१४१ अतिप्र (अति+प्र)

नश्

  • {अतिप्रणश्}
  • नश् (णश अदर्शने)।
  • ‘नेदिमाँल्लोकानतिप्रणश्यानि’ (श० ब्रा० ६।७।२।१६)। एभ्यो लोकेभ्यो हीयेयेति मा भूत्।

नी

  • {अतिप्रणी}
  • नी (णीञ् प्रापणे)।
  • ‘ततश्चैवातिप्रणयः’ (गो० गृ० ४।४।४)। अतिप्रणयनं दूरतरं नयनम्।

पद्

  • {अतिप्रपद्}
  • पद् (पद गतौ)।
  • ‘अलभ्यः पुनरश्वैस्तु रथात् सोऽतिप्रपादयेत्’ (भा० वि० ५५।२०)। रधात्प्रपात्य इमं लोकमतिक्रमय्य परं लोकं प्रापयेदित्यर्थः।

युज्

  • {अतिप्रयुज्}
  • युज् (युजिर् योगे)।
  • ‘अन्या वो अन्यामति मा प्रयुक्त’ (तै० सं० ४।३।११।४)। माऽतिप्रेरिरत्।
  • ‘सर्वेणैवैनमिन्द्रियेणाति प्रयुङ्क्ते’ (तै० सं० ७।२।७।४)। अतिप्रयुङ्क्ते दृढं बध्नाति।

वृत्

  • {अतिप्रवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘अतिप्रवृत्तं रक्तम्’ (सुश्रुते १।४५।१८)। अतिमात्रं स्यन्दमानमस्रम्।
  • ‘मार्जारनकुलादीनां विषं नातिप्रवर्तते’ (सुश्रुत० २।२६९।१२)। नातिप्रवर्तते न प्रभावुकं भवति।

श्रि

  • {अतिप्रश्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘अयं तु प्रकृत्युद्धतो रामः कथमित्थमतिप्रश्रयते’ (बालरा० ४)। अतिप्रश्रितो भवति। निभृतविनीतप्रश्रिताः समाः (अमरः)।

सञ्ज्

  • {अतिप्रसञ्ज्}
  • सञ्ज् (षञ्ज सङ्गे)।
  • ‘तद्विरमातिप्रसङ्गात्’ (उत्तर० ५)। अतिप्रसङ्गोऽविनयो वैयात्यम्।
  • ‘अतिप्रसङ्गाद् विहितागसो मुहुः’ (कि० ८।१२)। अतिप्रसङ्गोऽविच्छेदेन सङ्गः।