०३

अलुगुत्तरपदे॥ ६.३.१॥

अलुगिति च, उत्तरपद इति चैतदधिकृतं वेदितव्यम्। यदित ऊर्ध्वमनुक्रमिष्यामोऽलुगुत्तरपद इत्येवं तद् वेदितव्यम्। वक्ष्यति-‘पञ्चम्याः स्तोकादिभ्यः’ (६.३.२)। स्तोकान्मुक्त ः। अल्पान्मुक्त ः। उत्तरपद इति किम्? निष्क्रान्तः स्तोकाद् निःस्तोकः। अन्यार्थमिद-मुत्तरपदग्रहणमिहाप्यलुको निवृत्तिं करोतीत्येवमर्थं लक्षणप्रतिपदोक्त परिभाषा नाश्रयितव्या। अलुगधिकारः प्रागानङः (६.३.२५)। उत्तरपदाधिकारः प्रागङ्गाधिकारात् (६.४.१)॥

पञ्चम्याः स्तोकादिभ्यः॥ ६.३.२॥

स्तोकान्तिकदूरार्थकृच्छ्राणि स्तोकादीनि, तेभ्यः परस्याः पञ्चम्या उत्तरपदेऽलुग् भवति। स्तोकान्मुक्तः। अल्पान्मुक्तः। अन्तिकादागतः। अभ्याशादागतः। दूरादागतः। विप्रकृष्टादागतः। कृच्छ्रान्मुक्त ः। समासे कृते प्रातिपदिकत्वात् सुपो लुकि प्राप्ते प्रतिषेधः क्रियते। द्विवचनबहुवचनान्तानां तु स्तोकादीनामनभिधानात् समास एव न भवति-स्तोकाभ्यां मुक्त ः, स्तोकेभ्यो मुक्त इति। तेनात्र न कदाचिदैकपद्यमैकस्वर्यं च भवति॥ ब्राह्मणाच्छंसिन उपसंख्यानं कर्तव्यम्॥ ब्राह्मणादादाय शंसतीति ब्राह्मणाच्छंसीति। ऋत्विग्विशेषस्य रूढिरियम्। तस्य व्युत्पत्तिरसता सता वावयवार्थेन क्रियते॥

ओजःसहोऽम्भस्तमसस्तृतीयायाः॥ ६.३.३॥

ओजस् सहस् अम्भस् तमस् इत्येतेभ्य उत्तरस्यास्तृतीयाया अलुग् भवत्युत्तरपदे। ओजसाकृतम्। सहसाकृतम्। अम्भसाकृतम्। तमसाकृतम् ॥ अञ्जस उपसंख्यानम्॥ अञ्जसाकृतम्॥ पुंसानुजो जनुषान्ध इति वक्त व्यम्॥ पुंसानुजः। जनुषान्धः॥

मनसः संज्ञायाम् ॥ ६.३.४॥

मनस उत्तरस्यास्तृतीयायाः संज्ञायामलुग् भवति। मनसादत्ता। मनसागुप्ता। मनसासंगता। संज्ञायामिति किम् ? मनोदत्ता। मनोगुप्ता॥

आज्ञायिनि च ॥ ६.३.५॥

आज्ञायिन्युत्तरपदे मनस उत्तरस्यास्तृतीयाया अलुग् भवति। मनसा आज्ञातुं शीलमस्य मनसाज्ञायी।

आत्मनश्च पूरणे ॥ ६.३.६॥

आत्मन उत्तरस्यास्तृतीयायाः पूरणप्रत्ययान्त उत्तरपदेऽलुग् भवति। आत्मनापञ्चमः। आत्मनाषष्ठः। ‘तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानम्’(२.३.१८. वा॰) इति तृतीया। तृतीयेति योगविभागात् समासः। आत्मना वा कृतः पञ्चम आत्मनापञ्चमः। कथं जनार्दनस्त्वात्मचतुर्थ एवेति? बहुव्रीहिरयमात्मा चतुर्थोऽस्यासावात्मचतुर्थः॥

वैयाकरणाख्यायां चतुर्थ्याः ॥ ६.३.७॥

वैयाकरणानामाख्या वैयाकरणाख्या। आख्या संज्ञा। यया संज्ञया वैयाकरणा एव व्यवहरन्ति, तस्यामात्मन उत्तरस्याश्चतुर्थ्या अलुग् भवति। आत्मनेपदम्। आत्मनेभाषा। तादर्थ्ये चतुर्थी (२.३.१३ वा॰)। चतुर्थीति योगविभागात् समासः॥

परस्य च ॥ ६.३.८॥

परस्य च या चतुर्थी तस्या वैयाकरणाख्यायामलुग् भवति। परस्मैपदम्। परस्मैभाषा॥

हलदन्तात् सप्तम्याः संज्ञायाम् ॥ ६.३.९॥

हलन्ताददन्तात् चोत्तरस्याः सप्तम्याः संज्ञायामलुग् भवति। युधिष्ठिरः। त्वचिसारः। गविष्ठिर इत्यत्र तु ‘गवियुधिभ्यां स्थिरः’ (८.३.९५) इत्यत एव वचनादलुक्। अदन्तात्-अरण्येतिलकाः। अरण्येमाषकाः। वनेकिंशुकाः। वनेहरिद्रकाः। वनेबल्वजकाः। पूर्वाह्णेस्फोटकाः। कूपेपिशाचकाः। हलदन्तादिति किम्? नद्यां कुक्कुटिका नदीकुक्कुटिका। भूम्यां पाशाः भूमिपाशाः। संज्ञायामिति किम्? अक्षशौण्डः॥ हृद्द्युभ्यां ङेः॥ हृद् दिव् इत्येताभ्यामुत्तरस्य ङेरलुग् भवति। हृदिस्पृक्। दिविस्पृक्॥

कारनाम्नि च प्राचां हलादौ ॥ ६.३.१०॥

प्राचां देशे यत् कारनाम तत्र हलादावुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्या अलुग् भवति। स्तूपेशाणः। दृषदिमाषकः। हलेद्विपदिका। हलेत्रिपदिका। कारविशेषस्य संज्ञा एताः, तत्र पूर्वेणैव सिद्धे नियमार्थमिदम्। एते च त्रयो नियमविकल्पा अत्रेष्यन्ते-कारनाम्न्येव, प्राचामेव, हलादावेवेति। कारनाम्नीति किम्? अभ्यर्हिते पशुः अभ्यर्हितपशुः। कारादन्यस्यैतद् देयस्य नाम। प्राचामिति किम्? यूथे पशुः यूथपशुः। हलादाविति किम्? अविकट उरणः अविकटोरणः। हलदन्तादित्येव-नद्यां दोहनी नदीदोहनी॥

मध्याद् गुरौ ॥ ६.३.११॥

मध्यादुत्तरस्याः सप्तम्या गुरावुत्तरपदेऽलुग् भवति। मध्येगुरुः॥ अन्ताच्चेति वक्त व्यम्॥ अन्तेगुरुः। सप्तमीति योगविभागात् समासः॥

अमूर्धमस्तकात् स्वाङ्गादकामे ॥ ६.३.१२॥

मूर्धमस्तकवर्जितात् स्वाङ्गादुत्तरस्याः सप्तम्या अकाम उत्तरपदेऽलुग् भवति। कण्ठे कालोऽस्य कण्ठेकालः। उरसिलोमा। उदरेमणिः। अमूर्धमस्तकादिति किम्? मूर्धशिखः। मस्तकशिखः। अकाम इति किम्? मुखे कामोऽस्य मुखकामः। स्वाङ्गादिति किम्? अक्षशौण्डः। हलदन्तादित्येव-अङ्गुलित्राणः। जङ्घावलिः॥

** बन्धे च विभाषा॥ ६.३.१३॥**

बन्ध इति घञन्तो गृह्यते। तस्मिन्नुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्या विभाषालुग् भवति। हस्तेबन्धः, हस्तबन्धः। चक्रेबन्धः, चक्रबन्धः। उभयत्रविभाषेयम्। स्वाङ्गाद्धि बहुव्रीहौ पूर्वेण नित्यमलुक् प्राप्नोति। तत्पुरुषे तु स्वाङ्गादस्वाङ्गात् च ‘नेन्सिद्धबध्नातिषु च’ (६.३.१९) इति प्रतिषेधः प्राप्नोति। हलदन्तादित्येव-गुप्तिबन्धः॥

** तत्पुरुषे कृति बहुलम् ॥ ६.३.१४॥**

तत्पुरुषे समासे कृदन्त उत्तरपदे सप्तम्या बहुलमलुग् भवति। स्तम्बेरमः। कर्णेजपः। न च भवति-कुरुचरः। मद्रचरः॥

** प्रावृट्शरत्कालदिवां जे॥ ६.३.१५॥**

प्रावृट् शरत् काल् दिव् इत्येतेषां ज उत्तरपदे सप्तम्या अलुग् भवति। प्रावृषिजः। शरदिजः। कालेजः। दिविजः। पूर्वस्यैवायं प्रपञ्चः॥

विभाषा वर्षक्षरशरवरात् ॥ ६.३.१६॥

वर्ष क्षर शर वर इत्येतेभ्य उत्तरस्याः सप्तम्या ज उत्तरपदे विभाषालुग् भवति। वर्षेजः, वर्षजः। क्षरेजः, क्षरजः। शरेजः, शरजः। वरेजः, वरजः॥

घकालतनेषु कालनाम्नः ॥ ६.३.१७॥

घसंज्ञके प्रत्यये कालशब्दे तनप्रत्यये च परतः कालनाम्न उत्तरस्याः सप्तम्या विभाषालुग् भवति। घ-पूर्वाह्णेतरे, पूर्वाह्णतरे। पूर्वाह्णेतमे, पूर्वाह्णतमे। काल-पूर्वाह्णेकाले, पूर्वाह्णकाले। तन- पूर्वाह्णेतने, पूर्वाह्णतने। कालनाम्न इति किम् ? शुक्लतरे। शुक्लतमे। हलदन्तादित्येव-रात्रितरायाम्। ‘उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्नेष्यते’ (परि॰ २५) ‘हृदयस्य हृल्लेख॰’ (६.३.५०) इति लेखग्रहणाद् लिङ्गात्। तेन घतनग्रहणे तदन्तग्रहणं न भवति। काल इति न स्वरूपग्रहणम्॥

शयवासवासिष्वकालात् ॥ ६.३.१८॥

शय वास वासिन् इत्येतेषूत्तरपदेष्वकालवाचिन उत्तरस्याः सप्तम्या विभाषालुग् भवति। खेशयः, खशयः। ग्रामेवासः, ग्रामवासः। ग्रामेवासी, ग्रामवासी। अकालादिति किम्? पूर्वाह्णशयः। हलदन्तादित्येव-भूमिशयः॥ अपो योनियन्मतुषु सप्तम्या अलुग् वक्तव्यः॥ अप्सुयोनिः। अप्सव्यः। अप्सुमन्तौ (आ० श्रौ० २.१३.३)। अप्सु भव इति दिगादित्वाद् (४.३.५४) यत् प्रत्ययः। सर्वत्र सप्तमीति योगविभागात् समासः॥

नेन्सिद्धबध्नातिषु च ॥ ६.३.१९॥

इन्नन्त उत्तरपदे सिद्धशब्दे बध्नातौ च परतः सप्तम्या अलुग् न भवति। स्थण्डिलवर्ती। सिद्ध-सांकाश्यसिद्धः। काम्पिल्यसिद्धः। बध्नाति-चक्रबद्धः। चारबद्धः। सप्तमीति योगविभागात् समासः। चक्रबन्ध इति केचिदुदाहरन्ति तत् पचाद्यजन्तं द्रष्टव्यम्। घञन्ते हि ‘बन्धे च विभाषा’(६.३.१३) इत्युक्त म्॥

