साधारणा

साधारणी

‘साधारण’ इति शब्दात् “५.४.२५ पादार्घाभ्यां च” इत्यत्र निर्दिष्टेन “आग्नीध्रसाधारणाद् अञ्” इति वार्त्तिकेन स्वार्थे अञ्-प्रत्ययः भवति । साधारणम् इत्येव = साधारण + अञ् → साधारण । अग्रे स्त्रीत्वे विवक्षिते ४.१.१५ टिड्घाणञ्.. इति सूत्रेण ङीप्-प्रत्यये कृते “साधारणी” इति रूपम् ।

‘साधारणी’ इति शब्दस्य व्युत्पत्तिः — समानं धारणमस्याः इति साधारणी । अनेकं प्रति अविशिष्टसम्बन्धः भूम्यादिः । पृषोदरादित्वात् समानस्य सभावः ।

साधारणा

विभाषाप्रकरणात् अञभावे टाप् । साधारणा भूमिः — इति तत्र ५.४.२५ पादार्घाभ्यां च इत्यत्र तत्त्वबोधिनी । तद्धितप्रत्ययाः विकल्पेन विधीयन्ते अतः “साधारण” शब्दात् अञ्-प्रत्ययः न क्रियते चेत् तत्र स्त्रीत्वे विवक्षिते “४.१.४ अजाद्यतष्टाप्” इति टाप् प्रत्ययः एव भवति, येन साधारण + टाप् → साधारणा इति सिद्ध्यति — इति अस्य आशयः । यथा, साधारणस्त्री = साधारणा स्त्री ।