एकवाक्यता

  • पदैकवाक्यता - पदेष्व् एकवाक्यता।
  • वाक्यभेदविचारो ऽत्र

मीमांसक-लक्षणम्

  • जैमिनिः - “अर्थैकत्वाद् एकं वाक्यम्, साकाङ्क्षं चेद् विभागे स्यात्”।

  • अर्थैकत्वं भिन्न-प्रतीति-विषयाऽनेक-मुख्य-विशेष्य-राहित्यम्।

    • मीमांसकमते सर्वदा मुख्यविशेष्यं कृतिरेव भवति।
    • वैयाकरणानां धात्वर्थ-मुख्यविशेष्यकः शाब्दबोधः।
    • नैयायिकानां प्रथमान्तपदार्थ-मुख्यविशेष्यकः शाब्दबोधः।
  • यथा - “शिष्या गुरोः सेवां कुर्वन्ति।”

    • अत्र विभिन्न-सेवा-क्रियाः। ततो नाना कृतयो+++(=मुख्यविशेष्याणि)+++ युगपत् स्थापिताः, किन्दु एकैव प्रतीतिः - एकेनैव पदेनोपस्थापितत्वात्। अन्ये शब्दा अत्र तेनैव सम्बद्धाः। ततो ऽत्र पदैकवाक्यता। गुरोस् तु परम्परया सम्बन्धः।
    • यदि “गुरोः” इति शब्दः पृथक् क्रियते, तर्हि, स स्वतन्त्र-शाब्दबोधं न जनयति - तत् साकाङ्क्षम् भवति विभागे।
  • यथा - “कालिदासेन कुमारसम्भवं नाम महाकाव्यम्, भवभूतिना +उत्तररामचरितं नाम नाटकं च रचितम्।”

    • अत्राप्यर्थैकत्वम् अस्ति। यतः - रचनप्रयत्नौ/ कृती उक्ते चेदपि, एकैव युगपदेव प्रतीतिः तयोः - एकेनैव पदेनोपस्थापितत्वात्।
  • प्रत्युदाहरणं यथा - “रामो ग्रामं गच्छति। तत्र भोजनं खादति।”

  • अत्र वाक्यद्वयम्। द्वितीये वाक्ये “तत्र” इति पदं साकाङ्क्षं नन्विति चेन् न - पदार्थावगताव् एव सर्वनामशब्दविशेषणं पूर्ववाक्यकृतं भवति।

  • वाक्य एकम् उद्देश्यम्, एकमेव च विधेयम्।

वैयाकरण-लक्षणम्

किं नाम वाक्यम्?

  • कारकान्विता क्रिया वाक्यम्। यथा - [[रामो] रथेन गत्वा] [जलं पीतवान्।] अत्र वाक्यखण्डत्रयम्।
  • “आकाङ्क्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः। आकाङ्क्षादिरहितं वाक्यमप्रमाणम्। यथा गौरश्वः पुरुषो हस्तीति न प्रमाणामाकाङ्क्षाविरहात्। अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात्। प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सांनिध्याभावात्॥”
    • पदेषु परस्परो ऽन्वयः स्यात्। वाक्ये व्यपेक्षा नाम सामर्थ्यं स्यात्।
    • पदस्य पदान्तर-व्यतिरेक-प्रयुक्तान्वयाननुभावकत्वम् आकाङ्क्षा।
    • अर्थाबाधो योग्यता।
    • पदानामविलम्बेनोच्चारणं संनिधिः॥

वाक्यगुणान्तराणि - एकक्रियात्वम्।