तसिल्-आदि

स्रोतः - नीलेशजलक्षेत्रम्

इतः

अस्मात् इत्येव
= अस्मात् + तसिल् [‘अस्मात्’ शब्दात् स्वार्थे प्रत्ययविधानम्]
→ इदम् + तस् [कृत्तद्धितसमासाश्च १.२.४६ इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः २.४.७१ इति पञ्चमीप्रत्ययस्य लुक्]
→ इ + तस् [इदम इश् ५.३.३ इति ‘इदम्’ इत्यस्य ‘इ’ आदेशः ।]
→ इतः [ससजुषो रुँः ८.२.६६ इति रुँत्वम् । खरवसानयोर्विसर्जनीयः ८.३.१५ इति विसर्गः]

अतः

एतद् + तसिल् [पञ्चम्यास्तसिल् ५.३.७ इति तसिल्-प्रत्ययः]
→ एतद् + तस् [लकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः, अतः तस्यापि लोपः]
→ अन् + तस् [एतदोऽन् ५.३.५ इति एतद्-शब्दस्य अन्-आदेशः]
→ अ + तस् [स्वादिष्वसर्वनामस्थाने १.४.१७ इति अङ्गस्य पदसंज्ञा ; स्थानिवद्भावात् च अङ्गस्य प्रातिपदिकसंज्ञा । अग्र नलोपः प्रातिपदिकान्तस्य ८.२.७ इति नकारलोपः]
→ अतः [ससजुषो रुँः ८.२.६६ इति रुँत्वम्, खरवसानयोर्विसर्जनीयः ८.३.१५ इति विसर्गः]

कस्मात्

कस्मात् इत्येव = कस्मात् + तसिल् [‘कस्मात्’ शब्दात् स्वार्थे प्रत्ययविधानम्]
→ किम् + तस् [कृत्तद्धितसमासाश्च १.२.४६ इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः २.४.७१ इति पञ्चमीप्रत्ययस्य लुक्]
→ कु + तस् [किमः कः ७.२.१०३ इत्यनेन विभक्तिसंज्ञके प्रत्यये परे ‘किम्’ इत्यस्य ‘क’ इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे कु तिहोः ७.२.१०४ इति ‘कु’ आदेशः ]
→ कुतः [ससजुषो रुँः ८.२.६६ इति रुँत्वम् । खरवसानयोर्विसर्जनीयः ८.३.१५ इति विसर्गः]

अमुतः

अमुष्मात् इत्येव
= अमुष्मात् + तसिल् [‘अस्मात्’ शब्दात् स्वार्थे प्रत्ययविधानम्]
→ अदस् + तस् [कृत्तद्धितसमासाश्च १.२.४६ इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः २.४.७१ इति पञ्चमीप्रत्ययस्य लुक्]
→ अदस् + तरुँ [ससजुषोः रुँः ८.२.६६ इति रुँत्वम्]
→ अमु + तरुँ [अदसोऽसेर्दादु दो मः ८.२.८० इति ‘अदस्’ इत्यस्य अमु’ आदेशः ।]
→ अमुतः [खरवसानयोर्विसर्जनीयः ८.३.१५ इति विसर्गः]

यतः

यस्मात् इत्येव
= यस्मात् + तसिल् [‘यस्मात्’ शब्दात् स्वार्थे प्रत्ययविधानम्]
→ यद् + तस् [कृत्तद्धितसमासाश्च १.२.४६ इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः २.४.७१ इति पञ्चमीप्रत्ययस्य लुक्]
→ य + तस् [त्यदादीनामः ७.२.१०२ इति दकारस्य अकारादेशः । अतो गुणे ६.१.९७ इति पररूप-एकादेशः ]
→ यतः [ससजुषो रुँः ८.२.६६ इति रुँत्वम् । खरवसानयोर्विसर्जनीयः ८.३.१५ इति विसर्गः]

