२५१ समुदाङ (सम्+उद्+आङ्)

  • {समुदे}
  • इ (इण् गतौ)।
  • ‘गुणहान्यां तु परेषां समुदेतः सोदर्योपि भोजयितव्यः’ (सत्या० श्रौ० २७।५।३४)। समुदेतो वृत्तादिभिर्युक्तः।

चर्

  • {समुदाचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘यामि (=जामि) हरणजनितानुशयः समुदाचचार निज एव रुक्मिणः’ (शिशु० १५।५३)। समुदाचचार उदियाय। उद्दिदीप इत्यर्थः। निजो नित्यः। प्रतिघः क्रोधः।
  • ‘यथा भवति सुस्वस्थस्तथा त्वं समुदाचर’ (रा० ६।९।२१)। समुदाचर आचर।

वह्

  • {समुदावह्}
  • वह् (वह प्रापणे)।
  • ‘ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत्’ (रा० ६।६९।१५)। समुदावहत् अपावहत्, अपानयत्।
  • ‘(अश्वाः) पुत्रं विराटराजस्य सत्वरं समुदावहन्’ (भा० द्रोण० २३।१७)। समुदावहन् प्रापयन् (रथस्थम्)।

हृ

  • {समुदाहृ}
  • हृ (हृञ् हरणे)।
  • ‘एतेत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत्’ (रा० ४।३८।७)। समुदाहरत् व्याहरत्।