आशीर्लिङ्

प्रत्ययनिर्माणम्

  • त् (पित्) ताम् उस्
    स् (पित्) तम् त
    अम् (पित्) व म
    • अदन्तपक्षे - ईयङ् + प्रत्ययः (प्रायेण लङ्वत्)।
    • अनदन्तपक्षे - यासुँट् + प्रत्ययः (प्रायेण लङ्वत्)।
  • सीष्ट सीयुट्+स्+ताम् सीरन्
    सीष्ठाः सीयुट्+स्+थाम् सीयुट्+ध्वम्
    ईय सीवहि सीमहि
    • (सुट् तिथोः)

अतिदेशाः

  • कित् आशिषि परस्मैपदे।
  • कित्-त्वातिदेशः सीयुटः अनिटि इक्+हल्, (ऋ) उश्च॥

इडागमः

सेटि सन्धिकार्यम्

  • आदेश-प्रत्यययोः इण्कोः अपदान्तस्य सः मूर्धन्यः। अतः - इट् + सीष्ट - इषीष्ट
  • [ इणः अङ्गात् षीध्वम्-लुङ्-लिटाम् अपदान्तस्य धः मूर्धन्यः] विभाषेटः। लविषीढ्वम्, लविषीध्वम्।

अनिटि सन्धिकार्यम्

  • इणः अङ्गात् षीध्वम्-लुङ्-लिटाम् अपदान्तस्य धः मूर्धन्यः। च्योषीढ्वम्, प्लोषीढ्वम्। अङ्गातिति किम्? परिवेविषीध्वम्।

उदाहरणम्

गम्यात् गम्यास्ताम् गम्यासुः
गम्याः गम्यास्तम् गम्यास्त
गम्यासम् गम्यास्व गम्यास्म

वर्धिषीष्ट वर्धिषीयास्ताम् वर्धिषीरन्
वर्धिषीष्ठाः वर्धिषीयास्थाम् वर्धिषीध्वम्
वर्धिषीय वर्धिषीवहि वर्धिषीमहि

अङ्गकार्याणि

कित्त्वकार्याणि।

  • “आतः - पा → एर् लिङि। वा अन्यस्य संयोगादेः।”
  • इ → अकृत्-सार्वधातुकयोर् दीर्घः
  • “ऋ → रिङ् श-यक्-लिङ्षु।
  • गुणो अर्ति-संयोगाद्योः।
  • जाग्रो अ-वि-चिण्-णल्-ङित्-सु।”
  • “ॠ → ॠत इत् धातोः। उर् अण् रपरः। हलि च। उदोष्ठ्यपूर्वस्य।”
  • णिजन्ताः → णेर् अनिटि
  • “सेटि आत्मनेपदे गुणकार्यम्।
    • विभाषा लीयतेः।”

सन्धिकार्यम्