कुतः

कस्मात् + तसि [प्रतियोगे पञ्चम्यास्तसिः ५.४.४४ इत्यनेन तसि-प्रत्ययः]
→ कस्मात् + तसिल् [तसोश् च इत्यनेन ‘तसि’ प्रत्ययस्य ‘तसिल्’ आदेशः]
→ किम् + तस् [कृत्तद्धितसमासाश्च १.२.४६ इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः २.४.७१ इति पञ्चमीप्रत्ययस्य लुक्]
→ कु + तस् [किमः कः ७.२.१०३ इत्यनेन विभक्तिसंज्ञके प्रत्यये परे ‘किम्’ इत्यस्य ‘क’ इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे कु तिहोः ७.२.१०४ इति ‘कु’ आदेशः ]
→ कुतः [ससजुषो रुँः ८.२.६६ इति रुँत्वम् । खरवसानयोर्विसर्जनीयः ८.३.१५ इति विसर्गः]
एवमेव ‘यतः’, ‘ततः’, ‘सर्वतः’ - आदयः शब्दाः अपि सिद्ध्यन्ति ।

बहुतः

बह्व्याः इत्येव
= बह्वी + तस् [प्रतियोगे पञ्चम्यास्तसिः ५.४.४४ इत्यनेन तसि-प्रत्ययः]
= बह्वी + तसिल् [वर्तमानतसोश् च इत्यनेन सूत्रेण ‘तसि’ प्रत्ययस्य ‘तसिल्’ आदेशः]
→ बहु + तसिल् [पुंवद्वावः]
→ बहुतः ।

एतर्हि कर्हि, यर्हि …

अस्मिन् + र्हिल् [‘अस्मिन् काले’ इति विवक्षिते स्वार्थे इदमो र्हिल् ५.३.१६ इति र्हिल्-प्रत्ययः]
→ इदम् + र्हि [लकारस्य इत्संज्ञा, लोपः । सुप्-प्रत्ययस्य अपि लुक् ।]
→ एत + र्हि [एतेतौ रथोः ५.३.४ इति इदम्-शब्दस्य रेफादौ प्रत्यये परे एत-आदेशः]
→ एतर्हि ।

अनद्यतने र्हिलन्यतरस्याम्

कस्मिन् काले = कस्मिन् + र्हिल् → किम् + र्हि [कृत्तद्धितसमासाश्च १.२.४६ इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः २.४.७१ इति सुप्-प्रत्ययस्य लुक्] → क + र्हि [किमः कः ७.२.१०३ इति ‘क’ आदेशः] → कर्हि ‘कस्मिन् काले’ इत्यस्मिन्नेव अर्थे ‘कर्हि’ इति शब्दः प्रयुज्यते । पक्षे ‘दा’ प्रत्ययं कृत्वा ‘कदा’ इत्यपि रूपं सिद्ध्यति । २. यस्मिन् काले = यस्मिन् + र्हि = यद् + र्हि [कृत्तद्धितसमासाश्च १.२.४६ इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः २.४.७१ इति सुप्-प्रत्ययस्य लुक्] → य + र्हि [त्यदादीनामः ७.२.१०२ इति दकारस्य अकारादेशः। अतो गुणे ६.१.९७ इति पररूपम् ] → यर्हि एवमेव ‘तर्हि’, ‘एतर्हि’, ‘अन्यर्हि’ एते शब्दाः अपि सिद्ध्यन्ति ।

इत्थम्

अनेन + थमु [‘प्रकारवचने’ विवक्षिते स्वार्थे इदमस्थमुः ५.३.१२ इति थमु-प्रत्ययः]
→ इदम् + थम् [उकारः उच्चारणार्थः, तस्य लोपः । सुप्-प्रत्ययस्य अपि लुक् । ]
→ इत् + थम् [एतेतौ रथोः ५.३.४ इति इदम्-शब्दस्य थकारादौ प्रत्यये परे इत् -आदेशः]
→ इद् + थम् [थम्-प्रत्यये परे अङ्गस्य स्वादिष्वसर्वनामस्थाने १.४.१७ इति पदसंज्ञा । पदसंज्ञायां सत्याम् झलां जशोऽन्ते ८.२.३९ इति जश्त्वे तकारस्य दकारः]
→ इत् + थम् [खरि च ८.४.५५ इति चर्त्वे तकारः]
→ इत्थम् ।