स्थे च भाषायाम्॥ ६.३.२०॥

स्थे चोत्तरपदे भाषायां सप्तम्या अलुग् न भवति। समस्थः। विषमस्थः। कूटस्थः। पर्वतस्थः। भाषायामिति किम्? कृष्णो॑ऽस्याखरे॒ष्ठः(मा० सं० २.१)। ‘पूर्वपदात्’ (८.३.१०४) इति षत्वम्॥

षष्ठ्या आक्रोशे ॥ ६.३.२१॥

आक्रोशे गम्यमान उत्तरपदे षष्ठ्या अलुग् भवति। चौरस्यकुलम्। वृषलस्यकुलम्। आक्रोश इति किम्? ब्राह्मणकुलम्॥ षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु यथासंख्यमलुग् वक्तव्यः॥ वाचोयुक्ति ः। दिशोदण्डः। पश्यतोहरः॥ आमुष्यायणामुष्य-पुत्रिकामुष्यकुलिकेति चालुग् वक्तव्यः॥ अमुष्यापत्यमामुष्यायणः। नडादित्वात् (४.१.९९) फक्। अमुष्य पुत्रस्य भाव आमुष्यपुत्रिका। मनोज्ञादित्वाद् (५.१.१३३) वुञ्। तथा आमुष्यकुलिकेति॥ देवानांप्रिय इत्यत्र च षष्ठ्या अलुग् वक्तव्यः॥ देवानांप्रियः॥ शेपपुच्छलाङ्गूलेषु शुनः संज्ञायां षष्ठ्या अलुग् वक्तव्यः॥ शुनःशेपः। शुनःपुच्छः। शुनोलाङ्गूलः॥ दिवश्च दासे षष्ठ्या अलुग् वक्तव्यः॥ दिवोदासाय गायति॥

पुत्रेऽन्यतरस्याम् ॥ ६.३.२२॥

पुत्रशब्द उत्तरपद आक्रोशे गम्यमानेऽन्यतरस्यां षष्ठ्या अलुग् भवति। दास्याःपुत्रः, दासीपुत्रः। वृषल्याःपुत्रः, वृषलीपुत्रः। आक्रोश इत्येव-ब्राह्मणीपुत्रः॥

ऋतो विद्यायोनिसंबन्धेभ्यः॥ ६.३.२३॥

ऋकारान्तेभ्यो विद्यासंबन्धवाचिभ्यो योनिसंबन्धवाचिभ्यश्चोत्तरस्याः षष्ठ्या अलुग् भवति। होतुरन्तेवासी। होतुःपुत्रः। पितुरन्तेवासी। पितुःपुत्रः। ऋत इति किम्? आचार्यपुत्रः। मातुलपुत्रः। विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम्। विद्यायोनिसंबन्धवाचिन्येवोत्तरपदे यथा स्याद्, अन्यत्र मा भूत्। होतृधनम्। पितृधनम्। होतृगृहम्। पितृगृहम्॥

विभाषा स्वसृपत्योः ॥ ६.३.२४॥

स्वसृ पति इत्येतयोकरुत्तरपदयोर्ऋकारान्तेभ्यो विद्यायोनिसंबन्धवाचिभ्य उत्तरस्याः षष्ठ्या विभाषालुग् भवति। मातुःष्वसा, मातुःस्वसा, मातृष्वसा। पितुःष्वसा, पितुःस्वसा, पितृष्वसा। यदा लुक् तदा ‘मातृपितृभ्यां स्वसा’ (८.३.८४) इति नित्यं षत्वम्। यदा त्वलुक् तदा ‘मातुःपितुर्भ्यामन्यतरस्याम्’ (८.३.८५) इति विकल्पेन षत्वम्। दुहितुः- पतिः, दुहितृपतिः। ननान्दुःपतिः, ननान्दृपतिः॥

आनङ् ऋतो द्वन्द्वे ॥ ६.३.२५॥

ऋकारान्तानां विद्यायोनिसंबन्धवाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशो भवति। होतापोतारौ। नेष्टोद्गातारौ। प्रशास्ताप्रतिहर्तारौ। योनिसंबन्धेभ्यः- मातापितरौ। याताननान्दरौ। नकारोच्चारणं रपरत्वनिवृत्त्यर्थम्। ऋत इति किम्? पितृपितामहौ। पुत्र इत्यनुवर्तते, ऋत इति च। तेन पुत्रशब्देऽप्युत्तरपद ऋकारान्तस्यानङादेशो भवति। पितापुत्रौ। मातापुत्रौ॥

देवताद्वन्द्वे च॥ ६.३.२६॥

देवतावाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशो भवति। इन्द्रा॒वरु॑णौ (ऋ० ६.६८.१)। इन्द्रा॑सोमौ (ऋ० ६.७२.३)। इ॒न्द्॒राबृ॒ह॒स्प॒ती॒ (ऋ० ४.४९.१)। द्वन्द्व इति वर्तमाने पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यार्थम्। अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इत्येतद् निपात्यते। तत्र ये लोके प्रसिद्धसाहचर्या वेदे च ये सहवापनिर्दिष्टास्तेषामिह ग्रहणं भवति। तेन ब्रह्मप्रजापती, शिववैश्रवणावित्येवमादौ न भवति॥ उभयत्र वायोः प्रतिषेधो वक्तव्यः॥ अग्निवायू। वाय्वग्नी॥

ईदग्नेः सोमवरुणयोः॥ ६.३.२७॥

सोम वरुण इत्येतयोर्देवताद्वन्द्वेऽग्नेरीकारादेशो भवति। अग्नी॑षोमौ (ऋ०१.९३.१)। अग्नीवरुणौ। ‘अग्नेःस्तुत्स्तोमसोमाः’(८.३.८२) इति षत्वम्॥

इद् वृद्धौ॥ ६.३.२८॥

कृतवृद्धावुत्तरपदे देवताद्वन्द्वेऽग्नेरिकारादेशो भवति। आग्निवारुणीमनड्वाहीमालभेत (काठ० सं० १३.६)। आग्निमारुतं कर्म क्रियते। अग्नीवरुणौ देवते अस्य, अग्नामरुतौ देवते अस्येति तद्धितः। तत्र ‘देवताद्वन्द्वे च’ (७.३.२१) इत्युभयपदवृद्धौ कृतायामानङम् ईत्वं च बाधितुमिकारः क्रियते। वृद्धाविति किम्? आग्नेन्द्रः। ‘नेन्द्रस्य परस्य’(७.३.२२) इत्युत्तरपदवृद्धिः प्रतिषिध्यते॥ इद् वृद्धौ विष्णोः प्रतिषेधो वक्त व्यः॥ आ॒ग्ना॒व॒ैष्ण॒व॑म् ए॑का॒दशकपालं॒ नि॑र्व॒पेत् (मै० सं० १.४.१४)॥

दिवो द्यावा॥ ६.३.२९॥

दिवित्येतस्य द्यावा इत्ययमादेशो भवति देवताद्वन्द्व उत्तरपदे। द्यावा॑क्षामा॒ (ऋ० ८.१८.१६)। द्यावा॒भूमी॑ (ऋ० १०.६५.४)॥

दिवसश्च पृथिव्याम्॥ ६.३.३०॥

पृथिव्यामुत्तरपदे देवताद्वन्द्वे दिवो दिवसित्ययमादेशो भवति, चकाराद् द्यावा च। दि॒वस्पृ॑थि॒व्यौ (ऋ०२.२.३)। द्यावापृथिव्यौ। अकारोच्चारणं सकारस्य विकाराभावप्रतिपत्त्यर्थम्। तेन रुत्वादीनि न भवन्ति। कथं ‘द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒’ (ऋ० २.१२.१३) इति ? कर्तव्योऽत्र यत्नः॥

उषासोषसः॥ ६.३.३१॥

उषस उषासा इत्ययमादेशो भवति देवताद्वन्द्व उत्तरपदे। उषासासूर्यम्। उ॒षासा॒नक्त ा॑ (ऋ० १.१२२.२)॥

मातरपितरावुदीचाम् ॥ ६.३.३२॥

मातरपितरावित्युदीचामाचार्याणां मतेनारङादेशो मातृशब्दस्य निपात्यते। मातरपितरौ। उदीचामिति किम्? मातापितरौ॥

पितरामातरा चच्छन्दसि ॥ ६.३.३३॥

पितरामातरा इति छन्दसि निपात्यते। आ मा॑ गन्तां पि॒तरा॑मा॒तरा॒ च (मा०सं० ९.१९)। पूर्वपदस्याराङादेशो निपात्यते। उत्तरपदे तु ‘सुपां सुलुक्०’ (७.१.३९) इति आकारादेशः। तत्र ‘ऋतो ङिसर्वनामस्थानयोः’ (७.३.११०) इति गुणः। छन्दसीति किम्? मातापितरौ॥

स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु ॥ ६.३.३४॥

भाषितः पुमान् येन समानायामाकृतावेकस्मिन् प्रवृत्तिनिमित्ते स भाषितपुंस्कः शब्दः। तदेतदेवं कथं भवति? भाषितः पुमान् यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भाषितपुंस्कशब्देनोच्यते, तस्य प्रतिपादको यः शब्दः सोऽपि भाषितपुंस्कः। ऊङोऽभावोऽनूङ्, भाषितपुंस्कादनूङ् यस्मिन् स्त्रीशब्दे, स भाषितपुंस्कादनूङ् स्त्रीशब्दः। बहुव्रीहिरयम्, अलुग्। निपातनात् पञ्चम्याः। तस्य भाषितपुंस्कादनूङः स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवति। समानाधिकरण उत्तरपदे स्त्रीलिङ्गे पूरणीप्रियादिवर्जिते। दर्शनीयभार्यः। श्लक्ष्णचूडः। दीर्घजङ्घः। स्त्रिया इति किम्? ग्रामणि ब्राह्मणकुलं दृष्टिरस्य ग्रामणिदृष्टिः। भाषितपुंस्कादिति किम्? खट्वाभार्यः। समानायामाकृताविति किम्? द्रोणीभार्यः। कथं गर्भिभार्यः, प्रसूतभार्यः, प्रजातभार्य इति? कर्तव्योऽत्र यत्नः। अनूङिति किम्? ब्रह्मबन्धूभार्यः। समानाधिकरण इति किम्? कल्याण्या माता कल्याणीमाता। स्त्रियामिति किम्? कल्याणी प्रधानमेषां कल्याणीप्रधाना इमे। अपूरणीति किम्? कल्याणी पञ्चमी यासां ताः कल्याणी पञ्चमा रात्रयः। कल्याणीदशमाः॥ प्रधानपूरणीग्रहणं कर्तव्यम्॥ इह मा भूत्-कल्याणपञ्चमीकः पक्ष इति। ‘अप् पूरणीप्रमाण्योः’ (५.४.११६) इत्यत्रापि प्रधानपूरणीग्रहणमेवेत्यप्प्रत्ययो न भवति। अप्रियादिष्विति किम्? कल्याणीप्रियः॥ प्रिया। मनोज्ञा। कल्याणी। सुभगा। दुर्भगा। भक्ति ः। सचिवा। अम्बा। कान्ता। क्षान्ता। समा। चपला। दुहिता। वामा। प्रियादिः। दृढभक्ति रित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात् सिद्धमिति समाधेयम्॥

