१६३ अभ्यव (अभि+अव)

अन्

  • {अभ्यवअन्}
  • अन् (अन प्राणने)।
  • ‘जातं कुमारं त्रिरभ्यावान्य’ (शां० गृ० १।२४।२)। अभ्यावान्य=अभ्युच्छ्वस्य।

अय्

  • {अभ्यवअय्}
  • अय् (अय गतौ)।
  • ‘असुरा वज्रमुद्यत्य देवानभ्यायन्त’ (तै० सं० ६।२।७।४)। अभ्यायन्त अभिमुखमागमन्, उपाद्रवन्।

  • {अभ्यवइ}
  • इ (इण् गतौ)।
  • ‘नापोऽभ्यवयन्त्यूर्ध्वं जानुभ्यामगुरुप्रयुक्ताः’ (गो० गृ० ३।१।३२)। अभ्यवयन्ति अवगाहन्ते अवतरन्ति प्रविशन्ति। अवोऽधोऽर्थे। अभिस्तु नार्थविशेषं कञ्चिदाह। स्थावरा (अपः) अभ्यवयन्ति।
  • ‘ता हि साक्षाद् वरुणः’ (मै० सं० ४।८।५)। उक्तोऽर्थः। अत्रार्थे छन्दसि बहुलः प्रयोगोऽभ्यवेणः।
  • ‘काश्चिद् दिशः स्थलोच्चयेन लक्ष्यन्ते–अवभृथमभ्यवैति’ (ऐ० ब्रा० १।३)।
  • ‘शनैरपोऽभ्यवेयात्’ (आप० ध० २।९।२२।१३)।
  • ‘अथो खल्बाहुर्यत्रैवेतरेऽवभृथमभ्यवेयुस्तदस्थान्यवहरेयुः’ (जै० ब्रा० १।३४७)।
  • ‘न पुराऽवभृथादपोऽभ्यवेयात्’ (श० ब्रा० ३।२।२।२७)। इति।
  • ‘ततोऽभ्यवैति ततो रातमना आलम्भाय भवति’ (पशुः) (श० ब्रा० ३।७।३।६)। अभ्यवैति=अभ्युपैति, अनुमन्यते।
  • ‘तदृषयो यज्ञवास्त्वभ्यवायन्, तेऽपश्यन् पुरोडाशम्’ (तै० सं० २।६।३।२)। अभ्यवायन् ऐक्षन्त।
  • ‘नोदीचीरभ्यवेत्या इत्येके’ (आप० श्रौ० ८।२।७।१९)। अभ्यवेत्या अवगाह्याः।
  • ‘चतुर्थकाल उदकाभ्यवायी’ (आप० ध० १।९।२७।११)। सलिलावगाहीत्यर्थः।

तन्

  • {अभ्यवतन्}
  • तन् (तनु विस्तारे)।
  • ‘रश्मयः प्राणानभ्यवतायन्ते’ (श० ब्रा० २।३।३।६)। प्राणाननु वितता भवन्तीत्यर्थः।

दो

  • {अभ्यवदो}
  • दो (दो अवखण्डने)।
  • ‘मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूत्’ (श० ब्रा० १४९।१।१०)। अभ्यवदान्य आच्छेत्ता, प्रमोषकः। कर्तरि कृत्यः।

धा

  • {अभ्यवधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘पौरजनाश्रुभिः। पतितैरभ्यवहितं प्रणनाश महीरजः’ (रा० २।४०।३३)। अभ्यवहितं रथेनाभ्युद्यतमिति रामष्टीकाकारः। तदसत्। अवपूर्वस्य दधाते र्नीचैर्निधानमर्थः प्रसिद्धः। तदिदमिहैव द्वितीयस्मिन्खण्डे वितत्य दर्शितचरम् इति न भूयो वितन्यते। संस्कृतशार्मण्यकोषोप्यत्रानुकूलः। तेन निषण्णं प्रशान्तमित्येवार्थः।