कथम्

केन प्रकारेण इत्येव = केन + थमु [ किमश्च । विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।] → केन + थम् [उकारस्य लोपः] → किम् + थम् [कृत्तद्धितसमासाश्च १.२.४६ इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः २.४.७१ इति सुप्-प्रत्ययस्य लुक्] → क + थम् [किमः कः ७.२.१०३ इति किम्-शब्दस्य ‘क’ आदेशः ।] → कथम्

इह

इदम् + ह [इदमो हः ५.३.११ इत्यनेन इदम्-शब्दात् ह-प्रत्ययः]
→ इ + ह [इदमः इश् ५.३.३ इत्यनेन इदम्-शब्दस्य ‘इ’ इति सर्वादेशः]
→ इह

क्व

कस्मिन् इत्येव = कस्मिन् + अत् [‘अत्’ इति प्रत्ययः।] → कस्मिन् + अ [तकारस्य हलन्त्यम् १.३.३ इति इत्संज्ञा, तस्य लोपः १.३.९ इति लोपः] → किम् + अ [कृत्तद्धितसमासाश्च १.२.४६ इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः २.४.७१ इति सप्तमीप्रत्ययस्य लुक्] → क्व + अ [क्वाति ७.२.१०५ इति ‘किम्’ इत्यस्य ‘क्व’-आदेशः] → क्व् + अ [यस्येति च ६.४.१४८ इति अकारलोपः] → क्व

कुह

किम् + ह [वा ह च च्छन्दसि]
→ कु + ह [किमः कः ७.२.१०३ इत्यनेन विभक्तिसंज्ञके प्रत्यये परे ‘किम्’ इत्यस्य ‘क’ इति आदेशे प्राप्ते तं बाधित्वा हकारादौ प्रत्यये परे कु तिहोः ७.२.१०४ इति ‘कु’ आदेशः ]
→ कुह

सर्वदा

सर्वस्मिन् काले इत्येव
= सर्वस्मिन् + दा [सर्वैकान्यकिंयत्तदः काले दा ]
→ सर्व + दा [कृत्तद्धितसमासाश्च १.२.४६ इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः २.४.७१ इति सुप्-प्रत्ययस्य लुक्]
→ सर्वदा, सदा [सर्वस्य सोऽन्यतरस्यां दि ५.३.६ इति विकल्पेन ‘स’ आदेशः]

एवम् एकदा, अन्यदा, कदा, यदा, तदा

अधुना

अस्मिन् काले इत्येव = अस्मिन् + धुना [‘अस्मिन्’ शब्दात् ‘धुना’ इति प्रत्ययः निपात्यते] → इदम् + धुना [कृत्तद्धितसमासाश्च १.२.४६ इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः २.४.७१ इति सुप्-प्रत्ययस्य लुक्] → अ + धुना [‘इदम्’ शब्दस्य ‘अश्’ इति आदेशः निपात्यते । शित्त्वात् सर्वादेशः] → अधुना

तदानीम्

तस्मिन् काले = तस्मिन् + दा / दानीम् → तद् + दा / दानीम् [कृत्तद्धितसमासाश्च १.२.४६ इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः २.४.७१ इति सुप्-प्रत्ययस्य लुक्] → तअ + दा/दानीम् [त्यदादीनामः ७.२.१०२ इति दकारस्य अकारादेशः] → त + दा/दानीम् [अतो गुणे ६.१.९७ इति पररूपम्] → तदा / तदानीम्

यथा

येन प्रकारेण इत्येव येन + थाल् [वर्तमानसूत्रेण थाल् इति प्रत्ययः । विवक्षया अत्र तृतीयान्तात् प्रत्ययः भवति ।] → यद् + था [कृत्तद्धितसमासाश्च १.२.४६ इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः २.४.७१ इति सप्तमीप्रत्ययस्य लुक्] → य + था [त्यदादीनामः ७.२.१०२ इति दकारस्य अकारादेशः । अतो गुणे ६.१.९७ इति पररूपम् ।] → यथा

एवमेव ‘तथा’, सर्वथा’, ‘अन्यथा’, ‘उभयथा’ - एते शब्दाः सिद्ध्यन्ति ।