेत् ॥ ६९॥

विश्वास-प्रस्तुतिः

उदात्तं च ध्रुवं कृत्वा लिखेत् प्रतिपदं स्वरान् ।
यदि कश्चित्तत्र जात्यस्तं यथैव तथा लिखेत् ॥ ७०॥

मूलम्

उदात्तं च ध्रुवं कृत्वा लिखेत् प्रतिपदं स्वरान् ।
यदि कश्चित्तत्र जात्यस्तं यथैव तथा लिखेत् ॥ ७०॥

विश्वास-प्रस्तुतिः

छान्दसं यदशुद्धं स्यात् शुद्धं कृत्वा तु तल्लिखेत् ।
वैशिष्ट्यानि च सर्वाणि पदपाठस्य दर्शयेत् ॥ ७१॥ - (सं।) श्रुधी (प।) श्रुधि

मूलम्

छान्दसं यदशुद्धं स्यात् शुद्धं कृत्वा तु तल्लिखेत् ।
वैशिष्ट्यानि च सर्वाणि पदपाठस्य दर्शयेत् ॥ ७१॥ - (सं।) श्रुधी (प।) श्रुधि

English

To convert to PadapATha from SaMhitA, put underlines under the Prachaya and the Svarita.
Then break up the Padas and write them separately . Each Pada should be writeen and marked
using the central UdAtta . If some JAtya occurs, it should be marked as such . If anything is
metrically incorrect, it should be restored properly and written down . The various
special features and terms of the PadapATha should be then added.

पदपाठात् संहितापाठः (Conversion to SaMhitA)

विश्वास-प्रस्तुतिः

वैशिष्ट्यानि च सर्वाणि पदपाठस्य लोपयेत् ।
अधोरेखाङ्कितान् कुर्यात् स्वरितान् प्रचयांस्तथा ॥ ७२॥

मूलम्

वैशिष्ट्यानि च सर्वाणि पदपाठस्य लोपयेत् ।
अधोरेखाङ्कितान् कुर्यात् स्वरितान् प्रचयांस्तथा ॥ ७२॥

विश्वास-प्रस्तुतिः

कुर्याच्च पदसंयोगं सन्धिशास्त्रानुसारतः ।
उदात्तकान् ध्रुवं कृत्वा रचयेत् स्वरपद्धतिम् ॥ ७३॥

मूलम्

कुर्याच्च पदसंयोगं सन्धिशास्त्रानुसारतः ।
उदात्तकान् ध्रुवं कृत्वा रचयेत् स्वरपद्धतिम् ॥ ७३॥

विश्वास-प्रस्तुतिः

एकत्र्यङ्कात्मकं कम्पं योग्यस्थाने समालिखेत् ।
छन्दोयोग्यं ह्र्स्वदीर्घादिकं सर्वं प्रकल्पयेत् ॥ ७४॥

मूलम्

एकत्र्यङ्कात्मकं कम्पं योग्यस्थाने समालिखेत् ।
छन्दोयोग्यं ह्र्स्वदीर्घादिकं सर्वं प्रकल्पयेत् ॥ ७४॥

English

The special features and terms of the PadapATha should be dropped . The Svarita and Prachaya
should be underlined and then the Padas should be joined according to the Sandhi Rules . By
paying attention to the central UdAttas, the whole marking system of the accents should be
created . The Kampa marks should be introduced and the short or long vowels adjusted to the
meters.

५ पदपाठीयवैशिष्ट्यानि

॥ पञ्चमो गुच्छः । पदपाठीयवैशिष्ट्यानि ॥

समासविचारः

विश्वास-प्रस्तुतिः

शब्दं सामासिकं विद्यान्नित्यमेकपदात्मकम् ।
अवग्रहान्वितं कुर्यात् समासस्य च विग्रहम् ॥ ७५॥ - बज्रऽबाहुः ।

मूलम्

शब्दं सामासिकं विद्यान्नित्यमेकपदात्मकम् ।
अवग्रहान्वितं कुर्यात् समासस्य च विग्रहम् ॥ ७५॥ - बज्रऽबाहुः ।

विश्वास-प्रस्तुतिः

नैव द्वन्द्वसमासस्य विग्रहः क्रियते कदा ।
इवेन च समासो हि स शब्दश्च विगृह्यते ॥ ७६॥ - मित्रावरुणौ । वत्संऽइव ।

मूलम्

नैव द्वन्द्वसमासस्य विग्रहः क्रियते कदा ।
इवेन च समासो हि स शब्दश्च विगृह्यते ॥ ७६॥ - मित्रावरुणौ । वत्संऽइव ।

विश्वास-प्रस्तुतिः

निषेधकं चाक्षरं अ न कदापि वियुज्यते ।
प्रेगृह्यान्तसमासस्य विग्रहेश्चेत्यनन्तरम् ॥ ७७॥ - अहस्तः । सुदानू इति सुऽदानू ।

मूलम्

निषेधकं चाक्षरं अ न कदापि वियुज्यते ।
प्रेगृह्यान्तसमासस्य विग्रहेश्चेत्यनन्तरम् ॥ ७७॥ - अहस्तः । सुदानू इति सुऽदानू ।