तसिलादिष्वा कृत्वसुचः ॥ ६.३.३५॥

‘पञ्चम्यास्तसिल्’ (५.३.७) इत्यतः प्रभृति ‘संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्’ (५.४.१७) इति प्रागेतस्माद् ये प्रत्ययास्तेषु भाषितपुंस्कादनूङ् स्त्रियाः पुंवद् भवति। तस्याः शालायाः ततः। तस्यां तत्र। यस्या यतः। यस्यां यत्र। तसिलादिषु परिगणनं कर्तव्यम्। त्रतसौ (५.३.१०,७)। तरप्तमपौ (५.३.५७,५५)। चरट्जातीयरौ (५.३.५३,६९)। कल्पब्देश्यदेशीयरः (५.३.६७)। रूपप्पाशपौ (५.३.६६,४७)। थम्थालौ (५.३.२४,२३)। दार्हिलौ (५.३.१५,१६)। तिल्तातिलौ (५.४.४१)॥ शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः॥ बह्वीभ्यो देहि। अल्पाभ्यो देहि। बहुशो देहि। अल्पशो देहि॥ त्वतलोगुर्णवचनस्य पुंवद्भावो वक्त व्यः॥ पट्व्या भावः पटुत्वम्, पटुता। गुणवचनस्येति किम्? कठ्या भावः कठीत्वम्, कठीता॥ भस्याढे तद्धिते पुंवद्भावो वक्त व्यः॥ हस्तिनीनां समूहो हास्तिकम्। अढ इति किम्? श्यैनेयः। रौहिणेयः। कथमग्नायी देवतास्य आग्नेयः स्थालीपाक इति? कर्तव्योऽत्र यत्नः॥ ठक्छसोश्च पुंवद्भावो वक्त व्यः॥ भवत्याश्छात्रा भावत्काः, भवदीयाः॥

क्यङ्मानिनोश्च ॥ ६.३.३६॥

क्यङि परतो मानिनि च स्त्रियाः भाषितपुंस्कादनूङ् पुंवद् भवति। एनी-एतायते। श्येनी-श्येतायते। मानिनि-दर्शनीयमानी अयमस्याः। दर्शनीयमानिनीयमस्याः। मानिनो ग्रहणमस्त्र्यर्थमसमानाधिकरणार्थं च। इह तु दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीति पूर्वेणैव सिद्धम्॥

न कोपधायाः ॥ ६.३.३७॥

कोपधायाः स्त्रियाः पुंवद्भावो न भवति। पाचिकाभार्यः। कारिकाभार्यः। मद्रिकाभार्यः। वृजिकाभार्यः। मद्रिकाकल्पा। वृजिकाकल्पा। मद्रिकायते। वृजिकायते। मद्रिकामानिनी। वृजिकामानिनी। विलेपिकाया धर्म्यं वैलेपिकम्॥ कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम्॥ इह मा भूत्-पाकभार्यः, भेकभार्य इति॥

संज्ञापूरण्योश्च ॥ ६.३.३८॥

संज्ञायाः पूरण्याश्च स्त्रियाः पुंवद्भावो न भवति। दत्ताभार्यः। गुप्ताभार्यः। दत्तापाशा। गुप्तापाशा। दत्तायते। गुप्तायते। दत्तामानिनी। गुप्तामानिनी। पूरण्याः-पञ्चमीभार्यः। दशमीभार्यः। पञ्चमीपाशा। दशमीपाशा। पञ्चमीयते। दशमीयते। पञ्चमीमानिनी। दशमीमानिनी॥

वृद्धिनिमित्तस्य च तद्धितस्यारक्त विकारे ॥ ६.३.३९॥

नेति वर्तते। वृद्धेर्निमित्तं यस्मिन् स वृद्धिनिमित्तस्तद्धितः, स यदि रक्ते ऽर्थे विकारे च न विहितः, तदन्तस्य स्त्रीशब्दस्य न पुंवद् भवति। स्रौघ्नीभार्यः। माथुरीभार्यः। स्रौघ्नीपाशा। माथुरीपाशा। स्रौघ्नीयते। माथुरीयते। स्रौघ्नीमानिनी। माथुरीमानिनी। वृद्धिनिमित्तस्येति किम्? मध्यमभार्यः। तद्धितस्येति किम्? काण्डलावभार्यः। बहुव्रीहिपरिग्रहः किमर्थः? तावद्भार्यः। यावद्भार्यः। अरक्त विकार इति किम्? कषायेण रक्ता काषायी, काषायी बृहतिका यस्य य काषायबृहतिकः। लोहस्य विकारो लौही, लौही ईषा यस्य रथस्य स लौहेषः। खादिरेषः॥

स्वाङ्गाच्चेतोऽमानिनि ॥ ६.३.४०॥

स्वाङ्गादुत्तरो य ईकारस्तदन्तायाः स्त्रिया न पुंवद् भवति अमानिनि परतः। दीर्घकेशीभार्यः। श्लक्ष्णकेशीभार्यः। दीर्घकेशीपाशा। श्लक्ष्णकेशीपाशा। दीर्घकेशीयते। श्लक्ष्णकेशीयते। स्वाङ्गादिति किम्? पटुभार्यः। ईत इति किम्? अकेशभार्यः। अमानिनीति किम्? दीर्घकेशमानिनी॥

जातेश्च ॥ ६.३.४१॥

जातेश्च स्त्रिया न पुंवद् भवति अमानिनि परतः। कठीभार्यः। बह्वृचीभार्यः। कठीपाशा। बह्वृचीपाशा। कठीयते। बह्वृचीयते। अमानिनीत्येव-कठमानिनी। बह्वृचमानिनी। अयं प्रतिषेध औपसंख्यानिकस्य पुंवद्भावस्य नेष्यते। हस्तिनीनां समूहो हास्तिकम्॥

पुंवत् कर्मधारयजातीयदेशीयेषु ॥ ६.३.४२॥

कर्मधारये समासे जातीय देशीय इत्येतयोश्च प्रत्यययोर्भाषितपुंस्कादनूङ् स्त्रियाः पुंवद् भवति। प्रतिषेधार्थोऽयमारम्भः। ‘न कोपधायाः’ (६.३.३७) इत्युक्त म् , तत्रापि भवति। पाचकवृन्दारिका। पाचकजातीया। पाचकदेशीया। ‘संज्ञापूरण्योश्च’ (६.३.३८) इत्युक्त म्, तत्रापि भवति। दत्तवृन्दारिका। दत्तजातीया। दत्तदेशीया। पूरण्याः- पञ्चमवृन्दारिका। पञ्चमजातीया। पञ्चमदेशीया। ‘वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे’ (६.३.३९) इत्युक्तम्, तत्रापि भवति। स्रौघ्नवृन्दारिका। स्रौघ्नजातीया। स्रौघ्नदेशीया। ‘स्वाङ्गाच्चेतोऽमानिनि’(६.३.४०) इत्युक्तम्, तत्रापि भवति। श्लक्ष्णमुखवृन्दारिका। श्लक्ष्णमुखजातीया। श्लक्ष्णमुखदेशीया। ‘जातेश्च’ (६.३.४०) इत्युक्त म्, तत्रापि भवति। कठवृन्दारिका। कठजातीया। कठदेशीया। भाषितपुंस्कादित्येव-खट्वावृन्दारिका। अनूङित्येव-ब्रह्मबन्धूवृन्दारिका॥ कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः॥ कुक्कुट्या अण्डं कुक्कुटाण्डम्। मृग्याः पदं मृगपदम्। मृग्याःक्षीरं मृगक्षीरम्। काक्याः शावः काकशावः। न वास्त्रीपूर्वपदस्य विवक्षितत्वात्। स्त्रीत्वेन विना पूर्वपदार्थोऽत्र जातिः सामान्येन विवक्षितः। पुंवद्भावाद् ह्रस्वत्वं खिद्घादिकेषु भवति विप्रतिषेधेन। खित्-कालिंमन्या। हरिणिंमन्या। घादि-पाट्वितरा। पट्वितमा। पट्विरूपा। पट्विकल्पा। क-पट्विका। मृद्विका। इहेडबिड् दरद् पृथ् उशिजित्येते जनपदशब्दाः क्षत्रियवाचिनः। तत्र तद्राजप्रत्ययस्य स्त्रियाम् ‘अतश्च’ (४.१.१७७) इति लुकि कृत इडबिट् चासौ वृन्दारिका चेति विगृह्य समासः क्रियते। ततः पुंवद्भावेन ऐडबिडादयः पुंशब्दाः क्रियन्ते। ऐडबिडवृन्दारिका। औशिजवृन्दारिका॥

घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ॥ ६.३.४३॥

घ रूप कल्प चेलट् ब्रुव गोत्र मत हत इत्येतेषु परतो भाषितपुंस्कात् परो यो ङीप्रत्ययस्तदन्तस्यानेकाचो ह्रस्वो भवति। घ-ब्राह्मणितरा। ब्राह्मणितमा। रूप-ब्राह्मणिरूपा। कल्प-ब्राह्मणिकल्पा। चेलट्-ब्राह्मणिचेली। ब्रुव-ब्राह्मणिब्रुवा। गोत्र-ब्राह्मणिगोत्रा। मत-ब्राह्मणिमता। हत-ब्राह्मणिहता। घरूपकल्पाः प्रत्ययाश्चेलडादीन्युत्तरपदानि। ब्रुव इति ब्रुवीतीति ब्रुवः पचाद्यचि वच्यादेशो गुणश्च निपातनाद् न भवति। ङ्य इति किम्? दत्तातरा। गुप्तातरा। अनेकाच इति किम्? ‘नद्याः शेषस्यान्यतरस्याम्’ (६.३.४४) इति वक्ष्यति। भाषितपुंस्कादित्येव-आमलकीतरा। कुवलीतरा॥

नद्याः शेषस्यान्यतरस्याम् ॥ ६.३.४४॥

नद्याः शेषस्य घादिषु परतो ह्रस्वो भवत्यन्यतरस्याम्। कश्च शेषः? अङी च या नदी,ङ्यन्तं च यदेकाच्। ब्रह्मबन्धूतरा, ब्रह्मबन्धुतरा। वीरबन्धूतरा, वीरबन्धुतरा। स्त्रितरा, स्त्रीतरा। स्त्रितमा, स्त्रीतमा॥ कृन्नद्याः प्रतिषेधो वक्त व्यः॥ लक्ष्मीतरा। तन्त्रीतरा॥

उगितश्च॥ ६.३.४५॥

उगितश्च परस्या नद्या घादिष्वन्यतरस्यां ह्रस्वो भवति। श्रेयसितरा, श्रेयसीतरा, श्रेयस्तरा। विदुषितरा, विदुषीतरा, विद्वत्तरा। पुंवद्भावोऽप्यत्र पक्षे वक्त व्यः। प्रकर्षयोगात् प्राक् स्त्रीत्वस्याविवक्षितत्वाद् वा सिद्धम्॥

आन्महतः समानाधिकरणजातीययोः॥ ६.३.४६॥

समानाधिकरण उत्तरपदे जातीये च प्रत्यये परतो महत आकारादेशो भवति। महादेवः। महाब्राह्मणः। महाबाहुः। महाबलः। जातीये-महाजातीयः। समानाधिकरणजातीययोरिति किम्? महतः पुत्रो महत्पुत्रः। लक्षणोक्तत्वात् एवात्र न भविष्यतीति चेद्, बहुव्रीहावपि न स्याद् महाबाहुरिति। तदर्थं समानाधिकरणग्रहणं वक्त व्यम्। अमहान् महान् संपन्नो महद्भूतश्चन्द्रमा इत्यत्र गौणत्वाद् महदर्थस्य न भवत्यात्वम्॥ महादात्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्ववचनं चासमानाधिकरणार्थम्॥ महत्या घासो महाघासः। महत्याः करो महाकरः। महत्या विशिष्टो महाविशिष्टः॥ अष्टनः कपाले हविष्युपसंख्यानम्॥ अष्टाकपालं पुरोडाशं निर्वपेत्॥ हविषीति किम्? अष्टकपालं ब्राह्मणस्य॥ गवि च युक्ते ऽष्टन उपसंख्यानं कर्तव्यम्॥ अष्टागवेन शकटेन। युक्त इति किम्? अष्टगवं ब्राह्मणस्य। तपरकरणं विस्पष्टार्थम्॥