नी

  • {अभ्यवनी}
  • नी (णीञ् प्रापणे)।
  • ‘तस्मादश्वानद्भिरभ्युक्षति स्नपनायाभ्यवनीयमानान्’ (श० ब्रा० ५।१।४।५)। अभ्यवनीयमानान् अवतार्यमाणान्।
  • ‘यथा संगतां भूमानं देवानां पत्नीरभ्यवनयेत्’ (शां० ब्रा० ७।९)। अभ्यवनयेत्=नयेत्।
  • ‘हिरण्यमेवापो ऽभ्यवनयेत् हिरण्यमभ्युन्नयेत्’ (पञ्च० ब्रा० ९।९।३)। हिरण्यस्योपर्यप आसिञ्चेदित्याह।

पत्

  • {अभ्यवपत्}
  • पत् (पत्लृ गतौ)।
  • ‘सा (जगती) परास्य त्रीण्यक्षराण्येकाक्षरा भूत्वा दीक्षां तपश्च हरन्ती पुनरभ्यवापतत्’ (ऐ० ब्रा० ३।१)। अभ्यवापतत्=न्यवर्तत। एतं लोकमभिलक्ष्य अवापतत् अधोमुखी समागतेति सायणः।

पद्

  • {अभ्यवपद्}
  • पद् (पद गतौ)।
  • ‘भूमिद्रव्यहरणेन लोभविजयी तुष्यति। तमर्थेनाभ्यवपद्येत’ (कौ० अ० १२।१।१३-१४)। अभ्यवपद्येत=आवर्जयेत्, स्वस्मिन्प्रवणं कुर्यात्, अनुगुणं विदधीत।
  • ‘अस्मानभ्यवपद्यैते मामूचुर्द्विजसत्तमाः’ (रा० ३।१०।७)। अभ्यवपद्य अभ्यवपद्यस्व अनुगृहाण त्रायस्व।
  • ‘सीतामभ्यवपन्नोऽहं रावणेन बलीयसा’ (रा० ३।६७।१७)। अभ्यवपन्न आभिमुख्येन गतः तदभिमुखमागत इति भूषणकारो गोविन्दराजः। त्रातुमुपेत इति व्यवहारानुगुणोऽर्थः। अत्र कर्तरि क्त इति बोध्यम्।
  • ‘स्त्रीविप्राभ्यवपत्तौ घ्नन्धर्मेण न दुष्यति’ (मनु० ८।३४९)। अभ्यवपत्तिः परिभव इति मेधातिथिः। सोऽयं व्यवहारं विरुन्धे। अभ्यवपत्तिरप्यभ्युपपत्तिरेव भवति। अभ्युपपत्तिरनुग्रहः परित्राणमित्यविसंवादी वादः। इदं चेहैवानुपदं व्यक्तं भविष्यति।
  • ‘व्यसनसाहाय्यमभ्यवपत्तिः’ (कौ० अ० २।१०।३??)।
  • ‘तेषामभ्यवपत्त्या धर्मविजयी तुष्यति’ (कौ० अ० १२।१।११)। अभ्यवपत्तिः प्रपत्तिरात्मसमर्पणं विधेयीभावः शरणागतिः।
  • ‘मयाऽस्य शरणागत इति कृत्वाऽभ्यवपत्तिश्च दत्ता’ (तन्त्रा० १।६)। अभ्यवपत्तिः परित्राणमभयम्।
  • ‘ततस्तामभ्यवपत्तुकामो यौगन्धरायणो नाम सचिवस्तस्मिन्नेवाग्नौ पतितः’ (स्वप्न० १)। अभ्यवपत्तुमभ्युपपत्तुम्, परित्रातुम्।
  • ‘अस्मानभ्यवपद्यैते मामूचुर्द्विजसत्तमाः’ (रा० ३।१०।७)। अभ्यवपद्य=उपेत्य।

या

  • {अभ्यवया}
  • या (या प्रापणे प्रापणमिह गतिः)।
  • ‘चतुर्थकाले उदकाभ्यवयायी त्रिभिर्वर्षैस्तदपहन्ति पापम्’ (बौ० ध० ??।१।२।३)। त्रिषवणस्नायीत्यर्थः।