प्रगृह्यविचारः

विश्वास-प्रस्तुतिः

ई-ऊ-ए चास्ति प्रगृह्यो नित्यं द्विवचनस्य च ।
एकारान्तं द्विवचनं मध्यमोत्तमयोस्तथा ॥ ७८॥ - हरी इति । ममाते इति ।

मूलम्

ई-ऊ-ए चास्ति प्रगृह्यो नित्यं द्विवचनस्य च ।
एकारान्तं द्विवचनं मध्यमोत्तमयोस्तथा ॥ ७८॥ - हरी इति । ममाते इति ।

विश्वास-प्रस्तुतिः

अस्मे-युष्मे-अमी-त्वे च प्रगृह्याः सर्वनामसु ।
प्रगृह्यान्तान् सदा शब्दान् इति शब्देन दर्शयेत् ॥ ७९॥ - अस्मे इति । त्वे इति ।

मूलम्

अस्मे-युष्मे-अमी-त्वे च प्रगृह्याः सर्वनामसु ।
प्रगृह्यान्तान् सदा शब्दान् इति शब्देन दर्शयेत् ॥ ७९॥ - अस्मे इति । त्वे इति ।

विश्वास-प्रस्तुतिः

ओकारान्ता च सम्बुद्धिरोकारान्तो निपातकः ।
रेफात्मकविसर्गश्चेदितिशब्देन युज्यते ॥ ८०॥ - कारो इति । उषो इति । पुनरिति । अकरित्यक ।

मूलम्

ओकारान्ता च सम्बुद्धिरोकारान्तो निपातकः ।
रेफात्मकविसर्गश्चेदितिशब्देन युज्यते ॥ ८०॥ - कारो इति । उषो इति । पुनरिति । अकरित्यक ।

विश्वास-प्रस्तुतिः

सानुस्वारश्च दीर्घश्च इतियुक्तो निपात उ ।
पदपाठीय इतियुक् शब्द एकपदात्मकः ॥ ८१॥ - ऊं इति । रोदसी इति ।

मूलम्

सानुस्वारश्च दीर्घश्च इतियुक्तो निपात उ ।
पदपाठीय इतियुक् शब्द एकपदात्मकः ॥ ८१॥ - ऊं इति । रोदसी इति ।

प्रत्ययविचारः

विश्वास-प्रस्तुतिः

प्रत्ययास्त्रा-तर-तमा मत्-वत्-भ्यां-भ्यः-सु-भिस्तथा ।
विगृह्यन्ते यदि स्याच्चेद् मूलरूपं यथातथम् ॥ ८२॥ - पुरुषऽत्रा । गोऽमतीः । रश्मिऽभिः

मूलम्

प्रत्ययास्त्रा-तर-तमा मत्-वत्-भ्यां-भ्यः-सु-भिस्तथा ।
विगृह्यन्ते यदि स्याच्चेद् मूलरूपं यथातथम् ॥ ८२॥ - पुरुषऽत्रा । गोऽमतीः । रश्मिऽभिः

विश्वास-प्रस्तुतिः

अवग्रहः सदामध्ये धातुरूपो-पसर्गयोः ।
नहि-नक्यादयः शब्दा नित्यमेकपदात्मकः ॥ ८३॥ - विऽस्थितः । नहि । नकिः ।

मूलम्

अवग्रहः सदामध्ये धातुरूपो-पसर्गयोः ।
नहि-नक्यादयः शब्दा नित्यमेकपदात्मकः ॥ ८३॥ - विऽस्थितः । नहि । नकिः ।

तैत्तिरीयविशेषाः

विश्वास-प्रस्तुतिः

विशेषाः पदपाठीयास्तैत्तिरीया अधस्तनाः ।
मुख्यक्रियोपसर्गाणां नेदिष्ट इतिशब्दभाग् ॥ ८४॥ - अभि । समिति । नमन्तु ।

मूलम्

विशेषाः पदपाठीयास्तैत्तिरीया अधस्तनाः ।
मुख्यक्रियोपसर्गाणां नेदिष्ट इतिशब्दभाग् ॥ ८४॥ - अभि । समिति । नमन्तु ।

विश्वास-प्रस्तुतिः

यानि विग्रहयोग्यानि संहितायां पदानि च ।
अवग्रहान्वितस्तेषां विग्रहश्चेत्यनन्तरम् ॥ ८५॥ - महेन्द्र इति महाऽइन्द्रः । वर्मभिरिति वर्मऽभिः ।

मूलम्

यानि विग्रहयोग्यानि संहितायां पदानि च ।
अवग्रहान्वितस्तेषां विग्रहश्चेत्यनन्तरम् ॥ ८५॥ - महेन्द्र इति महाऽइन्द्रः । वर्मभिरिति वर्मऽभिः ।