द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ॥ ६.३.४७॥

द्वि अष्टन् इत्येतयोराकारादेशो भवति संख्यायामुत्तरपदेऽबुहव्रीह्यशीत्योः। द्वादश। द्वाविंशतिः। द्वात्रिंशत्। अष्टादश। अष्टाविंशतिः। अष्टात्रिंशत्। द्व्यष्टन इति किम्? पञ्चदश। संख्यायामिति किम्? द्वैमातुरः। आष्टमातुरः। अबहुव्रीह्यशीत्योरिति किम्? द्वित्राः। द्विदशाः। द्व्यशीतिः॥ प्राक् शतादिति वक्तव्यम्॥ इह मा भूत्-द्विशतम्। द्विसहस्रम्। अष्टशतम्। अष्टसहस्रम्॥

त्रेस्त्रयः ॥ ६.३.४८॥

त्रि इत्येतस्य त्रयसित्ययमादेशो भवति संख्यायामबहुव्रीह्यशीत्योः। त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत्। संख्यायामित्येव-त्रैमातुरः। अबहुव्रीह्यशीत्योरित्येव-त्रिदशाः। त्र्यशीतिः। प्राक् शतादित्येव-त्रिशतम्। त्रिसहस्रम्॥

विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ॥ ६.३.४९॥

चत्वारिंशत्प्रभृतौ संख्यायामुत्तरपदेऽबुहव्रीह्यशीत्योः सर्वेषां द्वि अष्टन् त्रि इत्येतेषां यदुक्तं तद् विभाषा भवति। द्विचत्वारिंशत्, द्वाचत्वारिंशत्। त्रिपञ्चाशत्, त्रयःपञ्चाशत्। अष्टपञ्चाशत्, अष्टापञ्चाशत्। प्राक् शतादित्येव-द्विशतम्। अष्टशतम्। त्रिशतम्॥

हृदयस्य हृल्लेखयदण्लासेषु ॥ ६.३.५०॥

हृदयस्य हृदित्ययमादेशो भवति लेख यत् अण् लास इत्येतेषु परतः। हृदयं लिखतीति हृल्लेखः। यत्-हृदयस्य प्रियं हृद्यम्। अण्-हृदयस्येदं हार्दम्। लास-हृदयस्य लासो हृल्लासः। लेख इत्यणन्तस्य ग्रहणमिष्यते। घञि तु हृदयस्य लेखो हृदयलेखः। एतदेव लेखग्रहणं ज्ञापकमुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्ताग्रहणस्य॥

वा शोकष्यञ्रोगेषु ॥ ६.३.५१॥

शोक ष्यञ् रोग इत्येतेषु परतो हृदयस्य वा हृदित्ययमादेशो भवति। हृच्छोकः, हृदयशोकः। ष्यञ्-सौहार्द्यम्, सौहृदय्यम्। ब्राह्मणादित्वात् (५.१.१२४) ष्यञ्। हृदादेशपक्षे ‘हृद्भगसिन्ध्वन्ते पूर्वपदस्य च’ (७.३.१९) इत्युभयपदवृद्धिः। रोगे-हृद्रोगः, हृदयरोगः। हृदयशब्देन समानार्थो हृच्छब्दः प्रकृत्यन्तरमस्ति, तेनैव सिद्धे विकल्पविधानं प्रपञ्चार्थम्॥

पादस्य पदाज्यातिगोपहतेषु ॥ ६.३.५२॥

पादस्य पद इत्ययमादेशो भवति आजि आति ग उपहत इत्येतेषूत्तरपदेषु। पादाभ्यामजतीति पदाजिः। पादाभ्यामततीति पदातिः ‘अज्यतिभ्यां’, ‘पादे च’ (प० उ० ४.१३२, १३३) इत्यौणादिक इण् प्रत्ययः। तत्राजेर्वीभावो न भवत्यत एव निपातनात्। पादाभ्यां गच्छतीति पदगः। पादेनोपहतः पदोपहतः। पादशब्दो वृषादित्वाद् (६.१.२०३) आद्युदात्तः, तस्य स्थाने पदादेश उपदेश एवान्तोदात्तो निपात्यते। तेन प॒दोप॑हत इति ‘तृतीया कर्मणि’ (६.२.४८) इति पूर्वपदप्रकृतिस्वरत्वेनान्तोदात्तव्यं भवति। प॒दा॒जिः प॒दा॒तिः प॒द॒ग इत्येतेषु कृत्स्वरेण (६.२.१३९) समासस्यैवान्तोदात्तत्वम्॥

पद्यत्यतदर्थे ॥ ६.३.५३॥

यत्प्रत्यये परतः पादस्य पदित्ययमादेशो भवत्यतदर्थे। पादौ विध्यन्ति पद्याः शर्कराः। पद्याः कण्टकाः। अतदर्थ इति किम्? पादार्थमुदकं पाद्यम्॥ पद्भाव इके चरतावुपसंख्यानम्॥ पादाभ्यां चरति पदिकः। ‘पर्पादिभ्यः ष्ठन्’(४.४.१०) इति पादशब्दात् ष्ठन् प्रत्ययः। शरीरावयववचनस्य पादशब्दस्य ग्रहणमिह इष्यते। तेन ‘पणपादमाषशताद् यत्’ (५.१.३४) इत्यत्र पदादेशो न भवति। द्विपाद्यम्। त्रिपाद्यम्॥

हिमकाषिहतिषु च ॥ ६.३.५४॥

हिम काषिन् हति इत्येतेषु पादशब्दस्य पदित्ययमादेशो भवति। हिम-पद्धिमम्। काषिन्-अथ पत्काषिणो यान्ति। हति-पद्धतिः॥

ऋचः शे ॥ ६.३.५५॥

ऋक्संबन्धिनः पादशब्दस्य शे परतः पदित्ययमादेशो भवति। पच्छो गायत्रीं शंसति। पादंपादं शंसतीति ‘संख्यैकवचनाच्च वीप्सायाम्’ (५.४.४३) इति शस्प्रत्ययः। ऋच इति किम्? पादशःकार्षापणं ददातीति॥

वा घोषमिश्रशब्देषु ॥ ६.३.५६॥

घोष मिश्र शब्द इत्येतेषु चोत्तरपदेषु पादस्य वा पदित्ययमादेशो भवति। पद्घोषः, पादघोषः। पन्मिश्रः, पादमिश्रः। पच्छब्दः, पादशब्दः॥ निष्के चेति वक्त व्यम्॥ पन्निष्कः, पादनिष्कः॥

उदकस्योदः संज्ञायाम् ॥ ६.३.५७॥

उदकशब्दस्य संज्ञायां विषय उद इत्ययमादेशो भवत्युत्तरपदे परतः। उदमेघो नाम यस्य औदमेघिः पुत्रः। उदवाहो नाम यस्य औदवाहिः पुत्रः। संज्ञायामिति किम् ? उदकगिरिः॥ संज्ञायामुत्तरपदस्य उदकशब्दस्य उदादेशो भवतीति वक्तव्यम्॥ लोहितोदः। नीलोदः। क्षीरोदः॥

पेषंवासवाहनधिषु च ॥ ६.३.५८॥

पेषं वास वाहन धि इत्येतेषु चोत्तरपदेषु उदकस्य उद इत्ययमादेशो भवति। उदपेषं पिनष्टि। ‘स्नेहने पिषः’(३.४.३८) इति णमुल्। वास-उदकस्य वास उदवासः। वाहन-उदकस्य वाहन उदवाहनः। उदकं धीयतेऽस्मिन्नित्युदधिः॥

एकहलादौ पूरयितव्येऽन्यतरस्याम् ॥ ६.३.५९॥

उदकस्योद इति वर्तते। एकोऽसहायः, तुल्यजातीयेनानन्तरेण हला विना, हल् आदिर्यस्योत्तरपदस्य तदेकहलादिस्तस्मिन्नेकहलादौ पूरयितव्यवाचिन्यन्यतरस्यामुदकस्य उद इत्ययमादेशो भवति। उदकुम्भः, उदककुम्भः। उदपात्रम्, उदकपात्रम्। एकहलादाविति किम्? उदकस्थालम्। पूरयितव्य इति किम्? उदकपर्वतः॥

मन्थौदनसक्तु बिन्दुवज्रभारहारवीवधगाहेषु च ॥ ६.३.६०॥

मन्थ ओदन सक्तु बिन्दु वज्र भार हार वीवध गाह इत्येतेषुत्तरपदेषूदकस्य उद इत्ययमादेशो भवत्यन्यतरस्याम्। उदकेन मन्थ उदमन्थः, उदकमन्थः। ओदन-उदकेनौदन उदौदनः, उदकौदनः। सक्तु -उदकेन सक्तु ः उदसक्तु ः, उदकसक्तु ः। बिन्दु-उदकस्य बिन्दुः उदबिन्दुः, उदकबिन्दुः। वज्र-उदकस्य वज्र उदवज्रः, उदकवज्रः। भार-उदकं बिभर्तीति उदभारः, उदकभारः। हार-उदकं हरतीति उदहारः, उदकहारः। वीवध-उदकस्य वीवध उदवीवधः, उदकवीवधः। गाह-उदकं गाहत इति उदगाहः, उकदगाहः॥

इको ह्रस्वोऽङ्यो गालवस्य ॥ ६.३.६१॥

इगन्तस्याङ्यन्तस्योत्तरपदे ह्रस्वो भवति गालवस्याचार्यस्य मतेनान्यतरस्याम्। ग्रामणिपुत्रः, ग्रामीणपुत्रः। ब्रह्मबन्धुपुत्रः,ब्रह्मबन्धूपुत्रः। इक इति किम्? खट्वापादः। मालापादः। अङ्य इति किम्? गार्गीपुत्रः। वात्सीपुत्रः। गालवग्रहणं पूजार्थम्। अन्यतरस्यामिति हि वर्तते। व्यवस्थितविभाषा चेयम्। तेनेह न भवति-कारीषगन्धीपुत्र इति। इयङुवङ्भाविनामव्ययानां च न भवति। श्रीकुलम्। भ्रूकुलम्। काण्डीभूतम्। वृषलीभूतम्। भ्रूकुंसादीनां तु भवत्येव। भ्रुकुंसः। भ्रुकुटिः। अपर आह॥ भ्रुकुंसादीनामकारो भवतीति वक्तव्यम्॥ भ्रकुंसः। भ्रकुटिः॥

एक तद्धिते च ॥ ६.३.६२॥

एकशब्दस्य तद्धित उत्तरपदे च ह्रस्वो भवति। एकस्या आगतम् एकरूप्यम्। एकमयम्। एकस्या भाव एकत्वम्। एकता। उत्तरपदे-एकस्याः क्षीरम् एकक्षीरम्। एकदुग्धम्। लिङ्गिविशिष्टस्य ग्रहणमेकशब्दह्रस्वत्वं प्रयोजयति। अचा हि गृह्यमाणमत्र विशेष्यते, न पुनरज् गृह्यमाणेनेति॥

