२०४ पर्युद् (परि+उद्)

अञ्च्

  • {पर्युदञ्च्}
  • अञ्च् (अञ्चु गतिपूजनयोः)।
  • ‘स्यादृणं पर्युदञ्चनमुद्धार इत्यमरः।’ इदं शब्दस्वाभाव्यं ल्युटि कृति प्रत्यय एवायमर्थः, तिङि तूपसर्गद्वयपूर्वस्याञ्चतेः प्रयोग एव नास्ति।

अस्

  • {पर्युदस्}
  • अस् (असु क्षेपे)।
  • ‘हिमवत्सागरानूपाः सर्वे रत्नाकरास्तथा। अन्त्याः सर्वे पर्युदस्ता युधिष्ठिर निवेशने’ (भा० सभा० ५१।२१)॥
  • ‘रात्र्यादिपर्युदस्तेतरकाले श्राद्धं कुर्यात्’ (मनु० ३।२८० इत्यत्र कुल्लूकः)। पर्युदस्तो व्यावर्तितः।
  • ‘बादरायणस्येदं मतं कीर्त्यते बादरायणं पूजयितुं नात्मीयं मतं पर्युदसितुम्’ (मी० शा० भा० १।१।५।५)। पर्युदसितुं निषेद्धुम्।

स्था

  • {पर्युत्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘तं वैश्वानरः पर्य्युदतिष्ठत्’ (पञ्च० ब्रा० ८।८।२२)।