०५१ संवि (सम्+वि)

ईक्ष्

  • {संवीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘संवीक्षणं विचयनम्’ (अमरः)। विचयनं मार्गणं गवेषणमन्वेषणं भवति।
  • ‘यूकां संवीक्ष्य वीक्ष्यैव भक्षयेद् दन्तकोटिभिः’ (स्कन्द पु० का० ४।३।३9)। संवीक्ष्य=अन्विष्य=विचित्य। संवीक्षणं विचयनमित्यमरः।

ज्ञा

  • {संविज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘वर्तस्व पुरुषव्याघ्र संविजानामि तेऽनघ’ (भा० शां० ६५।३५)। संविजानामि=सुष्ठु जानामि।
  • ‘संविज्ञातानि तानि’ (नि० १।१२।४)। संविज्ञानपदमिह शास्त्रे रूढिशब्दस्य संज्ञेति दुर्गः।
  • ‘संविज्ञातपदानि तु प्रधानस्तुतिभाग्देवताग्न्यादीनि’ (नि० ७।१ दुर्गवृत्तिः)।
  • ‘न पदार्थसंविज्ञानार्थानि मन्वादिवाक्यानि व्याकरणाभिधानकाण्डस्मृतिवत्’ (मनु० २।१० इत्यत्र मेधातिथिः)।
  • ‘असंविज्ञातमनिबन्धनमन्धतमसमिव प्रविशामि’ (उत्तर० ७)। असंविज्ञातमननुभूतपूर्वम्।

धा

  • {संविधा}
  • धा (धाञ् धारणपोषणयोः)।
  • ‘भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम्’ (भा० वन० १०५।२)। संविधीयताम्=निश्चीयताम्, व्यवसीयताम्।
  • ‘वृत्तिं नः संविधत्स्व वै’ (सुश्रुत० २।३९४।१७)। निश्चिन्वित्याह। कल्पयेति तात्पर्यार्थः।
  • ‘तस्य पूजार्थमद्यैव संविधत्स्व परन्तप’ (भा० उ० ८५।९)। उपचारसामग्रीं योजयेत्याह।
  • ‘संविधास्यति कार्याणि सर्वथा’ (रा० ४।२५।५)। सर्वात्मना कार्येष्ववधास्यतीत्याह।
  • ‘श्रुत्वा त्वत्तः शुभे वाक्यं संविधास्याम्यहं तथा’ (भा० उ० १९०।१७)। संविधास्यामि=आचरिष्यामि।
  • ‘यथैनं नाभिसन्दध्युर्मित्रोदासीनशत्रवः। तथा सर्वं संविदध्यात्…’ (मनु० ७।१८०)। संविदध्यात्=युञ्जीत, योगान् उपायान् आतिष्ठेत्।
  • ‘सन्धिविग्रहयानासनसंश्रयद्वैधीभावानामेकतमेन संविधास्ये’ (पञ्चत० )। कार्यं साधयिष्ये।
  • ‘येषामामं च पक्वं च संविधत्ते’ (भा० सभा० ५२।४२)। संविधत्त उपकल्पयति (युधिष्ठिरः)।
  • ‘पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम्’ (भा० सभा० ४३।१७)। न्यदधादित्यर्थः।
  • ‘संविधाय हरिर्नटम्। नटवेषेण भैमानां प्रेषयामास’ (हरि० २।९२।५८)। संविधाय=व्यादिश्य।
  • ‘संविधाय पुरे रक्षाम्’ (भा० ३।१२०८९)। उक्तोऽर्थः।
  • ‘सुसंविधाय स्वबलं सदृशं विक्रमस्य’ (रा० ५।७०।६)। सुसंविधाय=सुप्रयुज्य।
  • ‘इतो दु:खतरं किन्नु यदहं मातरं ततः। संविधातुं न शक्नोमि’ (भा० उ० ७२।१३) तस्या लोकयात्रां निर्वर्तयितुम्, आवश्यकेनान्नाद्येन योजयितुम्। सम्यक् पोषयितुमिति तात्पर्यार्थः।
  • ‘असंविहितराष्ट्रस्य देशकालावजानतः’ (भा० शां० १३०।४)। असम्यग्रक्षितं राष्ट्रं येन सोऽसंविहितराष्ट्रः, तस्य।
  • ‘रावणः संविधां चक्रे लङ्कायां शास्त्रनिर्मिताम्’ (भा० वन० ३८४।२)।
  • ‘उद्भासितं मङ्गलसंविधाभिः सम्बन्धिनः सद्म समाससाद’ (रघु० ७।१६)। संविधाभिः=रचनाभिः।
  • ‘उपाचरत् कृत्रिमसंविधाभिः’ (रघु० १४।१७)। संविधाभिः=भोग्यपदार्थैः।
  • ‘यावद् गेहं गत्वा जानामि किं नु खलु संविधा विहिता नवेति’ (चारु० १)। संविधा=अन्नपाकः।
  • ‘कल्पविकल्पयामास वन्यामेवास्य संविधाम्’ (रघु० १।९४)। संविधाम्=कुशादिशयनसामग्रीम्।
  • ‘संविधानं च विहितं रथाश्च किल सज्जिताः’ (भा० द्रोण० ७५।२५)।
  • ‘संविधानमथाज्ञाप्य द्वारकायां महाबलः’ (हरि० २।१२१।१४१)। संविधानं पुररक्षरणम्।
  • ‘यथा च यात्यादयः संविधाने न वर्तन्ते’ (पा० १।२।६३ सूत्रे प्रदीपे)। संविधानं प्रयोजकव्यापार इत्युद्योतः।
  • ‘संविधानं च विहितं रथाश्च किल सज्जिताः’ (भा० द्रोण० ७५।२५)।
  • ‘इन्द्रियान्तराणामौदासीन्येन संविधातृत्वात्’ (पा० १।२।५९ सूत्रे भा० प्रदीपे)। संविधातृत्वं सहकारित्वम्।