ङ्यापोः संज्ञाछन्दसोर्बहुलम् ॥ ६.३.६३॥

ङ्यन्तस्याबन्तस्य च संज्ञाछन्दसोर्बहुलं ह्रस्वो भवति। ङ्यन्तस्य संज्ञायाम्- रेवतिपुत्रः। रोहिणिपुत्रः। भरणिपुत्रः। न च भवति-नान्दीकरः। नान्दीघोषः। नान्दीविशालः। ङ्यन्तस्य छन्दसि-कुमारिदा। उर्विदा। न च भवति-फाल्गुनीपौर्णमासी। जगतीछन्दः। आबन्तस्य संज्ञायाम्-शिलवहम्। शिलप्रस्थम्। न च भवति-लोमकागृहम्। लोमकाषण्डम्। आबन्तस्य छन्दसि-अजक्षीरेण जुहोति। ऊर्ण॑म्रदाः पृथि॒वी दक्षि॑णावत (शौ० सं० १८.३.४९)। न च भवति-ऊर्णासू॒त्रेण॑ क॒वयो॑ वयन्ति (मा० सं० १९.८०)॥

त्वे च ॥ ६.३.६४॥

त्वप्रत्यये परतो ङ्यापोर्बहुलं ह्रस्वो भवति। तदजाया भावोऽजत्वम्, अजात्वम्। तद्रोहिण्या भावो रोहिणित्वम्, रोहिणीत्वम् (काठ० सं० ८.१)। संज्ञायामसंभवात् छन्दस्येवोदाहरणानि भवन्ति॥

इष्टकेषीकामालानां चिततूलभारिषु ॥ ६.३.६५॥

इष्टकेषीकामालानां चित तूल भारिन् इत्येतेषूत्तरपदेषु यथासंख्यं ह्रस्वो भवति। इष्टकचितम्। इषीकतूलम्। मालभारिणी कन्या। इष्टकादिभ्यस्तदन्तस्यापि ग्रहणं भवति। पक्वेष्टकचितम्। मुञ्जेषीकतूलम्। उत्पलमालभारिणी कन्या॥

खित्यनव्ययस्य ॥ ६.३.६६॥

खिदन्त उत्तरपदेऽनव्ययस्य ह्रस्वो भवति। कालिंमन्या। हरिणिंमन्या। मुमा ह्रस्वो न बाध्यते, अन्यथा हि ह्रस्वशासनमनर्थकं स्यात्। अनव्ययस्येति किम्? दोषामन्यमहः। दिवामन्या रात्रिः। अनव्ययस्येत्येतदेव ज्ञापकमिह खिदन्तग्रहणस्य॥

अरुर्द्विषदजन्तस्य मुम् ॥ ६.३.६७॥

अरुस् द्विषद् इत्येतयोरजन्तानां च खिदन्त उत्तरपदे मुमागमो भवत्यनव्ययस्य। अरुंतुदः। द्विषंतपः। अजन्तानाम्-कालिंमन्या। अरुर्द्विषदजन्तस्येति किम्? विद्वन्मन्यः। अनव्ययस्येत्येव-दोषामन्यमहः। दिवामन्या रात्रिः। अन्तग्रहणं किम् ? कृताजन्तकार्य- प्रतिपत्त्यर्थम्। अतो ह्रस्वे कृते मुम्भवति॥

इच एकाचोऽम्प्रत्ययवच्च॥ ६.३.६८॥

इजन्तस्य एकाचः खिदन्त उत्तरपदेऽमागमो भवति, अम्प्रत्ययवच्च द्वितीयैकवचनवच्च स भवति। अमिति हि द्विरावर्तते। गांमन्यः। स्त्रींमन्यः, स्त्रियंमन्यः। नरंमन्यः। श्रियंमन्यः। भ्रुवंमन्यः। अम्प्रत्ययवच्चेत्यतिदेशादात्वपूर्वसवर्णगुणेयङुवङादेशा भवन्ति। इच इति किम्? त्वङ्मन्यः। एकाच इति किम्? लेखाभ्रुंमन्यः। अथेह कथं भवितव्यम्, श्रियमात्मानं ब्राह्मणकुलं मन्यत इत्युपक्रम्य श्रिमन्यमिति भवितव्यमिति भाष्ये (३.१.६७) व्यवस्थितम्। तत्रेदं भाष्यकारस्य दर्शनम्-अत्र विषये परित्यक्त स्वलिङ्गः श्रीशब्दो ब्राह्मणकुले वर्तते, यथा प्रष्ठादयः स्त्रियाम्। तत्र ‘स्वमोर्नपुंसकात्’(७.१.२३) इत्यमो लुग् भवति॥

वाचंयमपुरंदरौ च॥ ६.३.६९॥

वाचंयम पुरंदर इत्येतौ निपात्येते। वाचंयम आस्ते। पुरं दारयतीति पुरंदरः॥

कारे सत्यागदस्य ॥ ६.३.७०॥

कारशब्द उत्तरपदे सत्य अगद इत्येतयोर्मुमागमो भवति। सत्यं करोतीति, सत्यस्य वा कारः सत्यंकारः। एवमगदंकारः॥ अस्तुसत्यागदस्य कार इति वक्तव्यम्॥ अस्तुंकारः॥ भक्षस्य छन्दसि कारे मुम् वक्त व्यः॥ भक्षं करोतीति, भक्षस्य वा कारो भ॒क्षं॒का॒रः॑ (मै०सं० ४.७.३)। छन्दसीति किम्? भक्षकारः॥ धेनोर्भव्यायां मुम् वक्त व्यः॥ धे॑नुं॒भ॑व्या॒ (मै०सं० ४.४.८)॥ लोकस्य पृणे मुम् वक्तव्यः॥ लोकंपृ॒णा (तै० सं० ५.७.५.६)॥ इत्येऽनभ्याशस्य मुम् वक्तव्यः॥ अनभ्याशमित्यः॥ भ्राष्ट्राग्न्योरिन्धे मुम् वक्त व्यः॥ भ्राष्ट्रमिन्धः। अग्निमि॒न्धः(ऋ० १.१६२.५)॥ गिलेऽगिलस्य मुम् वक्त व्यः॥ तिमिङ्गिलः। अगिलस्येति किम्? गिलगिलः॥ गिलगिले चेति वक्तव्यम्॥ तिमिङ्गिलगिलः॥ उष्णभद्रयोः करणे मुम् वक्तव्यः॥ उष्णंकरणम्। भद्रंकरणम्॥ सूतोग्रराजभोजमेर्वित्येतेभ्य उत्तरस्य दुहितृशब्दस्य पुत्रडादेशो वा वक्तव्यः॥ सूतपुत्री, सूतदुहिता। उग्रपुत्री, उग्रदुहिता। राजपुत्री, राजदुहिता। भोजपुत्री, भोजदुहिता। मेरुपुत्री, मेरुदुहिता। केचित् तु शार्ङ्गरवादिषु पुत्रशब्दं पठन्ति, तेषां पुत्रीति भवति। अन्यत्रापि हि दृश्यते। शैलपुत्रीति॥

श्येनतिलस्य पाते ञे ॥ ६.३.७१॥

श्येन तिल इत्येतयोः पातशब्द उत्तरपदे ञप्रत्यये परे मुमागमो भवति। श्येनपातोऽस्यां क्रियायां श्यैनंपाता। तैलंपाता। ञ इति किम्? श्येनपातः॥

रात्रेः कृति विभाषा ॥ ६.३.७२॥

रात्रेः कृदन्त उत्तरपदे विभाषा मुमागमो भवति। रात्रिंचरः, रात्रिचरः। रात्रिमटः, रात्र्यटः। अप्राप्तविभाषेयम्। खिति हि नित्यं मुम् भवति। रात्रिंमन्यः॥

नलोपो नञः ॥ ६.३.७३॥

नञो नकारस्य लोपो भवत्युत्तरपदे। अब्राह्मणः। अवृषलः। असुरापः। असोमपः॥ नञो नलोपोऽवक्षेपे तिङ्युपसंख्यानम्॥ अपचसि त्वं जाल्म। अकरोषि त्वं जाल्म॥

तस्मान्नुडचि ॥ ६.३.७४॥

तस्माद् लुप्तनकाराद् नञो नुडागमो भवत्यजादावुत्तरपदे। अनजः। अनश्वः। तस्मादिति किम्? नञ एव हि स्यात्। पूर्वान्ते हि ‘ङमो ह्रस्वादचि ङमुण्नित्यम्’(८.३.३२) इति प्राप्नोति॥

नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या ॥ ६.३.७५॥

नभ्राट् नपात् नवेदा नासत्या नमुचि नकुल नख नपुंसक नक्षत्र नक्र नाक इत्येतेषु नञ् प्रकृत्या भवति। न भ्राजत इति नभ्राट्। भ्राजतेः क्विबन्तस्य नञ्समासः। न पातीति नपात्। पातिः शत्रन्तः। न वेत्तीति नवेदाः। वेत्तिरसुन्प्रत्ययान्तः। नासत्याः- सत्सु साधवः सत्याः, न सत्या असत्याः, न असत्या नासत्याः। न मुञ्चतीति नमुचिः। मुचेरौणादिकः किप्रत्ययः। नास्य कुलमस्ति नकुलः। नख-नास्य खमस्तीति नखम्। नपुंसक-न स्त्री न पुमान्नपुंसकम्। स्त्रीपुंसयोः पुंसकभावो निपात्यते। नक्षत्र -न क्षरति क्षीयत इति वा नक्षत्रम्। क्षियः क्षरतेर्वा क्षत्रमिति निपात्यते। नक्र-न क्रामतीति नक्रः। क्रमेर्डप्रत्ययो निपातनात्। नाक-नास्मिन् अकमस्तीति नाकम्॥

एकादिश्चैकस्य चादुक् ॥ ६.३.७६॥

एकादिश्च नञ् प्रकृत्या भवति, एकशब्दस्य चादुगागमो भवति। एकेन न विंशतिरेकान्नविंशतिः। एकान्नत्रिंशत्। तृतीयेति योगविभागात् समासः। पूर्वान्तोऽयमादुक् क्रियते, पदान्तलक्षणोऽत्रानुनासिको विकल्पेन यथा स्यादिति॥

नगोऽप्राणिष्वन्यतरस्याम्॥ ६.३.७७॥

नग इत्यत्राप्राणिष्वन्यतरस्यां नञ् प्रकृत्या भवति। नगा वृक्षाः, अगा वृक्षाः। नगाः पर्वताः, अगाः पर्वताः। न गच्छन्तीति नगाः। गमेर्डप्रत्ययः (प॰ उ॰ १.११४)। अप्राणिष्विति किम्? अगो वृषलः शीतेन॥

सहस्य सः संज्ञायाम ॥ ६.३.७८॥

सहशब्दस्य स इत्ययमादेशो भवति संज्ञायां विषये। साश्वत्थम्। सपलाशम्। सशिंशपम्। संज्ञायामिति किम्? सहयुध्वा। सहकृत्वा। सादेश उदात्तो निपात्यते। उदात्तानुदात्तवतो हि सहशब्दस्यान्तर्यतः स्वरितः स्यात्। स च निपातनस्वरः पूर्वपदप्रकृतिस्वरत्वं यत्र, तत्र उपयुज्यते। अन्यत्र समासान्तोदात्तत्वेन बाध्यत एव-से॒ष्टि, स॒प॒शु॒ब॒न्धम् इति॥

ग्रन्थान्ताधिके च ॥ ६.३.७९॥

ग्रन्थान्तेऽधिके च वर्तमानस्य सहशब्दस्य स इत्ययमादेशो भवति। सकलं ज्यौतिषमधीते। समुहूर्तम्। ससंग्रहं व्याकरणमधीयते। कलान्तं मुहूर्तान्तं संग्रहान्तम् इति अन्तवचने (२.१.६) इत्यव्ययीभावः समासः। तत्र ‘अव्ययीभावे चाकाले’ (६.३.८१) इति कालवाचिन्युत्तरपदे सभावो न प्राप्नोतीत्ययमारम्भः। अधिके-सद्रोणा खारी। समाषः कार्षापणः। सकाकिरणीको माषः॥

