०३० समभिसम् (सम्+अभि+सम्)

धा

  • {समभिसंधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसन्दधे’ (भा० वन० १२६।३०)। समभिसन्दधे=निदधे।
  • ‘तपः समभिसन्धाय वनमेवान्वपद्यत’ (भा० वन० १८५।३७)। समभिसन्धाय=अभिसन्धाय=अभिप्रेत्य=मनसिकृत्य।
  • ‘योत्स्येहं मातुलेनाद्य क्षत्रधर्मेण पार्थिवाः। स्वयं समभिसन्धाय विजयायेतराय वा’ (भा० शल्य० १६।२३)॥ समभिसन्धाय=व्यवसाय=व्यवसितो भूत्वा। समो द्विरुक्तिः।