पद्

  • {संविपद्}
  • पद् (पद गतौ)।
  • ‘सम्प्रतिपत्तिभावाच्च’ (वै० सू० २।२।३५)। सम्प्रतिपत्तिः प्रत्यभिज्ञानम्।

भज्

  • {संविभज्}
  • भज् (भज् सेवायाम्)।
  • ‘न देवा दण्डमादाय रक्षन्ति पशुपालवत्। यं तु रक्षितुमिच्छन्ति बुद्ध्या संविभजन्ति तम्’ (भा० उ० ३५।४०)॥ संविभजन्ति=संयुञ्जन्ति।
  • ‘शमेऽभिरेमे विरराम पापाद् भेजे दमं संविबभाज साधून्’ (बुद्ध० २।३३)। साधुभ्यो ददावित्याह।
  • ‘सम्बन्धायोग्यमपि तं कृतज्ञत्ववशंवदः। संविभेजे स भुजगः कन्यया च धनेन च’ (राज० १।२४३)॥ संविभेजे=सिषेवे। कन्यादानेन धनदानेन च। इदं द्वयं ददावित्यर्थः।
  • ‘अतिरिक्तैः संविभजेद् भोगैरन्यानकिञ्चनान्’ (भा० शां २५९।२३)। विभज्य संयोजयेदित्याह।
  • ‘स्निग्धजनसंविभक्तं हि दु:खं सह्यवेदनं भवति’ (शा० ४)। संविभक्तम्=विभज्य साधारणीकृतम्।
  • ‘भवन्तमाश्रिताः कृष्ण संविभक्ताश्च सर्वशः’ (हरि० २।१२१।२१)। संविभक्ताः=समीचीनविशिष्टभक्तिमन्तः। अत्रार्थेऽयं विरलः प्रयोगः। मितं भुङ्क्ते संविभज्याश्रितेभ्यः। संविभज्य=स्वभोग्यस्यार्थजातस्यैकदेशं प्रदाय।
  • ‘संविभज्याग्रतो विप्रान् स्रक्ताम्बूलानुलेपनैः’ (भा० पु० १०।७०।१३)। विभागपूर्वकं संयोज्य। स्रगादीनि विप्रेभ्यो दत्त्वेत्यर्थः।
  • ‘स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु’ (गौ० ध० २।१।३९)। संविभागः=भ्रात्रादीनां साधारणस्य परस्परविभागः।
  • ‘तपसः संविभागेन भवन्तमपि योक्ष्यते’ (भा० उ० ११४।१८)। संविभागः=अंशः। एकदेशः।
  • ‘संभाषणमपि संविभागमध्ये कुर्वन्ति’ (का० शुक०)। संविभागः=उपहारः दानम्, प्रतिग्रहः।
  • ‘वत्सलं संविभक्तारमुपजीवन्ति तं नराः’ (भा० शां० ७५।३७)। संविभक्तारम्=दातारम्।
  • ‘संविभक्ता च दाता च भोगवान् सुखवान्नरः’ (भा० वन० २५९।२४)। संविभक्ता=अन्नादेर्विभागकर्ता। सुखवानित्यस्य स्थाने सुखीति पाणिनीया इच्छन्ति।
  • शतेन वार्या ऋत्विजः’ (पा० ३।१।१०१ सूत्रे वृत्तिः)। ऋत्विजो हि धनेन संविभक्तव्या इत्यस्त्यनिरोधः (=अप्रतिबन्धः) इति न्यासः। संविभक्तव्या वरीतुं शक्याः।

भा

  • {संविभा}
  • भा (भा दीप्तौ)।
  • ‘यं यं लोकं मनसा संविभाति’ (मुण्डक० ३।१।१०)। संविभाति संकल्पयति।

वस्

  • {संविवस्}
  • वस् (वस आच्छादने)।
  • ‘नाश्रेयान्वै प्रावारान् संविवस्ते’ (भा० उ० २६।८)। संविवस्ते=वस्ते, संवी अनर्थकौ।

वह्

  • {संविवह्}
  • वह् (वह प्रापणे)।
  • ‘संविवहन्ते गर्गैः’ (पा० १।३।१५ सूत्रे भाष्ये)। गर्गैः सह कन्यकाद्वारकं सम्बन्धं प्राप्नुवन्तीत्याह।

स्था

  • {संविस्था}
  • स्था (ष्ठा गतिनिवृत्तौ )।
  • ‘ये तु तत्रोत्तरे तीरे…। पूर्वं संविष्टिताः शूराः…’ (रा० ५।५७।१९)॥ संविष्ठिताः समवस्थिताः।