द्वितीये चानुपाख्ये ॥ ६.३.८०॥

द्वयोः सहयुक्त योरप्रधानो यः, स द्वितीयः। उपाख्यायते प्रत्यक्षत उपलभ्यते यः, स उपाख्यः, उपाख्यादन्योऽनुपाख्योऽनुमेयः। तस्मिन् द्वितीयेऽनुपाख्ये सहस्य स इत्ययमादेशो भवति। साग्निः कपोतः। सपिशाचा वात्या। सराक्षसीका शाला। अग्न्यादयः साक्षादनुपलभ्यमानाः कपोतादिभिरनुमीयमाना अनुपाख्या भवन्ति॥

अव्ययीभावे चाकाले ॥ ६.३.८१॥

अव्ययीभावे च समासेऽकालवाचिन्युत्तरपदे सहस्य स इत्ययमादेशो भवति। सचक्रं धेहि। सधुरं प्राज। अकाल इति किम्? सहपूर्वाह्णम्॥

वोपसर्जनस्य ॥ ६.३.८२॥

उपसर्जनसर्वावयवः समास उपसर्जनम्। यस्य सर्वेऽवयवा उपसर्जनीभूताः स सर्वोपसर्जनो बहुव्रीहिर्गृह्यते। तदवयवस्य सहशब्दस्य वा स इत्ययमादेशो भवति। सपुत्रः, सहपुत्रः। सच्छात्रः, सहच्छात्रः। उपसर्जनस्येति किम्? सहयुध्वा। सहकृत्वा। सहकृत्वप्रियः प्रियसहकृत्वेतीह बहुव्रीहौ यदुत्तरपदं तत्परः सहशब्दो न भवतीति सभावो न भवति॥

प्रकृत्याशिष्यगोवत्सहलेषु ॥ ६.३.८३॥

प्रकृत्या सहशब्दो भवत्याशिषि विषयेऽगोवत्सहलेषु। स्वस्ति देवदत्ताय सहपुत्राय सहच्छात्राय सहामात्याय। अगोवत्सहलेष्विति किम्? स्वस्ति भवते सहगवे, सगवे। सहवत्साय, सवत्साय। सहहलाय, सहलाय। ‘वोपसर्जनस्य’ (६.३.८२) इति पक्षे भवत्येव सभावः॥

समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु ॥ ६.३.८४॥

स इति वर्तते। समानस्य स इत्ययमादेशो भवति छन्दसि विषये मूर्धन् प्रभृति उदर्क इत्येतान्युत्तरपदानि वर्जयित्वा। अनु॒ भ्राता॒ सग॒र्भ्यः॒ (मा०सं० ४.२०)। अनु॒ सखा॒ सयू॑थ्यः (मा०सं० ४.२०)। यो नः॒ सनु॑त्यः (ऋ० २.३०.९)। समानो गर्भः सगर्भः, तत्र भवः सगर्भ्यः। ‘सगर्भसयूथसनुताद् यन्’ (४.४.११४) इति यन् प्रत्ययः। अमूर्धप्रभृत्युदर्केष्विति किम्? समानमूर्धा। समानप्रभृतयः। समानोदर्काः। समानस्येति योगविभाग इष्टप्रसिद्ध्यर्थः क्रियते। तेन सपक्षः, साधर्म्यम्, सजातीय इत्येवमादयः सिद्धा भवन्ति॥

ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ॥ ६.३.८५॥

ज्योतिस् जनपद रात्रि नाभि नामन् गोत्र रूप स्थान वर्ण वयस् वचन बन्धु इत्येतेषूत्तरपदेषु समानस्य स इत्ययमादेशो भवति। सज्योतिः। सजनपदः। सरात्रिः। सनाभिः। सनामा। सगोत्रः। सरूपः। सस्थानः। सवर्णः। सवयाः। सवचनः। सबन्धुः॥

चरणे ब्रह्मचारिणि ॥ ६.३.८६॥

चरणे गम्यमाने ब्रह्मचारिण्युत्तरपदे समानस्य स इत्ययमादेशो भवति। समानो ब्रह्मचारी सब्रह्मचारी। ब्रह्म वेदः, तदध्ययनार्थं यद् व्रतं तदपि ब्रह्म, तच्चरतीति ब्रह्मचारी, समानस्तस्यैव ब्रह्मणः समानत्वादित्ययमर्थो भवति-समाने ब्रह्मणि व्रतचारी सब्रह्मचारीति॥

तीर्थे ये ॥ ६.३.८७॥

तीर्थशब्द उत्तरपदे यत्प्रत्ययपरे परतः समानस्य स इत्ययमादेशो भवति। सतीर्थ्यः। ‘समानतीर्थ वासी’ (४.४.१०७) इति यत् प्रत्ययः॥

विभाषोदरे ॥ ६.३.८८॥

उदरशब्द उत्तरपदे यत्प्रत्ययान्ते समानस्य विभाषा स इत्ययमादेशो भवति। सोदर्यः, समानोदर्यः। ‘समानोदरे शयित ओ चोदात्तः’(४.४.१०८) इति यत्॥

दृग्दृशवतुषु ॥ ६.३.८९॥

दृक् दृश वतु इत्येतेषु परतः समानस्य स इत्ययमादेशो भवति। सदृक् । सदृशः। ‘त्यदादिषु दृशोऽनालोचने कञ् च’(३.२.६०) इत्यत्र ‘समानान्ययोश्चेति वक्तव्यम्’ (३.२.६० वा०) इति कञ्क्विनौ प्रत्ययौ क्रियेते॥ दृक्षे चेति वक्तव्यम्॥ सदृक्षः। दृशेः क्सप्रत्ययोऽपि तत्रैव वक्त व्यः (३.२.६० वा०)। वतुग्रहणमुत्तरार्थम्॥

इदंकिमोरीश्की ॥ ६.३.९०॥

इदं किम् इत्येतयोरीश् की इत्येतौ यथासंख्यमादेशौ भवतो दृग्दृशवतुषु। ईदृक् । ईदृशः। इयान्। कीदृक्। कीदृशः। कियान्। ‘किमिदम्भ्यां वो घः’ (५.२.४०) इति वतुप्॥ दृक्षे चेति वक्त व्यम्॥ ईदृक्षः। कीदृक्षः॥

आ सर्वनाम्नः ॥ ६.३.९१॥

सर्वनाम्न आकारादेशो भवति दृग्दृशवतुषु। तादृक्। तादृशः। तावान्। यादृक्। यादृशः। यावान्॥ दृक्षे चेति वक्तव्यम्॥ तादृक्षः। यादृक्षः॥

विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये ॥ ६.३.९२॥

विष्वक् देव इत्येतयोः सर्वनाम्नश्च टेरद्रीत्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्त उत्तरपदे। विष्वगञ्चतीति विष्व॒द्र्य॑ङ् (ऋ० ७.२५.१)। देवद्र्यङ् । सर्वनाम्नः- तद्र्यङ्। यद्र्यङ् । अद्रिसध्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम्। तत्र यणादेशे कृत ‘उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य’(८.२.४) इत्येष स्वरो भवति। विष्वग्देवयोरिति किम्? अश्वाची। अञ्चताविति किम्? विष्वग्युक्। वप्रत्यय इति किम्? विष्वगञ्चनम्। वप्रत्ययग्रहणमन्यत्र धातुग्रहणे तदादिविधिप्रतिपत्त्यर्थम्। तेनायस्कृतमयस्कार इत्यत्र ‘अतः कृकमिकंसकुम्भपात्र०’ (८.३.४६) इति सत्वं भवति॥ छन्दसि स्त्रियां बहुलमिति वक्तव्यम्॥ वि॒श्वाची॑ (ऋ० ७.४३.३) च घ्ाृताची॑ (ऋ० १.१६७.३) चेत्यत्र न भवति। क॒द्रीची॑ (ऋ० १.१६४.१७) इत्यत्र तु भवत्येव॥

समः समि ॥ ६.३.९३॥

समित्येतस्य समि इत्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्त उत्तरपदे। सम्यङ्, सम्यञ्चौ, सम्यञ्चः॥

तिरसस्तिर्यलोपे ॥ ६.३.९४॥

तिरस् इत्येतस्य तिरि इत्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्त उत्तरपदेऽलोपे, यदास्य लोपो न भवति। तिर्यङ्, तिर्यञ्चौ, तिर्यञ्चः। अलोप इति किम्? तिरश्चा। तिरश्चे। ‘अचः’(६.४.१३८) इत्यकारलोपः॥

सहस्य सध्रिः ॥ ६.३.९५॥

सहेत्येतस्य सध्रिरित्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्त उत्तरपदे। सध्र्यङ्, सध्र्यञ्चौ,सध्र्यञ्चः। सध्रीचः। सध्रीचा॥

सध मादस्थयोश्छन्दसि ॥ ६.३.९६॥

छन्दसि विषये माद स्थ इत्येतयोरुत्तरपदयोः सहस्य सध इत्ययमादेशो भवति। स॒ध॒मादो॑ द्यु॒म्निनी॒रापः (मा०सं० १०.७)। स॒ध॒स्थाः॒ (तै०सं०५.७.७.१)॥

द्व्यन्तरुपसर्गेभ्योऽप ईत् ॥ ६.३.९७॥

द्वि अन्तरित्येताभ्यामुपसर्गात् चोत्तरस्याबित्येतस्य ईकारादेशो भवति। द्वीपम्। अन्तरीपम्। उपसर्गात्-नीपम्। वीपम्। समीपम्॥ समाप ईत्वे प्रतिषेधो वक्त व्यः॥ समापं नाम देवयजनम् (काठ०सं० २५.२)। अपर आह-॥ ईत्वमनवर्णादिति वक्त व्यम्॥ इह मा भूत्-प्रापम्। परापम्। अप्शब्दं प्रति क्रियायोगाभावाद् उपसर्गग्रहणं प्राद्युपलक्षणार्थम्॥

ऊदनोर्देशे ॥ ६.३.९८॥

अनोरुत्तरस्याप ऊकारादेशो भवति देशाभिधाने। अनूपो देशः। देश इति किम्? अन्वीपम्। दीर्घोच्चारणमवग्रहार्थम्। अनु ऊपोऽनूप इति॥

अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु ॥ ६.३.९९॥

अषष्ठीस्थस्य अतृतीयास्थस्य चान्यशब्दस्य दुगागमो भवति आशिस् आशा आस्था आस्थित उत्सुक ऊति कारक राग छ इत्येतेषु परतः। अन्या आशीः अन्यदाशीः। अन्या आशा अन्यदाशा। अन्या आस्था अन्यदास्था। अन्य आस्थितः अन्यदास्थितः। अन्य उत्सुकः अन्यदुत्सुकः। अन्या ऊतिः अन्यदूतिः। अन्यः कारकः अन्यत्कारकः। अन्यो रागः अन्यद्रागः। अन्यस्मिन् भवोऽन्यदीयः। गहादिषु (४.२.१३८) अन्यशब्दो द्रष्टव्यः। अषष्ठ्यतृतीयास्थस्येति किम्? अन्यस्य आशीः अन्याशीः। अन्येन आस्थितः अन्यास्थितः।

दुगागमोऽविशेषेण वक्त व्यः कारकच्छयोः।

षष्ठीतृतीययोर्नेष्ट आशीरादिषु सप्तसु॥

अन्यस्य कारकम् अन्यत्कारकम्। अन्यस्येदम् अन्यदीयम्। अस्य च द्विर्नञ्ग्रहणं लिङ्गम्॥