विश्वास-प्रस्तुतिः

अवग्रहात् परं शब्दं भिन्नं मत्वा स्वरं लिखेत् ।
इव-शब्दः पदं भिन्नं द्वन्द्वस्यापि च विग्रहः ॥ ८६॥- अनुमत्या इत्यनुऽमत्यै ।

मूलम्

अवग्रहात् परं शब्दं भिन्नं मत्वा स्वरं लिखेत् ।
इव-शब्दः पदं भिन्नं द्वन्द्वस्यापि च विग्रहः ॥ ८६॥- अनुमत्या इत्यनुऽमत्यै ।

६ वेदार्थविचारः

॥ षष्ठो गुच्छः । वेदार्थविचारः ॥

विश्वास-प्रस्तुतिः

पदानि पूर्वं जानीयात् पदस्वरमनन्तरम् ।
उपसर्गान् क्रियाशब्दैः संयोज्यार्थं प्रदर्शयेत् ॥ ८७॥

मूलम्

पदानि पूर्वं जानीयात् पदस्वरमनन्तरम् ।
उपसर्गान् क्रियाशब्दैः संयोज्यार्थं प्रदर्शयेत् ॥ ८७॥

विश्वास-प्रस्तुतिः

अर्थ-स्थानवशान्नित्यं शब्दानामुच्चनीचता ।
उदात्तानुगुणश्चार्थो दर्शनीय इति स्थितिः ॥ ८८॥

मूलम्

अर्थ-स्थानवशान्नित्यं शब्दानामुच्चनीचता ।
उदात्तानुगुणश्चार्थो दर्शनीय इति स्थितिः ॥ ८८॥

विश्वास-प्रस्तुतिः

स्थानार्थयोरभेदे तु शब्दस्य सदृशः स्वरः ।
यदा न तं स्वरं पश्येदन्यथार्थं तदा नयेत् ॥ ८९॥

मूलम्

स्थानार्थयोरभेदे तु शब्दस्य सदृशः स्वरः ।
यदा न तं स्वरं पश्येदन्यथार्थं तदा नयेत् ॥ ८९॥

विश्वास-प्रस्तुतिः

एवं पदे समासे वा यत्रोदात्तो व्यवस्थितः ।
तात्पर्यं तत्र शब्दस्य स्थापयेदिति निर्णयः ॥ ९०॥

मूलम्

एवं पदे समासे वा यत्रोदात्तो व्यवस्थितः ।
तात्पर्यं तत्र शब्दस्य स्थापयेदिति निर्णयः ॥ ९०॥

विश्वास-प्रस्तुतिः

अन्धकारे च दीपेन गच्छन्न स्स्खलति क्वचित् ।
स्वरप्रकाशितश्चैवं वेदार्थे न प्रमाद्यति ॥ ९१॥

मूलम्

अन्धकारे च दीपेन गच्छन्न स्स्खलति क्वचित् ।
स्वरप्रकाशितश्चैवं वेदार्थे न प्रमाद्यति ॥ ९१॥

७ उपसंहारः

विश्वास-प्रस्तुतिः

अभ्यङ्करकुलोत्पन्नस्त्र्यम्बको बालदेहजः ।
समीक्ष्य संहिताः सम्यक् कृतवान् स्वरमञ्जरीम् ॥ ९२॥

मूलम्

अभ्यङ्करकुलोत्पन्नस्त्र्यम्बको बालदेहजः ।
समीक्ष्य संहिताः सम्यक् कृतवान् स्वरमञ्जरीम् ॥ ९२॥

विश्वास-प्रस्तुतिः

वेदार्थसुखबोधाय शास्त्रीयपठणाय च ।
तस्या अध्यननं कार्यं सार्थमेव च वैदिकैः ॥ ९३॥

मूलम्

वेदार्थसुखबोधाय शास्त्रीयपठणाय च ।
तस्या अध्यननं कार्यं सार्थमेव च वैदिकैः ॥ ९३॥

विश्वास-प्रस्तुतिः

भू-शास्त्र-वसु-भूशाके (१८६१) श्रावणे कृष्णवैष्णवे ।
मत्पूज्यगुरुपादाभ्यां मञ्जरीयं समर्पिता ॥ ९४॥

मूलम्

भू-शास्त्र-वसु-भूशाके (१८६१) श्रावणे कृष्णवैष्णवे ।
मत्पूज्यगुरुपादाभ्यां मञ्जरीयं समर्पिता ॥ ९४॥

विश्वास-प्रस्तुतिः

मन्त्रश्चेत् स्वरतो हीनो वज्रं भूत्वा हिनस्ति सः ।
स एव कामधुग् भूयात् पठितश्चेद्यथास्वरम् ॥ ९५॥

मूलम्

मन्त्रश्चेत् स्वरतो हीनो वज्रं भूत्वा हिनस्ति सः ।
स एव कामधुग् भूयात् पठितश्चेद्यथास्वरम् ॥ ९५॥

॥ इति श्री । बी । ए । इत्युपपदसमलङ्कृत-गीर्वाणभूषण-अभ्यङ्करोपाह्व
त्र्यम्बकशास्त्रिप्रणीतस्वरमञ्जरी समाप्ता ॥