२११ परिसम् (परि+सम्)

आप्

  • {परिसमाप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ (गीता ४।३३)। परिसमाप्यते निःशेषं समाप्यते।

ऊह्

  • {परिसमूह्}
  • ऊह् (ऊह वितर्के)।
  • ‘समिद्धमग्निं पाणिना परिसमूहेन्न समूहन्या’ (आप० ध० १।१।४।१८)। परिसमूहेत् संमृज्यात्।
  • ‘अग्निमिद्ध्वा परि समूह्य समिध आदध्यात्’ (आप० ध० १।४।१६)। परिसमूह्य परिसमुह्य विप्रकीर्णमग्निमेकीकृत्य।
  • ‘प्रवणं देशं समं वा परिसमुह्य’ (गो० गृ० १।१।९)। संमृज्य सर्वतः कुशैः पांस्वादिकमपसार्य। समूहनी संमार्जनी भवति।

क्रीड्

  • {परिसंक्रीड्}
  • क्रीड् (क्रीड् विहारे)।
  • ‘सामात्यः सम्परिक्रीडन् कामस्य वशमागतः’ (रा० ४।३०।१६)। सम्परिक्रीडन् प्रहसन्, नर्म सेवमानः। सामात्यपरिषत् क्रीडन् पानमेवोपसेवते इति पाठान्तरम्। इदं च ३०।७९ इत्यत्र दाक्षिणात्यकोशेषु द्रष्टव्यम्।

ख्या

  • {परिसंख्या}
  • ख्या (चक्षिङः ख्याञ् आदेशः)।
  • ‘ननु गर्दभरशनां परिसंख्यास्यति। न शक्नोति परिसंख्यातुम्। परिसंचक्षाणो हि स्वार्थं च जह्यात्, परार्थं च कल्पयेत प्राप्तं च बाधेत’ (मी० १।२।४।३१ शा० भा०)।
  • ‘तत् सर्वं (वित्तं) परिसंख्याय ततो ब्राह्मणसात् करोत्’ (भा० द्रोण० ६३।३)। परिसंख्याय गणयित्वा परिकलय्य। ब्राह्मण सात्करोदित्यत्राडभाव आर्षः।
  • ‘दैविकानां युगानां तु सहस्रं परिसंख्यया’ (मनु० १।७२)। परिसंख्या संख्या। परिरत्र विशेषकृन्न।
  • ‘शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनम्’ (याज्ञ० ३।१५८)। शरीरपरिसंख्यानम्, अस्थिरत्वाशुचित्वादिदोषानुसन्धानम्।

चक्ष्

  • {परिसंचक्ष्}
  • चक्ष् (चक्षिङ् व्यक्तायां वाचि, छन्दसि दर्शनेपि)।
  • ‘सर्वेषामिन्द्रियाणां प्रसङ्गे परिसञ्चष्टे चक्षुषी नासिके श्रोत्रे चेति’ (आप० ध० १।१६।७ इत्यत्रोज्ज्वलायाम्)।
  • ‘तत्रैतान्याचार्याः परिसंचक्षते’ (गो० गृ० ३।५।२)। परिसंख्यानं निषिद्धादन्यत्र विधानमिति सत्यव्रतः सामश्रमी।

तप्

  • {परिसंतप्}
  • तप् (तप सन्तापे)।
  • ‘अलं हि परिसन्तप्य’ (रा० ४।२५।११)। तदलं परितापेनेति पाठान्तरम्।

पत्

  • {परिसंपत्}
  • पत् (पत्लृ गतौ)।
  • ‘मेधाभिकामा परिसंपतन्ती… बलाकपङ्क्तिः’ (रा० ४।२८।२३)। परिसंपतन्ती परितः संचरन्ती।