अर्थे विभाषा॥ ६.३.१००॥

अर्थशब्द उत्तरपदेऽन्यस्य विभाषा दुगागमो भवति। अन्यदर्थः, अन्यार्थः॥

कोः कत् तत्पुरुषेऽचि॥ ६.३.१०१॥

कु इत्येतस्य कदित्ययमादेशो भवति तत्पुरुषे समासेऽजादावुत्तरपदे। कदजः। कदश्वः। कदुष्ट्रः। कदन्नम्। तत्पुरुष इति किम्? कूष्ट्रो राजा। अचीति किम्? कुब्राह्मणः। कुपुरुषः॥ कद्भावे त्रावुपसंख्यानम्॥ कुत्सितास्त्रयः कत्त्रयः॥

रथवदयोश्च ॥ ६.३.१०२॥

रथ वद इत्येतयोश्चोत्तरपदयोः कोः कदित्ययमादेशो भवति। कद्रथः। कद्वदः॥

तृणे च जातौ॥ ६.३.१०३॥

तृणशब्द उत्तरपदे जातावभिधेयायां कोः कदित्यादेशो भवति। कत्तृणा नाम जातिः। जाताविति किम्? कुत्सितानि तृणानि कुतृणानि॥

का पथ्यक्षयोः ॥ ६.३.१०४॥

पथिन् अक्ष इत्येतयोरुत्तरपदयोः कोः का इत्ययमादेशो भवति। कापथः। काक्षः॥

ईषदर्थे॥ ६.३.१०५॥

ईषदर्थे वर्तमानस्य कोः का इत्ययमादेशो भवति। कामधुरम्। कालवणम्। अजादावपि परत्वात् कादेश एव भवति। काम्लम्। कोष्णम्॥

विभाषा पुरुषे ॥ ६.३.१०६॥

पुरुषशब्द उत्तरपदे विभाषा कोः का इत्ययमादेशो भवति। कापुरुषः, कुपुरुषः। अप्राप्तविभाषेयम्। ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति। ईषत्पुरुषः कापुरुषः॥

कवं चोष्णे ॥ ६.३.१०७॥

उष्णशब्द उत्तरपदे कोः कवमित्ययमादेशो भवति, का च विभाषा। कवोष्णम्, कोष्णम्, कदुष्णम्॥

पथि चच्छन्दसि ॥ ६.३.१०८॥

पथिशब्द उत्तरपदे छन्दसि विषये कोः कवं का इत्येतावादेशौ भवतो विभाषा। कवपथः, कापथः, कुपथः॥

पृषोदरादीनि यथोपदिष्टम् ॥ ६.३.१०९॥

पृषोदरप्रकाराणि शब्दरूपाणि, येषु लोपागमवर्णविकाराःशास्त्रेण न विहिता दृश्यन्ते च, तानि यथोपदिष्टानि साधूनि भवन्ति। यानियानि यथोपदिष्टानि शिष्टैरुच्चारितानि प्रयुक्तानि, तानि तथैवानुगन्तव्यानि। पृषदुदरं यस्य पृषोदरम्। पृषद् उद्वानं यस्य पृषोद्वानम्। अत्र तकारलोपो भवति। वारिवाहको बलाहकः। पूर्वशब्दस्य बशब्द आदेश उत्तरपदादेश्च लत्वम्। जीवनस्य मूतो जीमूतः। वनशब्दस्य लोपः। शवानां शयनं श्मशानम्। शवशब्दस्य श्मादेशः। शयनशब्दस्यापि शानशब्द आदेशः। ऊर्ध्वं खमस्येति उलूखलम्। ऊर्ध्वखशब्दयोरुलू खल इत्येतावादेशौ भवतः। पिशिताशः पिशाचः। पिशिताशशब्दयोर्यथायोगं पिशाचशब्दावादेशौ। ब्रुवन्तोऽस्यां सीदन्तीति बृसी। सदेरधिकरणे डट् प्रत्ययः। ब्रुवच्छब्दस्य चोपपदस्य बृशब्द आदेशो भवति। मह्यां रौतीति मयूरः। रौतेरचि टिलोपः। महीशब्दस्य मयूभावः। एवमन्येऽपि अश्वत्थकपित्थमहित्थप्रभृतयो यथायोगमनुगन्तव्याः॥ दिक्शब्देभ्य उत्तरस्य तीरस्य तारभावो वा भवति॥ दक्षिणतीरम्, दक्षिणतारम्। उत्तरतीरम्, उत्तरतारम्॥ वाचो वादे डत्वं च लभावश्चोत्तरपदस्येञि प्रत्यये भवति॥ वाचं वदतीति वाग्वादः। तस्यापत्यं वाड्वालिः॥ षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च भवति॥ षड् दन्ता अस्य षोडन्। षट् च दश च षोडश॥ धासु वा षष उत्वं भवत्युत्तरपदादेश्च ष्टुत्वम्॥ षोढा, षड्धा कुरु। बहुवचननिर्देशो नानाधिकरणवाचिनो धाशब्दस्य प्रतिपत्त्यर्थः। इह मा भूत्-षड् दधाति धयति वा षड्धेति॥ दुरो दाशनाशदभध्येषूत्वं वक्तव्यमुत्तरपदादेश्च ष्टुत्वम्॥ कृच्छे्रण दाश्यते नाश्यते दभ्यते च यः, स दू॒डाशः॑ (शौ०सं० १.१३.१)। दू॒णाशः॑ (ऋ० ७.३२.७)। दू॒डभ॑(ऋ० ४.९.८)। दम्भेः खल्यनुनासिकलोपो१ निपातनात्। दुष्टं ध्यायतीति दू॒ढ्यः॑ (ऋ० ८.७५.९)। दुःशब्दोपपदस्य ध्यायतेः ‘आतश्चोपसर्गे’ (३.१.१३६) इति कप्रत्ययः॥ स्वरो रोहतौ छन्दस्युत्वं वक्त व्यम्॥ जा॒य ए॒हि॒ स्वो रो॒हाव (श०ब्रा० ५.२.१.१०)॥ पीवोपवसनादीनां च लोपो वक्तव्यः॥ पीवो॑पवसनानाम् (मा०सं० २१.४३)। पयोपवसनानाम्।

वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ।

धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्त म्॥

संख्याविसायपूर्वस्याह्नस्यान्नन्यतरस्यां ङौ ॥ ६.३.११०॥

संख्या वि साय इत्येवंपूर्वस्याह्नशब्दस्य स्थानेऽहनित्ययमादेशो भवत्यन्यतरस्यां ङौ परतः। द्वयोरह्नोर्भवो द्व्यह्नः। त्र्यह्नः। द्व्यह्नि, द्व्यहनि। त्र्यह्नि, त्र्यहनि। द्व्यह्ने। त्र्यह्ने। व्यपगतमहो व्यह्नः। व्यह्नि, व्यहनि, व्यह्ने। सायमह्नः सायाह्नः। सायाह्नि, सायाहनि, सायाह्ने। एकदेशिसमासः पूर्वादिभ्योऽन्यस्यापि भवतीत्येतदेव विसायपूर्वस्याह्नस्य ग्रहणं ज्ञापकम्। तेन मध्यमह्नो मध्याह्न इत्यपि भवति। संख्याविसायपूर्वस्येति किम्? पूर्वाह्णे। अपराह्णे॥

ढ्रलोपे पूर्वस्य दीर्घोऽणः ॥ ६.३.१११॥

ढकाररेफयोर्लोपो यस्मिन् स ढ्रलोपः, तत्र पूर्वस्याणो दीर्घो भवति। लीढम्। मीढम्। उपगूढम्। मूढः। रलोपे-नीरक्त म्। अग्नी रथः। इन्दू रथः। पुना रक्त ं वासः। प्राता राजक्रयः। पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम्। अण इति किम्? आतृढम्। आवृढम्॥

सहिवहोरोदवर्णस्य ॥ ६.३.११२॥

सहि वहि इत्येतयोरवर्णस्यौकार आदेशो भवति ढ्रलोपे। सोढा। सोढुम्। सोढव्यम्। वोढा। वोढुम्। वोढव्यम्। अवर्णस्येति किम्? ऊढः। ऊढवान्। वर्णग्रहणं किम्? कृतायामपि वृद्धौ यथा स्यात्। उदवोढाम्। उदवोढम्। तादपि परस्तपरः, तपरत्वादाकारस्य ग्रहणं न स्यात्॥

साढ्यै साढ्वा साढेति निगमे ॥ ६.३.११३॥

साढ्यै साढ्वा साढा इति निगमे निपात्यन्ते। सा॑ढ्य॒ै (मै० सं० १.६.३) समन्तात्। सा॒ढ्वा॑ (मै०सं० ३.८.५) शत्रून्। सहेः क्त्वाप्रत्यय ओत्त्वाभावः। पक्षे क्त्वाप्रत्ययस्य ध्यैभावः। साढेति तृचि रूपमेतत्। निगम इति किम्? सोढ्वा सोढेति भाषायाम्॥

संहितायाम् ॥ ६.३.११४॥

संहितायामित्ययमधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामः संहितायामित्येवं तद् वेदितव्यम्। वक्ष्यति-‘द्व्यचोऽतस्तिङः’ (६.३.१३५) इति। वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म् (ऋ० १०.४७.१)। संहितायामिति किम्? विद्म, हि, त्वा, गोपतिम्, शूर, गोनाम्॥

कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ॥ ६.३.११५॥

कर्णशब्द उत्तरपदे लक्षणवाचिनो दीर्घो भवति विष्ट अष्टन् पञ्चन् मणि भिन्न छिन्न छिद्र स्रुव स्वस्तिक इत्येतान् वर्जयित्वा। दात्राकर्णः। द्विगुणाकर्णः। त्रिगुणाकर्णः। द्व्यङ्गुलाकर्णः। अङ्गुलाकर्णः। यत् पशूनां स्वामिविशेषसंबन्धज्ञापनार्थं दात्राकारादि क्रियते, तदिह लक्षणं गृह्यते। लक्षणस्येति किम्? शोभनकर्णः। अविष्टादीनामिति किम्? विष्टकर्णः। अष्टकर्णः। पञ्चकर्णः। मणिकर्णः। भिन्नकर्णः। छिन्नकर्णः। छिद्रकर्णः। स्रुवकर्णः। स्वस्तिककर्णः॥

नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ॥ ६.३.११६॥

नहि वृति वृषि व्यधि रुचि सहि तनि इत्येतेषु क्विप्रत्ययान्तेषूत्तरपदेषु पूर्वपदस्य दीर्घो भवति संहितायां विषये। नहि-उपानत्। परीणत्। वृति-नीवृत्। उपावृत्। वृषि-प्रावृट्। व्यधि-मर्मावित्। हृदयावित्। श्वावित्। रुचि-नीरुक्। अभीरुक्। सहि-ऋतीषट्। तनि-परीतत्२। ‘गमःक्वौ’ (६.४.४०) इति गमादीनामिष्यते। ततस्तनोतेरप्यनुनासिकलोपः। क्वाविति किम्? परिणहनम्॥

वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्॥ ६.३.११७॥

वन गिरि इत्येतयोरुत्तरपदयोर्यथासंख्यं कोटरादीनां किंशुलकादीनां च दीर्घो भवति संज्ञायां विषये। वने कोटरादीनाम्-कोटरावणम्। मिश्रकावणम्। सिध्रकावणम्। सारिकावणम्। गिरौ किंशुलकादीनाम्-किंशुलकागिरिः। अञ्जनागिरिः। कोटरकिंशुलकादीनामिति किम्? असिपत्रवनम्। कृष्णगिरिः॥ कोटर। मिश्रक। पुरग। सिध्रक। सारिक। कोटरादिः॥ किंशुलक। शाल्वक। अञ्जन। भञ्जन। लोहित। कुक्कुट। किंशुलकादिः॥