रुह्

  • {अभ्यवरुह्}
  • रुह् (रुह बीजजन्मनि)।
  • ‘वाराही उपानहा अभ्यवरोहति’ (मै० सं० ४।४।६)। ऊर्ध्वस्थितो नीचैः स्थितयोरुपानहोः पादौ निधत्त इत्यर्थः। हुताशनः।
  • ‘श्वेताश्वमिव प्रासादं ज्वलन्नभ्यवरूढवान्’ (रा० ५।५२।१५)।
  • ‘न श्रेयांसं पापीयानभ्यारोहति’ (पञ्च० ब्रा० २।१।४)। अभिक्रामतीत्यर्थः। पृथगेव तौ भवत इत्युक्तं भवति।

वृत्

  • {अभ्यववृत्}
  • वृत् (वृतु वर्तने)।
  • ‘यथाहितस्याग्नेरङ्गारा अभ्यववर्तेरन्’ (तै० ब्रा० १।१।५।९)। अभ्यववर्तेरन् अभितो वर्तेरन् विप्रतिष्ठेरन् विनिश्चरेयुः।

हृ

  • {अभ्यवहृ}
  • हृ (हृञ् हरणे)
  • ‘तमेवं भृत्वा समुद्रमभ्यवजहार’ (श० ब्रा० ५।१।८।१)। अभ्यवजहार=अधो निनाय। अवोऽधोर्थे। तौ होचतुः।
  • ‘एतᳫ ह्रदमभ्यवहर’ (श० ब्रा० ४।१।५।१२)। अभ्यवहर=अवधेहि, अवनय।
  • ‘अत्रार्थे छन्दसि प्रसिध्यन्त्यः काश्चन दिश उदाह्रियन्ते भूयोवैशद्याय–अप एवैनान्यभ्यवहरेयुः’ (श० ब्रा० १२।२।२।१४)।
  • ‘तदेतदभ्यवहरन्ति’ (श० ब्रा० ५।३।५।२६)। तद्वासः।
  • ‘स यदा तामतिवर्धाऽअथ मा समुद्रमभ्यवहरासि’ (श० ब्रा० १८।१।३)।
  • ‘अपो मृन्मयान्यभ्यवहरन्ति ददत्येवास्मयानि’ (पात्राणि) (जै० ब्रा० २।४८)।
  • ‘अपः पिण्डानभ्यवहरेद् ब्राह्मणं वा प्राशयेत्’ (आप० श्रौ० १।३।१०।११)। इति।
  • ‘अथो अरण्ये हतं ग्राममभ्यवहरन्ति’ (जै० ब्रा० १।८९)। अभ्यवहरन्त्याहरन्तीत्यर्थः।
  • ‘मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत्’ (भा० शां० ८८।८)। ग्राहयेदित्यर्थः।
  • ‘न ह्येनच्छक्नोत्यभ्यवहर्तुमुद्गरितुं वा’ (अवदा० जा० ३४)। अभ्यवहर्तुं निगलितुं कण्ठस्याधस्तान्नेतुम्।
  • ‘ओदनं भुङ्क्ष्व सक्तून् पिब धानाः खादेत्यभ्यवहरति’ (पा० ३।४।५ वृत्तौ)। अभ्यवहरति अश्नाति। निगरणादशनं नातिदूर इत्यर्थसङ्क्रान्तिः सुखा।
  • ‘शक्नोषि किमनेन शालिप्रस्थेन सम्पन्नमन्नमस्मानभ्यवहारयितुम्’ (दशकु० पृ० १३१)। अभ्यवहारयितुम् भोजयितुम्।
  • ‘शुचीन्यभ्यवहाराणि मूलानि फलानि च’ (रा० ४।५०।३५)। अभ्यवहाराणि अभ्यवहाराः, अभ्यवहार्या अर्थाः।
  • ‘मूत्रपुरीषस्नेहविस्रंसनाभ्यवहारसंयोगेषु’ (गौ० ध० १।१।४७)। अभ्यवहारमभ्यवहार्यद्रव्यमिति हरदत्तः।
  • ‘अपोऽभ्यवहृत्य’ (भा० गृ० ३।१८)। मृन्मयान्यप्सु प्रास्येत्यर्थः।
  • ‘अप इति द्वितीयाबहुवचनम्। कुतोऽस्याभ्यवहरणम्’ (तन्त्रा० ५।२)। आहरणमित्यर्थः।