वले॥ ६.३.११८॥

वले परतः पूर्वस्य दीर्घो भवति। आसुतीवलः। कृषीवलः। दन्तावलः। ‘रजःकृष्या-सुतिपरिषदो वलच्’ (५.२.११२) इति वलच्प्रत्ययो गृह्यते, न प्रातिपदिकम्। अनुत्साहभ्रातृपितृणामित्येव-उत्साहवलः। भ्रातृवलः। पितृवलः॥

मतौ बह्वचोऽनजिरादीनाम्॥ ६.३.११९॥

मतौ परतो बह्वचोऽजिरादिवर्जितस्य दीर्घो भवति संज्ञायां विषये। उदुम्बरावती। मशकावती। वीरणावती। पुष्करावती। अमरावती। ‘नद्यां मतुप्’(४.२.८५) इति मतुप्प्रत्ययः। ‘संज्ञायाम्’ (८.२.११) इति मतोर्वत्वम्। बह्वच इति किम्? व्रीहिमती। अनजिरादीनामिति किम्? अजिरवती। खदिरवती। पुलिनवती। हंसकारण्डववती। चक्रवाकवती। संज्ञायामित्येव-वलयवती॥

शरादीनां च॥ ६.३.१२०॥

शरादीनां च मतौ दीर्घो भवति संज्ञायां विषये। शरावती। वंशावती॥ शर। वंश। धूम। अहि। कपि। मणि। मुनि। शुचि। हनु। शरादिः। ‘संज्ञायाम्’(८.२.११) इति मतोर्वत्वम्। यवादित्वाद् (८.२.९) व्रीह्यादिभ्यो न भवति॥

इको वहेऽपीलोः॥ ६.३.१२१॥

इगन्तस्य पूर्वपदस्य पीलुवर्जितस्य वह उत्तरपदे दीर्घो भवति। ऋषीवहम्। कपीवहम्। मुनीवहम्। इक इति किम्? पिण्डवहम्। अपीलोरिति किम्? पीलुवहम्॥ अपील्वादीनामिति वक्त व्यम्॥ इह मा भूत्-दारुवहम्॥

उपसर्गस्य घञ्यमनुष्ये बहुलम् ॥ ६.३.१२२॥

उपसर्गस्य घञन्त उत्तरपदेऽमनुष्येऽभिधेये बहुलं दीर्घो भवति। वीक्लेदः। वीमार्गः। अपामार्गः। न च भवति-प्रसेवः। प्रसारः॥ सादकारयोः कृत्रिमे दीर्घो भवति॥ प्रासादः। प्राकारः। कृत्रिम इति किम्? प्रसादः। प्रकारः॥ वेशादिषु विभाषा दीर्घो भवति॥ प्रतिवेशः, प्रतीवेशः। प्रतिरोधः, प्रतीरोधः। अमनुष्य इति किम्? निषादो मनुष्यः॥

इकः काशे ॥ ६.३.१२३॥

इगन्तस्योपसर्गस्य काशशब्द उत्तरपदे दीर्घो भवति। नीकाशः। वीकाशः। अनूकाशः। पचाद्यच्प्रत्ययान्तोऽयं काशशब्दो न तु घञन्तः। इक इति किम्? प्रकाशः॥

दस्ति ॥ ६.३.१२४॥

दा इत्येतस्य यस्तकारादिरादेशस्तस्मिन् परत इगन्तस्योपसर्गस्य दीर्घो भवति। नीत्तम्। वीत्तम्। परीत्तम्। ‘अच उपसर्गात् तः’ (७.४.४७) इत्यन्तस्य यद्यपि तकारः क्रियते, तथापि चर्त्वस्याश्रयात् सिद्धत्वमिति तकारादिर्भवति। इक इत्येव-प्रत्तम्। अवत्तम्। द इति किम्? वितीर्णम्। नितीर्णम्। तीति किम्? सुदत्तम्॥

अष्टनः संज्ञायाम् ॥ ६.३.१२५॥

अष्टनित्येतस्योत्तरपदे संज्ञायां दीर्घो भवति। अष्टावक्रः। अष्टाबन्धुरः। अष्टापदम्। संज्ञायामिति किम्? अष्टपुत्रः। अष्टभार्यः॥

छन्दसि च ॥ ६.३.१२६॥

छन्दसि विषयेऽष्टन उत्तरपदे दीर्घो भवति। आ॒ग्ने॒य॑म॒ष्टा॑क॒पालं॒ नि॑र्व॒पेत् (मै०सं० २.१.३)। अष्टाहिरण्या दक्षिणा। अष्टापदी देवता सुमती। अष्टौ पादावस्या इति बहुव्रीहौ पादस्य लोपे (५.४.१३८) कृते ‘पादोऽन्यतरस्याम्’ (४.१.८) इति ङीप्॥ गवि च युक्ते भाषायामष्टनो दीर्घो भवतीति वक्त व्यम्॥ अष्टागवं शकटम्॥

चितेः कपि॥ ६.३.१२७॥

चितिशब्दस्य कपि परतो दीर्घो भवति। एकचितीकः। द्विचितीकः। त्रिचितीकः॥

विश्वस्य वसुराटोः॥ ६.३.१२८॥

विश्वशब्दस्य वसु राडित्येतयोरुत्तरपदयोर्दीर्घ आदेशो भवति। विश्वावसुः। विश्वाराट्। राडिति विकारनिर्देशो यत्रास्यैतद् रूपं तत्रैव यथा स्यात्। इह न भवति-विश्वराजौ। विश्वराजः॥

नरे संज्ञायाम्॥ ६.३.१२९॥

नरशब्द उत्तरपदे संज्ञायां विषये विश्वस्य दीर्घो भवति। विश्वानरो नाम यस्य वैश्वानरिः पुत्रः। संज्ञायामिति किम्? विश्वे नरा यस्य स विश्वनरः॥

मित्रे चर्षौ॥ ६.३.१३०॥

मित्रे चोत्तरपद ऋषावभिधेये विश्वस्य दीर्घो भवति। विश्वामित्रो नाम ऋषिः। ऋषाविति किम्? विश्वमित्रो माणवकः॥

मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ॥ ६.३.१३१॥

मन्त्रविषये सोम अश्व इन्द्रिय विश्वदेव्य इत्येतेषां मतुप्प्रत्यये परतो दीर्घो भवति। सो॒मा॒व॒ती (ऋ०१०.९७.७)। अ॒श्वा॒व॒ती (ऋ० १०.९७.७)। इ॒न्दि्॒रयाव॒ती (तै०सं० २.४.२.१)। वि॒श्वदे॑व्यावती (तै०सं० ४.१.६.१)॥

ओषधेश्च विभक्त ावप्रथमायाम्॥ ६.३.१३२॥

मन्त्र इति वर्तते। ओषधिशब्दस्य विभक्त ावप्रथमायां परतो दीर्घो भवति। ओष॑धीभिः पुनीतात् (ऋ० १०.३०.५)। नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः (तै०आ० २.१२.१)। विभक्ताविति किम्? ओषधिपते। अप्रथमायामिति किम्? स्थिरेयमस्त्वोषधिः॥

ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्॥ ६.३.१३३॥

ऋचि विषये तु नु घ मक्षु तङ् कु त्र उरुष्य इत्येषां दीर्घो भवति। तु- आ तू न इन्द्र वृत्रहन् (ऋ०४.३२.१)। नु-नू करणे। घ-उ॒त वा॑ घा स्या॒लात् (ऋ० १.१०९.२)। मक्षु-म॒क्षू गोम॑न्तमीमहे (ऋ०८.३३.३)। तङ्-भर॑ता जा॒तवे॑दसम् (ऋ० १०.१७६.२)। तङिति थादेशस्य ङित्त्वपक्षे ग्रहणम्, तेनेह न भवति-शृ॒णोत॑ ग्रावाणः (तै०सं० १.३.१३.१)। कु-कूमनः। त्र-अत्रा गौः। उरुष्य-उ॒रु॒ष्या णो॑ अ॒भिश॑स्तेः॒ (ऋ० १.९१.१५)॥

इकः सुञि॥ ६.३.१३४॥

सुञ् निपातो गृह्यते। इगन्तस्य सुञि परतो मन्त्रविषये दीर्घो भवति। अ॒भी षु णः॒ सखी॑नाम् (ऋ० ४.३१.३)। ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ (ऋ० १.३६.१३)। ‘सुञः’ (८.३.१०५) इति षत्वम्। ‘नश्च धातुस्थोरुषुभ्यः’ (८.४.२७) इति णत्वम्॥

द्व्यचोऽतस्तिङः॥ ६.३.१३५॥

ऋचीति वर्तते। द्व्यचस्तिङन्तस्यात ऋग्विषये दीर्घो भवति। वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म् (ऋ० १०.४७.१)। वि॒द्मा श॒रस्य॑ पि॒तर॑म् (शौ०सं०१.२.१) द्व्यच इति किम्? अश्वा॒ भव॑त वा॒जिनः॑ (मा०सं० ९.६)। अत इति किम्? आ दे॒वान् व॑क्षि॒ यक्षि॑ च (ऋ० ५.२६.१)॥

निपातस्य च॥ ६.३.१३६॥

ऋचीत्येव। निपातस्य च ऋग्विषये दीर्घ आदेशो भवति। ए॒वा ते॑ (ऋ० १०.२०.१०)। अच्छा॑ (ऋ० १.२.२)॥

अन्येषामपि दृश्यते॥ ६.३.१३७॥

अन्येषामपि दीर्घो दृश्यते, स शिष्टप्रयोगादनुगन्तव्यः। यस्य दीर्घत्वं न विहितम्, दृश्यते च प्रयोगे, तदनेन कर्तव्यम्। केशाकेशि। कचाकचि। जलाषाट्। नारकः। पूरुषः॥ शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु॥ श्वादन्तः। श्वादंष्ट्रः। श्वाकर्णः। श्वाकुन्दः। श्वावराहः। श्वापुच्छः। श्वापदः॥

** चौे॥ ६.३.१३८॥**

चौ परतः पूर्वपदस्य दीर्घो भवति। चावित्यञ्चतिर्लुप्तनकाराकारो गृह्यते। दधीचः पश्य। दधीचा। दधीचे। मधूचः पश्य। मधूचा। मधूचे। अन्तरङ्गोऽपि हियणादेशो दीर्घविधानसामर्थ्याद् न प्रवर्तते॥

** संप्रसारणस्य॥ ६.३.१३९॥**

उत्तरपद इति वर्तते। संप्रसारणान्तस्य पूर्वपदस्योत्तरपदे दीर्घो भवति। कारीषगन्धीपुत्रः।कारीषगन्धीपतिः। कौमुदगन्धीपुत्रः। कौमुदगन्धीपतिः। करीषस्येव गन्धोऽस्य। कुमुदस्येव गन्धोऽस्य।‘अल्पाख्यायाम्’‘उपमानाच्च’(५.४.१३६,१३७)इतीकारः समासान्तः। करीषगन्धेरपत्यं कारीषगन्ध्या, कुमुदगन्धेरपत्यं कौमुदगन्ध्या। तस्याः पुत्रः कौमुदगन्धीपुत्रः। कौमुदगन्धीपतिः। ‘इको ह्रस्वोऽङ्यो गालवस्य’(६.३.६१) इत्येतद् न भवति। व्यवस्थितविभाषा हि सा। अकृत एव दीर्घत्वे ह्रस्वाभावपक्षे कृतार्थनापि दीर्घण पक्षान्तरे परत्वाद् ह्रस्वो बाध्यते। पुनः प्रसङ्गविज्ञानं च न भवति। ‘सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव’ इति॥

॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य तृतीयः पादः॥